← Chapter 1

Chapter 1, Verse 44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।

नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।।

utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhruma

Word meanings: utsanna—destroyed; kula-dharmāṇām—whose family traditions; manuṣhyāṇām—of such human beings; janārdana—he who looks after the public, Shree Krishna; narake—in hell; aniyatam—indefinite; vāsaḥ—dwell; bhavati—is; iti—thus; anuśhuśhruma—I have heard from the learned

Shri Purohit Swami

The wise say, my Lord, that they are forever lost whose ancient traditions have been lost.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।1.44।।राज्यप्राप्तिप्रयुक्तसुखोपभोगलब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह   अहो बतेति। 
Sri Dhanpati
।।1.44।।ततो यद्भवति तदाह   उत्सन्नेति।  उत्सन्ना विनष्टाः कुलधर्मा जातिधर्माश्च येषां तेषां मनुष्याणां नरके नियतं नियमेन वासो भवतीत्यनुशुश्रुम शास्त्रादाचार्याच्च श्रुतवन्तः कुलक्षयहेतुभूतयुद्धकर्तृ़णामस्माकं नरकपतनध्रौव्यात्तस्मान्निवृत्तिरेव श्रेयसीति नरकान्त्राणार्थिभिर्जनैः प्रार्थ्यमानं त्वामहमपि तन्त्राणाय प्रार्थायामीति ध्वनयन्नाह   हे जनार्दनेति। 
Sri Madhavacharya
।।1.44।।Sri  Madhvacharya did not comment on this sloka. The commentary starts from 2.11.
Sri Neelkanth
।। 1.44एतदेव विवृणोति द्वाभ्याम्   दोषैरिति। 
Sri Ramanujacharya
।।1.44।।अर्जुन उवाच  संजय उवाच  स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।
Sri Sridhara Swami
।। 1.44।।No commentary. 
Sri Vedantadeshikacharya Venkatanatha
।। 1.44।।No commentary. 
Sri Abhinavgupta
।।1.35  1.44।।निहत्येत्यादि।  आततायिनां हनने पापमेव कर्तृ।  अतोऽयमर्थः  पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः।  तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)।  पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)।  अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि  N क्षेपकम्) करोति  स्वजनं हि कथमित्यादिना।
Sri Jayatritha
।।1.44।।Sri Jayatirtha did not comment on this sloka. The commentary starts from 2.11.
Sri Madhusudan Saraswati
।।1.44।।बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनात्मानं शोचन्नाह  यदीदृशी ते बुद्धिः कुतस्तर्हि युद्धभिनिवेशेनागतोऽसीति न वक्तव्यम्। अविमृश्यकारितया मयौद्धत्यस्य कृतत्वादिति भावः।
Sri Purushottamji
।।1.44।।एवं सर्वधर्मलोपात्सर्वेषां नरकलोको भवतीत्याह  उत्सन्नकुलधर्माणामिति। हे जनार्दन उत्सन्नकुलधर्माणां मनुष्याणां नियतं नरके वासो भवतीति वयमनुशुश्रुम श्रुतवन्त इत्यर्थः। जनार्दनेति सम्बोधनेन त्वत्सम्बन्धरहितास्तथा भवन्ति अविद्यासम्बन्धादिति ज्ञापितम्।
Sri Shankaracharya
1.44 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10. 
Sri Vallabhacharya
।।1.43  1.44।।Sri Vallabhacharya did not comment on this sloka.
← PrevNext →