← Chapter 12

Chapter 12, Verse 11

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्।।12.11।।

athaitad apy aśhakto ’si kartuṁ mad-yogam āśhritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān

Word meanings: atha—if; etat—this; api—even; aśhaktaḥ—unable; asi—you are; kartum—to work; mad-yogam—with devotion to me; āśhritaḥ—taking refuge; sarva-karma—of all actions; phala-tyāgam—to renounce the fruits; tataḥ—then; kuru—do; yata-ātma-vān—be situated in the self

Shri Purohit Swami

And if thou art too weak to do even this, then seek refuge in union with Me, and with perfect self-control renounce the fruits of thy actions.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।12.11।।भगवत्कर्मपरत्वमप्यशक्यमिति शङ्कते -- अथेति। बहिर्विषयाकृष्टचेतस्त्वादित्यर्थः। तर्हि भगवत्प्राप्त्युपायत्वेन संयतचित्तो भूत्वा कर्मफलसंन्यासं कुर्वित्याह -- मद्योगमिति।
Sri Dhanpati
।।12.11।।तर्हि विषयाकृष्टचित्तत्वाद्भगवत्कर्मपरतायामशक्तं प्रत्युपायान्तरमाह -- अथैतदपि कर्तुमशक्तोऽसि चेत्तर्हि मद्योगमाश्रितः मयि सर्वाणि कर्माणि संन्यस्य तेषामुनुष्ठानं मद्योगस्तमाश्रितः मदेकशरणत्वमाश्रितः सन् तदनन्तरं सर्वेषां कर्मणां फलसंन्यासं कुरु विवेकसंयतचित्तः सन्नित्यर्थः।
Sri Madhavacharya
।।12.11।।Sri Madhvacharya did not comment on this sloka. 
Sri Neelkanth
।।12.11।।मद्योगं श्रवणादौ निष्ठाम्। तर्हि पूर्वोक्तं श्रौतस्मार्तसर्वकर्मफलत्यागं कुर्वित्यर्थः। यतात्मवान् यतश्च नियमादिमांश्च आत्मवान् जितचित्तश्चेति यतात्मवान्।
Sri Ramanujacharya
।।12.11।।अथ मद्योगम् आश्रित्य एतद् अपि कर्तुं न शक्नोषि? मद्गुणानुसंधानकृतं मदेकप्रियत्वाकारं भक्तियोगम् आश्रित्य भक्तियोगाङ्गरूपम् एतद् मत्कर्म अपि कर्तुं न शक्नोषि ततः अक्षरयोगम् आत्मस्वभावानुसंधानरूपं परभक्तिजननं पूर्वषट्कोदितम् आश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु। मत्प्रियत्वेन मदेकप्राप्यताबुद्धिः हि प्रक्षीणाशेषपापस्य एव जायते यतात्मवान् यतमनस्कः। ततः अनभिसंहितफलेन मदाराधनरूपेण अनुष्ठितेन कर्मणा सिद्धेन आत्मज्ञानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् एव उत्पद्यते।तथा च वक्ष्यते -- स्वकर्मणा तमभ्यर्चय सिद्धिं विन्दति मानवः। (गीता 18।46) इत्यारभ्यविमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते।।ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।।समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।। (18।5354) इति।
Sri Sridhara Swami
।।12.11।। अत्यन्तं भगवद्धर्मपरिनिष्ठायामशक्तस्य पक्षान्तरमाह -- अथैतदपीति। अथैतदपि कर्तुमशक्तोऽसि तर्हि मद्योगं मदेकशरणत्वमाश्रितः सर्वेषां दृष्टादृष्टार्थानामावश्यकानां चाग्निहोत्रादिकर्मणां फलानि नियतचित्तो भूत्वा परित्यज। एतदुक्तं भवति। मया तावदीश्वराज्ञया यथाशक्ति कर्माणि कर्तव्यानि? फलं पुनर्दृष्टमदृष्टं वा परमेश्वराधीनमित्येवं मयि भारमारोप्य फलासक्तिं परित्यज्य वर्तमानो मत्प्रसादेन कृतार्थो भविष्यसीति तात्पर्यम्।
