Bhagavad Gita · Chapter 11 · Verse 14

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।।
tataḥ sa vismayāviṣhṭo hṛiṣhṭa-romā dhanañjayaḥ praṇamya śhirasā devaṁ kṛitāñjalir abhāṣhata
साधक संजीवनी — स्वामी रामसुखदास
।।11.14।। व्याख्या--ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः--अर्जुनने भगवान्के रूपके विषयमें जैसी कल्पना भी नहीं की थी, वैसा रूप देखकर उनको बड़ा आश्चर्य हुआ। भगवान्ने मेरेपर कृपा करके विलक्षण आध्यात्मिक बातें अपनी ओरसे बतायीं और अब कृपा करके मेरेको अपना विलक्षण रूप दिखा रहे हैं-- इस बातको लेकर अर्जुन प्रसन्नताके कारण रोमाञ्चित हो उठे।
Sri Anandgiri
।।11.14।।विश्वरूपधरस्य भगवतस्तस्मिन्नेकीभूतजगतश्चोक्तविशेषणस्य दर्शनानन्तरं किमकरोदित्यपेक्षायामाह -- तत इति। आश्चर्यबुद्धिर्विस्मयः? रोम्णां हृष्टत्वं पुलकितत्वं? प्रकर्षो भक्तिश्रद्धयोरतिशयः।
Sri Dhanpati
।।11.14।।ततः किमकरोदित्यपेक्षायामाह। तत एकस्थकृत्स्त्रजगद्दर्शनानन्तरं सः प्रथितप्रभावो धनंजयोऽर्जुनो विस्मयाविष्टः। आश्यर्यबुद्धियुक्तः। तल्लिङ्गमाह। हृष्टानि पुलकितानि रोमाणि यस्य। पणभ्य प्रकर्षणोत्कटभक्त्या नमनं कृत्वा शिरसा देवं विश्वरुपधरं नमस्करार्थं संपुटीकृतहस्तः सन् उक्तवान्। विश्वरुपदर्शनात्पूर्वमपि खाण्डवदाहादिना प्रथितप्रभावो राजसूये गोग्रहे च राजभ्यो धनस्य भीष्मादिभ्यो गोधनस्य च हरणात् धनंजयोऽधुना पुनर्दृष्टविश्वरुप इति राज्याशां त्वं मा कुर्विति स धनंजय इति पदाभ्यां धनस्य भीष्मादिभ्यो गोधनस्य च हरणात् धनंजयोऽधुना पुनर्दृष्टविश्वरुप इति राज्याशां त्वं मा कुर्विति स धनंजय इति पदाभ्यां ध्वनितम्।
Sri Madhavacharya
।।11.14।।Sri Madhvacharya did not comment on this sloka.,
Sri Neelkanth
।।11.14।।हृष्टरोमा रोमाञ्चितगात्रः।
Sri Ramanujacharya
।।11.14।।ततः धनञ्जयः महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेन आश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत् प्रणम्य कृताञ्जलि अभाषत।
Sri Sridhara Swami
।।11.14।।एवं दृष्ट्वा किं कृतवानित्यत आह -- तत इति। ततो दर्शनानन्तरं विस्मयेनाविष्टो व्याप्तः सन्हृष्टान्युत्पुलकितानि रोमाणि यस्य स धनंजयो देवं तमेव शिरसा प्रणम्य कृताञ्जलिः संपुटीकृतहस्तो भूत्वाभाषत उक्तवान्।
Sri Vedantadeshikacharya Venkatanatha
।।11.14।।No commentary.
Sri Abhinavgupta
।।11.14।।No commentary.
Sri Jayatritha
।।11.14।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।11.14।।एवमद्भुतदर्शनेऽप्यर्जुनो न बिभयांचकार? नापि नेत्रे संचचार? नापि संभ्रमात्कर्तव्यं विसस्मार? नापि तस्माद्देशादपससार? किंत्वतिधीरत्वात्तत्कालोचितमेव व्यवजहार महति चित्तक्षोभेपीत्याह -- तत इति। ततस्तद्दर्शनादनन्तरं विस्मयेनाद्भुतदर्शनप्रभवेनालौकिकचित्तचमत्कारविशेषेणाविष्टो व्याप्तः अतएव हृष्टरोमा पुलकितः सन् स प्रख्यातमहादेवसंग्रामादिप्रभावः धनंजयः युधिष्ठिरराजसूये उत्तरगोग्रहे च सर्वान्वीरान् जित्वा धनमाहृतवानिति प्रथितमहापराक्रमोऽतिवीरः साक्षादग्निरिति वा महातेजस्वित्वात् देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलग्नेन प्रणम्य प्रकर्षेण भक्तिश्रद्धातिशयेन नत्वा नमस्कृत्य कृताञ्जलिः संपुटीकृतहस्तयुगः,सन्नभाषतोक्तवान्। अत्र विस्मयाख्यस्थायिभावस्यार्जुनगतस्यालम्बनविभावेन भगवता विश्वरूपेणोद्दीपनविभावेनासकृत्तद्दर्शनेनानुभावेन सात्त्विकरोमहर्षेण नमस्कारेणाञ्जलिकरणेन चाव्यभिचारिणा चानुभावाक्षिप्तेन वा धृतिमतिहर्षवितर्कादिना परिपोषात्सववासनानां श्रोतृ़णां तादृशश्चित्तचमत्कारोऽपि तद्भेदानध्यवसायात्परिपोषं गतः परमानन्दास्वादरूपेणाद्भुतरसो भवतीति सूचितम्।
Sri Purushottamji
।।11.14।।दर्शनानन्तरं किं कृतवानित्यत आह -- तत इति। ततस्तदनन्तरं स पूर्वोक्तः प्राप्तदिव्यदृष्टिः विस्मयाविष्टः। आश्चर्यरसनिमग्नः हृष्टरोमा उत्पुलकिताङ्गः अन्तरानन्दयुक्तः धनञ्जयः प्रादुर्भूतविभूतिरूपः शिरसा मस्तकेन देवं पूज्यं नमस्करणीयं प्रणम्य नमस्कृत्य कृताञ्जलिः विनीतः सन् अभाषत विज्ञप्तिं कृतवान्।
Sri Shankaracharya
।।11.14।। --,ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सः अयं हृष्टरोमा च अभवत् धनंजयः। प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं संपुटीकृतहस्तः सन् अभाषत उक्तवान्।।कथम् यत् त्वया दर्शितं विश्वरूपम्? तत् अहं पश्यामीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच --,अर्जुन उवाच --,
Sri Vallabhacharya
।।11.14।।तत इति दर्शनानन्तरं धनञ्जयः अभाषत। स्पष्टमन्यत्।