Bhagavad Gita · Chapter 11 · Verse 48
न वेदयज्ञाध्ययनैर्न दानै
र्न च क्रियाभिर्न तपोभिरुग्रैः।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।।
na veda-yajñādhyayanair na dānair
na cha kriyābhir na tapobhir ugraiḥ
evaṁ-rūpaḥ śhakya ahaṁ nṛi-loke
draṣhṭuṁ tvad anyena kuru-pravīra
साधक संजीवनी — स्वामी रामसुखदास
।।11.48।। व्याख्या--'कुरुप्रवीर'--यहाँ अर्जुनके लिये 'कुरुप्रवीर' सम्बोधन देनेका अभिप्राय है कि सम्पूर्ण कुरुवंशियोंमें मेरेसे उपदेश सुननेकी, मेरे रूपको देखनेकी और जाननेकी तेरी जिज्ञासा हुई, तो यह,कुरुवंशियोंमें तुम्हारी श्रेष्ठता है। तात्पर्य यह हुआ कि भगवान्को देखनेकी, जाननेकी इच्छा होना ही वास्तवमें मनुष्यकी श्रेष्ठता है।
Sri Anandgiri
।।11.48।।तच्छब्देन प्रकृतं दर्शनं परामृश्यते। वेदाध्ययनात्पृथग्यज्ञाध्ययनग्रहणं पुनरुक्तेरयुक्तमित्याशङ्क्याह -- न वेदेति। नच वेदाध्ययनग्रहणादेव यज्ञविज्ञानमपि गृहीतमध्ययनस्यार्थावबोधान्तत्वादिति वाच्यं? तस्याक्षरग्रहणान्ततया वृद्धैः साधितत्वादिति भावः। श्लोकपूरणार्थमसंहितकरणं? त्वत्तोऽन्येन मदनुग्रहविहीनेनेति शेषः।
Sri Dhanpati
।।11.48।।मम विश्वरुपदर्शनेन कृतार्थ एव त्वं संपन्न इत्याशयेनाह -- नेति। न वेदानां चतुर्णामप्यध्ययनैः गुरुच्चारणानुच्चारणलक्षणैः। यज्ञाध्ययनैर्यज्ञविज्ञानस्य भीमांसाकल्पसूत्रादेरध्ययनैर्न दानैर्गोदानादिभिर्न च क्रियाभिः श्रौतस्मार्थक्रियाकलापैर्न तपोभिश्चान्द्रायणादिभिरुग्रैः घोरैर्देहशोषणैरेवं यथा प्रदर्शितं विश्वरुपं यस्य स एवंरुपाऽहं त्वदन्येन मदनुग्रहवर्जितेन द्रष्टुं शक्यः। अन्ये कुरवः केचित्कुरुवीराश्च। त्वं तु मे तद्रूपदर्शनलब्धप्रकर्षः कुरुप्रवीरः संपन्न इत सूचयन्नाह हे कुरुप्रवीर।
Sri Madhavacharya
।।11.48।।Sri Madhvacharya did not comment on this sloka.,
Sri Neelkanth
।।11.48।।योगैकगम्यमेतत्कर्मिणां दुष्प्रापमित्याह -- न वेदेति। वेदानां यज्ञानां चाध्ययनैरधिगमैः नच दानैर्नच क्रियाभिः स्मृत्युक्ताभिरापूर्तादिभिर्वापीकूपारामादिभिस्तपोभिः कृच्छ्रचान्द्रयणाद्यैः। उग्रैर्मासोपवासाद्यैः। नृलोके एवंरूपोऽहं द्रष्टुं न शक्यः। रोरुत्वाभाव आर्षः। त्वदन्येन कुरुप्रवीर।