Sri Vedantadeshikacharya Venkatanatha
।।12.11।।स्वार्थेष्वेव कर्मसु निबद्धचित्तस्य कथं त्वदर्थेषु कर्मस्वत्यर्थप्रियत्वेन प्रवृत्तिः सम्भवेदित्यत्र तदुपायपरम्पराकाष्ठाभूतं कर्मयोगं प्रत्यभिज्ञापयतिअथैतदिति।मद्योगमाश्रितः इत्यस्याक्षरयोगविषयेणोत्तरार्धेन अन्वयव्युदासाय पूर्वार्धान्वयमाहअथ मद्योगमिति। तस्याशक्यत्वज्ञापनायाह -- मद्गुणेति। भक्तियोगावस्थाविशेषेष्वतः पूर्वावस्था नास्तीति व्यञ्जनायभक्तियोगाङ्कुररूपमित्युक्तम्।मद्योगम् इत्यनेन जीवात्मयोगव्यवच्छेदः। ततश्च मद्योगमाश्रित्य तदङ्कुरे कर्मण्यसमर्थश्चेज्जीवात्मयोगमाश्रित्य तदङ्कुरे कर्मयोगे प्रवर्तस्वेति वाक्यार्थः। तदेतदभिप्रेत्याहततोऽक्षरेति। अक्षरयोगस्याप्यव्यवधानेन मोक्षोपायत्वव्युदासायपरभक्तिजननमित्युक्तम्। सप्रकाराक्षरयोगप्रत्यभिज्ञापनार्थं? मध्यमषट्कोदिताक्षरयोगव्यवच्छेदार्थं चपूर्वषट्कोदितमित्युक्तम्। सर्वकर्मफलत्यागस्याव्यवधानेन भक्तियोगजनकत्वव्युदासायतदुपायतयेत्युक्तम्।कर्मयोगपूर्वकात्मसाक्षात्कारस्य भक्त्युत्पत्त्युपयोगित्वप्रकारं प्रकरणान्तरोक्तं दर्शयति -- मत्प्रियत्वेनेति।मय्येव मन आधत्स्व [12।8] इति पूर्वं परमात्मनि मनस्समाधानं विहितम् तदशक्तं प्रत्युपदिश्यमानाक्षरयोगांकुररूपे कर्मणि प्रवृत्तस्य तु पूर्वषट्कप्रपञ्चितैर्हेतुभिः मनोनियमनशक्यत्वंयतात्मवान् इत्युक्तमित्यभिप्रायेणयतमनस्क इत्युक्तम्। कर्मयोगस्यानन्तरश्लोकेऽभिधास्यमानक्रमेण परम्परया भक्तियोगजनकत्वप्रकारमाहततोऽनभिसंहितेति।फलत्यागं कुरु इति साध्यांशत्यागवचनेन तत्पूर्वकसाधनानुष्ठानं विवक्षितमिति ज्ञापनायअनभिसंहितफलेनेत्यादिकमुक्तम्। अनन्तराभिधास्यमानमनश्शान्तिद्वारात्मध्यानसिद्धिः। अविद्या संसारकारणं कर्म?अविद्या कर्मसंज्ञा इत्युपक्रम्ययया क्षेत्रज्ञशक्तिः सा वेष्टिता [वि.पु.6।7।61] इति वचनात्। आदिशब्देनअनात्मन्यात्मबुद्धिर्या त्वस्वे स्वमिति या मतिः। अविद्यातरुसम्भूतिबीजमेतद्द्विधा स्थितम् [वि.पु.6।7।11] इत्याद्युक्तसङ्ग्रहः। यद्वाऽत्र अविद्या देहात्मभ्रमादिः आदिशब्देन कर्मवासनादिसङ्ग्रहः। परभक्तिजनकत्वसिद्ध्यर्थमुक्तंमच्छेषतैकस्वरूप इति। यथा बाल्ये बालक्रीडाप्रसङ्गेन नरेन्द्रभवनान्निष्क्रान्तस्य मार्गाद्भ्रष्टस्य व्याधगृहीतस्य पक्कणे वर्तमानस्य राजकुमारस्याप्तोपदेशात्स्वात्मनस्तथात्वं मत्वा विमृशतः स्वात्मनि राजसाम्यमङ्गप्रत्यङ्गादिषु पश्यतस्तस्मिन् यथा पितृत्वप्रीतिर्निरतिशया जायते एवमस्यापि यथोपदेशं भगवच्छेषभूते स्वात्मनि तत्साम्याकारेण साक्षात्कृते भक्तिसिद्ध्यर्थं न किञ्चित्कर्तव्यमस्तीत्यभिप्रायेण -- मयि परा भक्तिः स्वयमेवोत्पद्यत इत्युक्तम्। एतेनाध्यायारम्भेये चाप्यक्षरमव्यक्तम् [12।1] इत्युक्ताक्षरयोगोऽप्यक्षरसाक्षात्कारद्वारा परभक्तिमुत्पाद्य परमात्मप्राप्तौ विश्राम्यतीति सिद्धम्। स एव ह्यत्रापि प्रथमषट्कोक्तोऽक्षरयोगः प्रस्पष्टमुच्यते।