Chapter 10, Verse 27
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्।।10.27।।
uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ cha narādhipam
Word meanings: uchchaiḥśhravasam—Uchchaihshrava; aśhvānām—amongst horses; viddhi—know; mām—me; amṛita-udbhavam—begotten from the churning of the ocean of nectar; airāvatam—Airavata; gaja-indrāṇām—amongst all lordly elephants; narāṇām—amongst humans; cha—and; nara-adhipam—the king
Shri Purohit Swami
Know that among horses I am Pegasus, heaven-born; among the lordly elephants I am the white one, and I am the ruler among men.
Classical Commentaries (संस्कृत भाष्य)
Sri Anandgiri
।।10.27।।सर्ववृक्षाणामित्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते।
Sri Dhanpati
।।10.27।।अमृतोद्भवममृतथनोद्भवम्। इदं ऐरावतेऽपि संबन्धनीयम्। नराधिपं राजानम्।
Sri Madhavacharya
।।10.26 -- 10.27।।सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः।प्रीतिः सुखं कमानन्दः इत्यभिधानात् प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म [छां.उ.4।10।5] इति च। ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति (ज्ञा) जायमानं च पश्येत् [श्वे.उ.5।2] सुखादनन्तात्पालनाल्लीयनाच्च यं वै देवं कपिलमुदाहरन्ति इति,(सामवेदे) बाभ्रव्यशाखायाम्।
Sri Neelkanth
।।10.27।।अमृतोद्भवममृतमथनावसरे उद्भवो यस्य तम्।
Sri Ramanujacharya
।।10.27।।सर्वेषाम् अश्वानां मध्ये अमृतमथनोद्भवम् उच्चैःश्रवसं मां विद्धि। गजेन्द्राणां सर्वेषां मध्येः अमृतमथनोद्भवम् ऐरावतं मां विद्धि।अमृतोद्भवम् इति ऐरावतस्य अपि विशेषणम्। नराणां मध्ये राजानं मां विद्धि।
Sri Sridhara Swami
।।10.27।।उच्चैःश्रवसमिति। अमृतार्थं क्षीराब्धिमथनादुद्भूतमुच्चैःश्रवसं नामाश्वं मद्विभूतिं विद्धि। अमृतोद्भवमित्येतदैरावतेऽपि संबध्यते। नराधिपं राजानं मां विद्धि।
Sri Vedantadeshikacharya Venkatanatha
।।10.27।।अमृतोद्भवम् इति जन्मतः प्रकर्षसूचनम्। अमृतमत्र जलं मथ्यमानावस्था सुधैव वा। गजेन्द्रशब्देन दिग्गजा विवक्षिताः। तेषु प्रधानतया दिक्पालेश्वरस्य शचीपतेरौपवाह्य ऐरावतः। अमृतोद्भवत्वं च काकाक्षिन्यायादैरावतेऽप्यन्वेतव्यम्। रथन्तरसामोद्भवत्वं वा द्रष्टव्यम्। नराधिपशब्देनैव निर्वाहकत्वलक्षणोऽतिशयः सिद्धः।
Sri Abhinavgupta
।।10.19 -- 10.42।।हन्त ते कथयिष्यामीत्यादि जगत्स्थित इत्यन्तम्। अहमात्मा (श्लो. 20) इत्यनेन व्यवच्छेदं वारयति। अन्यथा स्थावराणां हिमालय इत्यादिवाक्येषु हिमालय एव भगवान् नान्य इति व्यवच्छेदेन? निर्विभागत्वाभावात् ब्रह्मदर्शनं खण्डितम् अभविष्यत्। यतो यस्याखण्डाकारा व्याप्तिस्तथा चेतसि न उपारोहति? तां च [यो] जिज्ञासति तस्यायमुपदेशग्रन्थः। तथाहि उपसंहारे ( उपसंहारेण) भेदाभेदवादं,यद्यद्विभूतिमत्सत्त्वम् (श्लो -- 41) इत्यनेनाभिधाय? पश्चादभेदमेवोपसंहरति अथवा बहुनैतेन -- विष्टभ्याहमिदं -- एकांशेन जगत् स्थितः (श्लो -- 42) इति। उक्तं हि -- पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।।इति -- RV? X? 90? 3प्रजानां सृष्टिहेतुः सर्वमिदं भगवत्तत्त्वमेव तैस्तेर्विचित्रै रूपैर्भाव्यमानं (S तत्त्वमेतैस्तैर्विचित्रैः रूपैः ? N -- विचित्ररूपै -- ) सकलस्य (S?N सकलमस्य) विषयतां यातीति।
Sri Jayatritha
।।10.26 -- 10.27।।सिद्धानां कपिलो मुनिः इति कपिलशब्दं व्याचष्टे -- सुखेति। सुखरूप इति कः? पाल्यते जगदनेनेति पिः?पा रक्षणे [धा.पा.2।46] इत्यतः किः? लीयते जगदनेनेति लः।ली श्लेषणे [धा.पा.9।29] इत्यस्माड्डःला आदाने [धा.पा.2।48] इत्यतो वाकः। ततः कर्मधारयः। कशब्दस्य सुखवाचित्वेऽभिधानं प्रयोगं च पठति -- प्रीतिरिति। समग्रार्थे श्रुतिमाह -- ऋषिमिति। तं भगवन्तमृषिं कपिलं च पश्येत्। कथमृषिः सर्वज्ञत्वात्? इत्युच्यते। यः प्रसूतं पूर्वकल्पेषु जातं जायमानं वर्तमानं चैवमागामि च जगज्ज्ञानैर्बिभर्ति जानातीति यावत्। कथं कपिलः इत्यत उक्तं -- सुखादिति। यच्छब्दद्वयस्य तमित्यनेनान्वयः।
Sri Madhusudan Saraswati
।।10.27।।अश्वानां मध्ये उच्चैःश्रवसममृतमथनोद्भवमश्वं मां विद्धि। ऐरावतं गजममृतमथनोद्भवं गजेन्द्राणां मध्ये मां विद्धि। नराणां च मध्ये नराधिपं राजानं मां विद्धीत्यनुषज्यते।
Sri Purushottamji
।।10.27।।अश्वानां अमृतमथने अमृतसङ्गोत्पन्नमुच्चैश्श्रवसं मदंशं विद्धि। गजेन्द्राणां ऐरावतं विद्धि। नराणां मध्ये पालकं नरं राजानं विद्धि।
Sri Shankaracharya
।।10.27।। --,उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्वराजः तं मां विद्धि विजानीहि अमृतोद्भवम् अमृतनिमित्तमथनोद्भवम्। ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्? तम् मां विद्धि इति अनुवर्तते। नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि।।
Sri Vallabhacharya
।।10.27।।उच्चैश्श्रवसमिति। सप्तमुखाग्निरूपमश्वम्? अमृतेन समुद्भवो यस्य। भगवत्सेवायां क्रीडोपयोगितया विभूतिः स चिन्तनीयः। तथैरावतोऽपि तदभिषेचनेन वा। भागवतेऽपि [स्कं.11अ.16] विभूतिनिरूपणे तदिदमुक्तम्। तारतम्यभेदस्त्वैच्छिकः एकवक्तृकत्वात्।