← Chapter 11

Chapter 11, Verse 20

द्यावापृथिव्योरिदमन्तरं हि

व्याप्तं त्वयैकेन दिशश्च सर्वाः।

दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं

लोकत्रयं प्रव्यथितं महात्मन्।।11.20।।

dyāv ā-pṛithivyor idam antaraṁ hi vyāptaṁ tvayaikena diśhaśh cha sarvāḥ dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman

Word meanings: dyau-ā-pṛithivyoḥ—between heaven and earth; idam—this; antaram—space between; hi—indeed; vyāptam—pervaded; tvayā—by you; ekena—alone; diśhaḥ—directions; cha—and; sarvāḥ—all; dṛiṣhṭvā—seeing; adbhutam—wondrous; rūpam—form; ugram—terrible; tava—your; idam—this; loka—worlds; trayam—three; pravyathitam—trembling; mahā-ātman—The greatest of all beings

Shri Purohit Swami

Alone, you fill all the quarters of the sky, earth, and heaven, and the regions between. O Almighty Lord! Seeing your marvelous and awe-inspiring form, the spheres tremble with fear.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।11.20।।प्रकृतभगवद्रूपस्य व्याप्तिं व्यनक्ति -- द्यावापृथिव्योरिति। तस्यैव भयंकरत्वमाचष्टे -- दृष्ट्वेति।
Sri Dhanpati
।।11.20।।द्यावुृथिव्योरन्तमन्तरिक्षं त्वयैकेन विश्वरुपधरेण व्याप्तं दिशश्च सर्वाः त्वया व्याप्ताः। हि यस्मात्तस्मात्तवेदमुघ्रं,रुपं दृष्ट्वा लोकत्रयं प्रव्यथितं पीडितम्। अत इदमुपसंहर। महात्मनोऽक्षुद्रस्वभावस्य तव निर्दोषलोकपीडनं नोचितमित्याशयेनाह -- हे महात्मन्निति।
Sri Madhavacharya
।।11.20।।मातापित्रोरन्तरङ्गः स एकः? रूपेण चान्यैः सर्वगतः स एकः इति वारुणश्रुतेरेकेनैव द्यावापृथिव्योरन्तरं व्याप्तो भवति।पश्य मे पार्थ रूपाणि [1।6।18] इति बहूनि रूपाणि प्रतिज्ञातानि मातापितरौ च पृथिवीद्यावौ। मा नो माता पृथिवी दुर्मतौ धात् मधु द्यौरस्तु नः पिता [ऋक्सं.बृ.उ.6।3।6] इत्यादिप्रयोगात्। न तु नियमतो भयप्रदं तत्स्वरूपम्। नारदस्य तदभावात्। केषाञ्चित्तथा दर्शयति भगवान् -- प्रियन्ति केचित्तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः इति वारुणशाखायाम्। न तु तं सर्वे पश्यन्ति। अदृष्ट्वाऽपि तान्निरूप्य भयेन द्रष्टुस्तथा प्रतिभाति। तथा च गौतमखिलेषु -- दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयाद्बिभ्यतो दृष्टवत्ते। पश्यन्ति ते न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात् इति।
Sri Neelkanth
।।11.20।।एवं स्वयंकृतविश्वरूपदर्शनेन कृतकृत्यो भूत्वा तदुपसंहारमिच्छन्स्तौति -- द्यावापृथिव्योरिति। हे महात्मन्? हि प्रत्यक्षं त्वयैकेनेदं द्यावापृथिव्योरन्तरं मध्यं सर्वाः दिशश्च व्याप्ताः। अतस्तवेदमद्भुतमुग्रं रूपं दृष्ट्वा लोकत्रयं प्रकर्षेण व्यथितम्। अतः परमिदमुपसंहरेत्यभिप्रायः।
Sri Ramanujacharya
।।11.20।।द्युशब्दः पृथिवीशब्दश्च उभौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शनार्थौ? द्यावापृथिव्योः अन्तरम् अवकाशः? यस्मिन् अवकाशे सर्वे लोकाः तिष्ठन्ति? सर्वः अयम् अवकाशः दिशश्च सर्वाः त्वया एकेन व्याप्ताः।दृष्ट्वा अद्भूतं रूपम् उग्रं तव इदम् अनन्तायामविस्तारम् अत्यद्भुतम् अति उग्रं तव रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् -- युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितम्? अत्यन्तभीतम् महात्मन् अपरिच्छेद्यमनोवृत्ते।ऐतेषाम् अपि अर्जुनस्य इव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुः भगवता दत्तम्। किमर्थम् इति चेत् अर्जुनाय स्वैश्वर्यं सर्वं प्रदर्शयितुम् अत इदम् उच्यते -- दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् इति।
