Chapter 1, Verse 33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।।
yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha
Word meanings: yeṣhām—for whose; arthe—sake; kāṅkṣhitam—coveted for; naḥ—by us; rājyam—kingdom; bhogāḥ—pleasures; sukhāni—happiness; cha—also; te—they; ime—these; avasthitāḥ—situated; yuddhe—for battle; prāṇān—lives; tyaktvā—giving up; dhanāni—wealth; cha—also
Shri Purohit Swami
When those for whose sake I desire these things stand here, about to sacrifice their property and lives:
Classical Commentaries (संस्कृत भाष्य)
Sri Anandgiri
।।1.33।।तानेव विशिनष्टि आचार्या इति।
Sri Dhanpati
।।1.33।।येषां स्वीयानामर्थे नो राज्यं भोगसाधनमाकाङ्क्षितमभिलषितं भोगाः सुखसाधनानि सुखानि य येषामर्थे आकाङ्क्षितानि त इमे प्रत्यक्षेणोपलभ्यमानाः प्राणान्धनानि च त्यक्त्वा युद्धेऽवस्थिताः। त्यक्तुमिति वक्तव्ये त्यक्त्वेति क्त्वाप्रत्ययेन प्राणादित्यागसाधने समरे प्रवृत्ते तत्त्यक्तुमवस्थिता अपि तत्प्रेमातिशयात्पलाय्य गमिष्यन्तीति शङ्का न कर्तव्येति सूचयति।
Sri Madhavacharya
।।1.33।।Sri Madhvacharya did not comment on this sloka. The commentary starts from 2.11.
Sri Neelkanth
।। 1.33निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।
Sri Ramanujacharya
।।1.33।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।
Sri Sridhara Swami
।। 1.33 विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति। एतदेव प्रपञ्चयति किं न इति सार्धाभ्याम्। यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः। अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः।
Sri Vedantadeshikacharya Venkatanatha
।। 1.33।।No commentary.
Sri Abhinavgupta
।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।
Sri Jayatritha
।।1.33।।Sri Jayatirtha did not comment on this sloka. The commentary starts from 2.11.
Sri Madhusudan Saraswati
।।1.33।।प्राणधनशब्दौ तु तदाशालक्षकौ। स्वप्राणत्यागेऽपि स्वबन्धूनामुपभोगाय धनाशा संभवेदिति तद्वारणाय पृथग्धनग्रहणम्।
Sri Purushottamji
।।1.33।।ननु तवैकस्य नाकांक्षा तथापि स्वकीयसम्बन्धिनां सर्वेषामर्थे शत्रून्मारयित्वा राज्यं स्वकीयं कुर्वित्याशङ्कायामाह येषामर्थ इति। येषामर्थे नः राज्यमाकाङ्क्षितं भोगाः सुखानि च कांक्षितानि ते सर्व इमे प्राणान् धनानि च त्यक्त्वा युद्धे सङ्ग्रामे मर() णार्थमवस्थिता इत्यर्थः। तस्मादेतन्मारणेन लौकिकसिद्धिरपि नास्माकमिति भावः।
Sri Shankaracharya
1.33 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.
Sri Vallabhacharya
।।1.31 1.33।।Sri Vallabhacharya did not comment on this sloka.