ननु यदशक्तं प्रति यदुपदिश्यते? तत्तत्तुल्यफलमशक्ताधिकारं साधनान्तरं दृष्टम् यथावगाहना शक्तस्य स्नानान्तराणि। उच्यते चान्यत्र क्रियायोगस्य साक्षान्मोक्षसाधनत्वंमोक्षकारणमव्यक्तमचिन्त्यमपरिग्रहम्। तमाराध्य जगन्नाथं क्रियायोगेन मुच्यते इति। तथात्रापि किं न स्यादिति शङ्कायां कर्मयोगस्य भक्तियोगसाधनत्वं अष्टादशाध्याये वक्ष्यमाणं दर्शयतितथाचेति। अन्यत्र चाप्ययं क्रमः स्फुटः -- तत्र चित्तं समावेष्टुं न शक्नोति भवान्यदि। तदभ्यासपरस्तस्मिन् कुरु योगं दिवानिशम्। तत्राप्यसामर्थ्यवतः क्रियायोगो महात्मनः। ब्रह्मणा यः समाख्यातस्तत्परः सततं भव। करोषि यानि कर्माणि देवदेवे जगत्पतौ। समर्पयस्व भद्रं ते ततः कर्म प्रहास्यसि। प्रधानं कारणं योगो विमुक्तेर्दितिजेश्वर। क्रियायोगश्च योगस्य परमं तस्य साधनम् इति।मद्भक्तिं लभते पराम् [18।54] इति वक्ष्यमाणफलस्य कर्मयोगहेतुकत्वं प्रकरणसिद्धमिति ज्ञापनायस्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः [18।46]इत्यारभ्येत्युक्तम्।
Sri Abhinavgupta
।।12.11।।अथेति।  यदि च भगवत्कर्म कर्तुं न शक्तोऽसि? (N न शक्नोषि) ? अज्ञत्वात्,शास्त्रोक्तक्रमावेदनात् तत् सर्वं मयि संन्यसेः (N संन्यस्येः) आत्मनिवेदनद्वारेणेत्याशयः।  अमुमेवाशयमाश्रित्य लघुप्रक्रियायां मयैवोक्तम् -- ऊनाधिकमविज्ञातं पौर्वापर्यविवर्जितम्।यच्चावधानरहितं बुद्धेर्विस्खलितं च यत्।।तत्सर्वं मम सर्वेश भक्तस्यार्तस्य दुर्मतेः।क्षन्तव्यं कृपया शम्भो यतस्त्वं करुणापरः।।अनेन स्तोत्रयोगेन तवात्मानं निवेदये (S निवेदयेत)।पुनर्निष्कारणमहं दुःखानां नैमि पात्रताम्।।इतिपारमेश्वरेषु हि सिद्धान्तशास्त्रेषु आत्मनिवेदने अयमेवाभिप्रायः।
Sri Jayatritha
।।12.11।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।12.11।।अथेति। अथ बहिर्विषयाकृष्टचेतस्त्वादेतन्मत्कर्मपरत्वमपि कर्तुं न शक्नोषि ततो मद्योगं मदेकशरणत्वमाश्रितः मयि सर्वकर्मसमर्पणं मद्योगस्तं वाश्रितः सन् यतात्मवान् यतः संयतसर्वेन्द्रियः आत्मवान् विवेकी च सन् सर्वकर्मफलत्यागं कुरु फलाभिसन्धिं त्यजेत्यर्थः।
Sri Purushottamji
।।12.11।।एतत्प्राप्त्यर्थमतिसुगमोपायमाह -- अथैतदिति। अथ चेत् एतदपि मदर्थकं कर्तुमशक्तोऽसि न समर्थोऽसि? स्वरूपाज्ञानात् तदा मद्योगं मम योगः संयोगो यस्मिन् यस्य वा तादृशं भक्तमाश्रितः सन् यतात्मवान् तदेकपरचित्तो भूत्वा सर्वकर्मफलत्यागं सन्ध्यावन्दनाग्निहोत्रादीनां स्वर्गादिरूपफलानां त्यागं कुरु? चिन्तनं त्यजेत्यर्थः। तत्फलानभिलाषे मदाज्ञया करणात् कर्मभिश्चित्तशुद्ध्या मद्भक्तोपदिष्टं ज्ञानं स्थिरीभविष्यति? तेन मत्कर्मसिद्धिर्भविष्यतीति भावः।
Sri Shankaracharya
।।12.11।। --,अथ पुनः एतदपि यत् उक्तं मत्कर्मपरमत्वम्? तत् कर्तुम् अशक्तः असि? मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं सः मद्योगः? तम् आश्रितः सन्? सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः सन् इत्यर्थः।।इदानीं सर्वकर्मफलत्यागं स्तौति --,
Sri Vallabhacharya
।।12.11।।अथैतदपि न कर्त्तुं त्वं शक्तोसि चेत्तर्हि मद्योगं मत्सम्बन्धसेव्यसेवकत्वरूपमाश्रितः सन् सर्वकर्मफलत्यागं कुरु। एतदुक्तं भवति -- ईश्वराज्ञया परमाचार्योपदिष्टशरणमार्गतः यथाशक्ति स्वधर्माचरणं फलादित्यागपूर्वकं सुखावहमिति मयि भारमारोप्य अन्यज्ञानयोगधर्मपरित्यागेन मदाश्रये कृतार्थतेति। विशेषस्त्वग्रे स्पष्टीकरिष्यते।
← PrevNext →