Sri Sridhara Swami
।।11.20।।किंच -- द्यावापृथिव्योरिति। द्यावापृथिव्योरिदमन्तरं हि अन्तरिक्षं त्वयैकेन व्याप्तम्। दिशश्च सर्वा व्याप्ताः। अद्भुतमदृष्टपूर्वं त्वदीयमिदमुग्नं घोरं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितमतिभीतं पश्यामीति पूर्वस्यैवानुषङ्गः।
Sri Vedantadeshikacharya Venkatanatha
।।11.20।।एवम्भूतमिति अत्युग्ररूपमित्यर्थः। प्रव्यथितविशेषणानुसारेण लोकशब्दोऽत्र जनविषय इत्याह -- देवादय इति।दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् [11।23] इति वक्ष्यमाणावेक्षणेनअहं चेत्युक्तम्। अनन्तत्वस्य बहुशोऽभिहितत्वादवच्छिन्नलोकद्वयव्याप्तिवचनं तदुपलक्षितलोकवर्गद्वयप्रदर्शनार्थमित्यभिप्रायेणाहद्युशब्द इति।अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये [अमरः3।3।186] इत्यनेकार्थान्तरशब्दस्य प्रस्तुतानुगुणमर्थमाहअवकाश इति। शक्तिविशेषादिवशात्सप्रतिघत्वविरोधाद्यभावाभिप्रायेणावकाशं विवृण्वन्विपण्डितार्थमाहयस्मिन्निति।अनन्तायामविस्तारमिति पूर्वोक्तस्यानुकर्षणम्। अयमभिप्रायः -- पूर्वापरवाक्ययोर्विग्रहेकविषयतया मध्ये स्वरूपव्याप्तिकथनप्रयोजनाभावाद्विग्रहस्य चातिमहत्त्वेन कण्ठोक्तत्वात्तद्विषयोऽयं व्याप्तिव्यपदेश इति। नात्र लोकत्रयशब्देन पृथिव्यादिकं विवक्षितम्? तत्र प्रव्यथितत्ववचनायोगात्। अतोमञ्चाः क्रोशन्ति इतिवत्तद्वर्तिनः प्राणिनो वक्तव्याः। ततश्च लक्षणातोऽपि लोकशब्दस्यैव मुख्यत्वेन जनविषयत्वं वरम्। जनस्य त्रित्वं च शत्रुमित्रोदासीनरूपेण सुप्रसिद्धम् तस्य च सर्वस्य जनस्यात्र समवायो युद्धदिदृक्षया सिद्धः अत एव लोकत्रयवर्तिकतिपयपुरुषव्यथादर्शनेन लोकत्रयनिर्देश इति न भ्रमितव्यम् नापीदमर्जुनस्योत्प्रेक्षणं? दृष्टस्यैव सर्वस्य वचनात् तदेतदाह -- युद्धेति। अत्र देवासुरादिग्रहणं मानुषव्यवच्छेदार्थं? युद्धायागतानां सर्वेषां भगवद्विग्रहादर्शनात्। सोपसर्गस्य धातोर्विवक्षितमाह -- अत्यन्तभीतमिति। महात्मशब्दस्य गम्भीरबुद्धिविशेषवत्सु प्रसिद्धत्वात्? विग्रहस्योग्रत्ववदाशयापरिच्छेदस्यापि भयहेतुत्वादत्रायमेवार्थ उचित इत्यभिप्रायेणाहअपरिच्छेद्येति। ननुदर्शयामास पार्थाय [11।9] इति ह्युपक्रान्तम् तत्कथं देवासुरादीनामपि मानुषवन्मांसचक्षुषां भगवद्विग्रहसाक्षात्कार उच्यते इत्यत्राह -- एतेषामपीति। अर्जुनस्य शिष्यभूतस्यात्यन्तोपसन्नस्य निरतिशयभक्तेः स्वविग्रहप्रकाशनं प्राप्तम् तदर्थं च तस्यैव दिव्यचक्षुर्दत्तम् वक्ष्यति चदेवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः [11।52] इति अतः सामान्येन सर्वस्य जनस्य दिव्यचक्षुःप्रदाने कारणं न पश्याम इत्यभिप्रायेण शङ्कते -- किमर्थमिति। परिहरति -- अर्जुनायेति। देवादीनामपि दिदृक्षासम्भवात्सर्वेषामवतारसाक्षात्कारवत्सुकृतविपाकसन्निपातात्क्षुद्राणामिव महतामपि भयावहत्वादिना निरङ्कुशैश्वर्यप्रकाशनेन प्रकृतोपयोगाच्च दिव्यचक्षुर्दानमिति भावः। तदेवार्जुनवाक्येन संवादयति -- अत इदमिति।