Sri Ramanujacharya
।।11.48।।एवंरूपः यथावस्थितः अहं मयि भक्तिमतः त्वत्तः अन्येन ऐकान्तिकात्यन्तिकभक्तिरहितेन केन अपि पुरुषेण केवलैः वेदयज्ञादिभिः द्रष्टुं न शक्यः।
Sri Sridhara Swami
।।11.48।।एतद्दर्शनमतिदुर्लभं लब्ध्वा त्वं कृतार्थोऽसीत्याह -- नेति। वेदाध्ययनातिरेकेण यज्ञाध्ययनस्याभावात्। यज्ञशब्देन यज्ञविद्यायाः कल्पसूत्राद्या लक्ष्यन्ते। वेदानां यज्ञविद्यानां चाध्ययनैरित्यर्थः। नच दानैर्न च क्रियाभिरग्निहोत्रादिभिर्न चोग्रैस्तपोभिश्चान्द्रायणादिभिरेवंरूपोऽहं त्वदन्येन मनुष्यलोके द्रष्टुं शक्यः? अपितु त्वमेव केवलं मत्प्रसादेन दृष्ट्वा कृतार्थोऽसि।
Sri Vedantadeshikacharya Venkatanatha
।।11.48।।कथमेतद्रूपस्य मदन्येन केनाप्यदृष्टपूर्वत्वम् येनकेनचिदुपायेनान्यैरपि दर्शनसम्भवादित्यत्र एतदुपपादकत्वेनोत्तरश्लोकमवतारयति -- अनन्यभक्तिव्यतिरिक्तैरित्यादिना।एवंरूपः इत्यस्याप्राकृतरूपविशिष्टपरत्वे कृष्णावताररूपस्य सर्वैदृश्यमानत्वानुपपत्त्या मनुष्यादिविसजातीयत्वाप्राकृतत्वारूपपरत्वमभिप्रेत्याहयथावस्थितोऽहमिति। एकान्तभक्तिरहितानामवताररूपदर्शनं तु मनुष्यादिसजातीयत्वप्राकृतत्वादिरूपेणायथावस्थितदर्शनमेवेति भावः।त्वत् इत्येतत्पृथक्पदं भक्तिमत्परं चेत्यभिप्रयन्नाहमयि भक्तिमतस्त्वत्तोऽन्येनेति। अत्रान्यपदेन अर्जुनान्यत्वविवक्षायांभक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन [11।54] इत्युत्तरग्रन्थविरोधापत्त्याभक्तिमदन्यत्वमात्रं विवक्षितमित्याहएकान्तभक्तिरहितेन केनापीति। वेदशब्दोऽर्थवत्तया श्रुतवेदपरः। तेनश्रोतव्यः [2।4।5] इत्युक्तश्रवणं लभ्यते इत्यध्ययनस्य पृथगुक्तत्वात्क्रियाशब्देन गोबलीवर्दनयाद्यज्ञाध्ययनादिव्यतिरिक्तहोमादिक्रिया उच्यन्त इत्यभिप्रेत्यवेदयज्ञादिभिरित्युक्तम्। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [बृ.उ.4।4।22] इति श्रुत्या वेदयज्ञादीनां भक्तिद्वारा दर्शनसाधनत्वप्रतीतेः कथमयं निषेधः इति शङ्कावारणायकेवलैरित्युक्तम्।
Sri Abhinavgupta
।।11.48।।No commentary.