Sri Abhinavgupta
।।11.20।।No commentary.
Sri Jayatritha
।।11.20।।द्यावापृथिव्योरिदमन्तरं हि इत्यत्रत्वया इत्यनेनैवैकत्वस्य सिद्धत्वात्एकेन इति व्यर्थमित्यतः प्रमाणपूर्वकं तदभिप्रायमाह -- मातापित्रोरिति। बहुत्वेऽपि स एकोऽभिन्नः अनेनदिशश्च सर्वाः रूपान्तरैरित्युक्तं भवति। तदयुक्तम्। विश्वरूपस्यद्रष्टुमिच्छामि ते रूपं [11।3] इत्यादिना एकत्वावगतेरित्यत आह पश्येति। ऐक्यापेक्षयैकवचनमिति भावः। मातापित्रोः इति श्रुतिः प्रकृतानुपयोगिनी कथमुदाहृताद्यावापृथिव्योः इत्यनभिधानादित्यत आह -- मातापितरौ चेति। माता पृथिवी? नोऽस्मान्दुर्मतौ माधात् न दध्यात्। नोऽस्माकं मधु सुखहेतुरस्तु।दृष्ट्वाऽद्भुतं इत्यादिना विश्वरूपदर्शनस्य भयहेतुत्वमुच्यते। तन्न सर्वेषां सर्वदा? किन्तु केषाञ्चित्कारणविशेषात्कदाचिदेवेति सप्रमाणकं तदभिप्रायमाह -- न त्विति। अभ्यसेऽभ्यासे सति सर्वेषां तृप्तिरानन्द एवेत्यर्थः। एवं तद्दर्शनस्य भयहेतुत्वनियमाभावमभिधाय लोकत्रयस्य दर्शनाभावं चाह -- न त्विति। किन्तु त्रिलोकेषु स्थितैर्भक्तैरित्युक्तप्रकारेण कैश्चिदेव। तदभिप्रायश्च लोकत्रयशब्द इति भावः। प्रकारान्तरेणलोकत्रयं इत्यस्याभिप्रायमाह -- अदृष्ट्वाऽपीति। विश्वरूपदर्शनार्थं यतमानानां लोकत्रयस्थानां पुंसां तददृष्ट्वाऽपि चेतसि निरूप्य स्थितानां भये जाते सति तद्द्रष्टुरर्जुनस्य तथाऽहमिवैतेऽपि दृष्ट्वा बिभ्यतीति प्रतिभातीत्यतःलोकत्रयं दृष्ट्वा प्रव्यथितं इत्याहेत्यर्थः। अत्र श्रुतिसम्मतिमाह -- दृष्ट्वेति। देवं विश्वरूपं दृष्ट्वा मोदमानास्त एतेऽर्जुनादयस्तद्ध्यायिनः पश्यन्ति। कथम्भूतान् अदृष्ट्वापि तन्निरूप्यैतद्भयाद्बिभ्यतो भयचिह्नवतस्तस्मिन्नेव विश्वरूपे मनसो गतत्वात्तन्न्यस्तचक्षुर्मुखांश्च दृष्टवत् दृष्टवन्त इवेत्यर्थः।
Sri Madhusudan Saraswati
।।11.20।।प्रकृतस्य भगवद्रूपस्य व्याप्तिमाह -- द्यावेति। द्यावापृथिव्योरिदमन्तरिक्षं हि एव त्वयैवैकेन व्याप्तं। दिशश्च सर्वा व्याप्ताः। दृष्ट्वाद्भुतमत्यन्तविस्मयकरमिदमुग्रं दुरधिगमं महातेजस्वित्वात्तव रूपमुपलभ्य लोकत्रयं प्रव्यथितं अत्यन्तभीतं जातं। हे महात्मन्साधूनामभयदायक? इतः परमिदमुपसंहरेत्यभिप्रायः।
Sri Purushottamji
।।11.20।।किञ्चद्यावापृथिव्योरिति। इदं द्यावापृथिव्योः अन्तरमन्तरिक्षं एकेन त्वया व्याप्तम्। च पुनः? दिशः सर्वास्त्वया व्याप्ताः पश्यामि। किञ्च हे महात्मन् इतोऽप्यधिकप्रकटनसमर्थ तव इदमद्भुतमलौकिकं उग्रं अदृष्टं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं प्रकर्षेण व्यथितं भीतं पश्यामीति पूर्वेणान्वयः।
Sri Shankaracharya
।।11.20।। --,द्यावापृथिव्योः इदम् अन्तरं हि अन्तरिक्षं व्याप्तं त्वया एकेन विश्वरूपधरेण दिशश्च सर्वाः व्याप्ताः। दृष्ट्वा उपलभ्य अद्भुतं विस्मापकं रूपम् इदं तव उग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे महात्मन् अक्षुद्रस्वभाव।।अथ अधुना पुरा यद्वा जयेम यदि वा नो जयेयुः (गीता 2।6) इति अर्जुनस्य यः संशयः आसीत्? तन्निर्णयाय पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान्। तं पश्यन् आह --,किञ्च --,
Sri Vallabhacharya
।।11.20।।द्यावापृथिव्योः इत्यारभ्यचूर्णितैरुत्तमाङ्गैः [11।27] इत्यन्तं स्पष्टार्थम्।
← PrevNext →