Sri Jayatritha
।।11.48।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।11.48।।एतद्रूपदर्शनात्मकमतिदुर्लभं मत्प्रसादं लब्ध्वा कृतार्थ एवासि त्वमित्याह -- न वेदेति। वेदानां चतुर्णामपि अध्ययनैरक्षरग्रहणरूपैः? तथा मीमांसाकल्पसूत्रादिद्वारा यज्ञानां वेदबोधितकर्मणामध्ययनैरर्थविचाररूपैर्वेदयज्ञाध्ययनैः? दानैस्तुलापुरुषादिभिः? क्रियाभिरग्निहोत्रादिश्रौतकर्मभिः? तपोभिः कृच्छ्रचान्द्रायणादिभिरुग्रैः कायेन्द्रियशोषकत्वेन दुष्करैः? एवंरूपोऽहं न शक्यः नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन मदनुग्रहहीनेन। हे कुरुप्रवीर? शक्योहमिति वक्तव्ये विसर्गलोपश्छान्दसः। प्रत्येकं नकाराभ्यासो निषेधदार्ढ्याय। नच क्रियाभिरित्यत्र चकारादनुक्तसाधनान्तरसमुच्चयः।
Sri Purushottamji
।।11.48।।एवं त्वदिच्छयैवेदं रूपं दर्शितं? इदानीं च पूर्वतनमेव रूपं पश्य? दर्शनीयस्य रूपस्य दुर्लभत्वायाऽर्जुने कृपाधिक्यमाह -- न वेदेति। न वेदयज्ञाध्ययनैः वेदानां सार्थकशब्दात्मकानां यज्ञानामानुपूर्व्यादिसहितविद्याक्रियाणां अध्ययनैः? न दानैः तुलापुरुषादिभिः? न च क्रियाभिरग्निहोत्रादिरूपाभिः? न तपोभिरुग्रैः कृच्छ्रचान्द्रायणादिभिः नृलोके मनुष्यलोके एवंरूपः अहं पुरुषोत्तमः हे कुरुप्रवीर भक्तकुलश्रेष्ठ त्वदन्येन त्वामपहायान्येन द्रष्टुं पूर्वोक्तैः साधनैरपि न शक्यः न समर्थः।
Sri Shankaracharya
।।11.48।। --,न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथावत् यज्ञाध्ययनैश्च -- वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् -- तथा न दानैः तुलापुरुषादिभिः? न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः? न अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः? एवंरूपः यथादर्शितं विश्वरूपं यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर।।
Sri Vallabhacharya
।।11.48।।मदनुग्रहैकलभ्यभक्तिव्यतिरिक्तैस्तु सर्वैरप्युपायैरेवमपि द्रष्टुमशक्य इत्याह -- न वेदेति। अहं पुरुषोत्तमः कृष्ण एवंरूपमैश्वरं यस्य स विशिष्टो नृलोके द्रष्टुमशक्यः केवलोऽक्षरादिस्तु स्वोपासकानां वेदप्रवचनादिसाधनैर्द्रष्टुं शक्योऽपि भवति? नाहं पुरुषोत्तमः अनन्यभक्तिलभ्यत्वात्भक्त्याऽहमेकया ग्राह्यः इति [11।14।21] भागवतवाक्यात्। तत्रापि त्वत्तो मदनुगृहीताद्भक्तादन्ये नैवमपि द्रष्टुं न शक्ताः एतद्दर्शनस्यापि मदनुग्रहलभ्यत्वात् त्वं तु केवलं मदनुग्रहात् दृष्टवानसि। इयमेव पुष्टिःपोषणं तदनुग्रहः इति [2।10।4] भागवतवाक्यात्।तद्रहितानामपि स्वप्रमेयबलेन स्वप्रापणं पुष्टिः इति भाष्यकारः। दैवस्य निग्रहणमनु सर्वसाधनकरणेनापि पुरुषोत्तमस्वरूपालाभे दैन्येनार्त्ततया च दृढतरबीजरूपासक्तिभावमनुग्रहणं भगवता यत्र भवति सोऽनुग्रहश्च पुष्टिरिति सङ्क्षेपः। तदिदं प्रमेयवर्त्म भागवतषष्ठस्कन्धे -- सध्रीचीनो ह्ययं पन्था लोके,क्षेमोऽकुतोऽभयः [अ.1।17] इति शुकेन धर्मविष्णुदूतसंवादोपाख्यानद्वारा स्पष्टमेव दर्शितमिति ततोऽवसेयम्। अत्रोपपत्तिर्भक्तिहेतुग्रन्थेऽनेकधा निरूपिता द्रष्टव्या।