← Chapter 12

Chapter 12, Verse 16

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।।

anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ

Word meanings: anapekṣhaḥ—indifferent to worldly gain; śhuchiḥ—pure; dakṣhaḥ—skillful; udāsīnaḥ—without cares; gata-vyathaḥ—untroubled; sarva-ārambha—of all undertakings; parityāgī—renouncer; saḥ—who; mat-bhaktaḥ—my devotee; saḥ—he; me—to ne; priyaḥ—very dear

Shri Purohit Swami

He who expects nothing, is pure, watchful, indifferent, unruffled, and renounces all initiative—such a one is My beloved.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।12.16।।निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणमित्याह -- अनपेक्ष इति। आदिपदमपेक्षणीयसर्वसंग्रहार्थं? प्रतिपत्तव्येषु प्रतिपत्तुं कर्तव्येषु कर्तुं चेत्यर्थः। परैस्ताडितस्यापि गता व्यथा भयमस्येति व्युत्पत्तिमाश्रित्याह -- गतेति। नच क्षमीत्यनेन पौनरुक्त्यं प्रत्युत्पन्नायामपि व्यथायामपकर्तृष्वनपकर्तृत्वं क्षमित्वमित्यभ्युपगमात्।
Sri Dhanpati
।।12.16।।निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणमित्याशयेनाह। अनपेक्षः देहेन्द्रियविषयसंबन्धेषु सर्वेष्वपेक्षणीयेषु यदृच्छायोपलब्धेष्वपेक्षाशून्यो निस्पृहः। शुचिः मृदम्ब्वादिनिमित्तेन बाह्येन दयादिनाभ्यन्तरेण च शौचने संपन्नः पुण्यापुण्याभ्यामलिप्य इति वा। अस्मिन्पक्षे प्रकरणाविरोधः। पुण्यापुण्ये न करोत्यस्ताभ्यामलिप्त इत्यर्थे तु शूभाशुभपरित्यागीत्येन पौनरुक्त्यं बोध्यम्। दक्षः प्रत्युत्पन्नेषु कर्तव्येषु यथावज्ज्ञातु कर्तुं न कुशलो नत्वलसः। कस्यचिन्मित्रादेः पक्षपातं न भजत इत्युदासीनः। यत्तु मानापमानादौ समवृत्तिरुदासीन इति तन्न। तथा मानापमानयोरित्यादिना पौनरुक्त्यापत्तेः। ताडितुमुद्यतादपि व्यथानिमित्तं गतं भयं यस्मात्। नच क्षमीत्यनेन पौनरुक्त्यं परैस्ताडितस्य  प्रत्युत्पन्नायामापि पीडायां तन्निमित्तं ताडनकर्तृषु ताडनाद्यकर्तुत्वं क्षमित्वमित्यभ्युपगमात्। अतएवैहिकामुष्मकदुःखनिवृत्तितत्सुखप्राप्त्यर्थानि कर्माणि आरभ्यन्त इत्यारम्भास्तान् परियक्तुं शीलमस्य स सर्वारम्भपरित्यागी। यतो भयहेतुभूतसर्वारम्भपरित्यागी अतो गतव्यथ इति वा। यो मद्भक्तः स मे प्रियः।
Sri Madhavacharya
।।12.16।।सर्वारम्भपरित्यागी इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेनापुनरुक्तिः। हर्षादिभिर्मुक्त इत्युक्ते कादाचित्कमपि भवतीतियो न हृष्यति [12।17] इत्युक्तम्। उपचारपरिहारार्थं पूर्वम् आधिक्यज्ञानार्थं भक्त्यभ्यासः।ये तु सर्वाणि कर्माणि [12।6] इत्यादेः प्रपञ्च एषः।
Sri Neelkanth
।।12.16।।अस्यैव व्युत्थानावस्थामाह -- अनपेक्ष इति। सुखप्राप्तौ दुःखहाने वा तत्साधने वा लिप्साशून्योऽनपेक्षः। शुचिः बाह्याभ्यन्तरशौचवान् पुण्यापुण्याभ्यामलिप्तो वा। दक्षः भगवद्भजनादावनलसः। उदासीनो मानापमानादौ समवृत्तिः। अतएव गता व्यथा चेतःपीडा यस्य स गतव्यथः। सर्वारम्भपरित्यागी संन्यासित्वादेव। यो मद्भक्तः स मे प्रियः।
Sri Ramanujacharya
।।12.16।।अनपेक्षः -- आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि अनपेक्षः? शुचिः -- शास्त्रविहितद्रव्यवर्धितकायः? दक्षः -- शास्त्रीयक्रियोपादानसमर्थः अन्यत्र उदासीनः? गतव्यथः -- शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपरुषस्पर्शादिदुःखेषु व्यथारहितः? सर्वारम्भपरित्यागी -- शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी? य एवंभूतो मद्भक्तः स मे प्रियः।
Sri Sridhara Swami
।।12.16।।किंच -- अनपेक्ष इति। अनपेक्षो यदृच्छोपस्थितेऽप्यर्थे निस्पृहः? शुचिर्बाह्याभ्यन्तरशौचसंपन्नः? तक्षोऽनलसः? उदासीनः पक्षपातरहितः? गतव्यथ आधिशून्यः सर्वान्दृष्टादृष्टार्थानारम्भानुद्यमान्परित्यक्तुं शीलं यस्य स एवंभूतः सन् यो मद्भक्तः स मे प्रियः।
Sri Vedantadeshikacharya Venkatanatha
।।12.16।।आत्ममात्रापेक्षत्वेन शास्त्रीयमात्रजागरूकत्वं तद्व्यतिरिक्तेष्वत्यन्तनिरीहत्वं चाह -- अनपेक्षः इति श्लोकेन। प्रस्तुताधिकारविरोधव्युदासाय सामान्यं विशेषे नियमयतिआत्मव्यतिरिक्त इति। अन्येषु सङ्कोचकाभावात्कृत्स्न इत्युक्तम्। फलीभूतस्य शुचित्वस्य स्वरूपेण विधातुमशक्यत्वात्तद्धेतौ तात्पर्यमित्याह -- शास्त्रविहितेति। अन्यविषयसामर्थ्यस्यानुपयुक्तत्वात्तदुपयुक्तानुष्ठानसामर्थ्यं दक्षशब्देनाभिधीयत इत्याहशास्त्रीयेति। विरोधपरिहारायौदासीन्यं विहितव्यतिरिक्तविषयमित्याहअन्यत्रोदासीन इति। अविहिताप्रतिषिद्धेष्वित्यर्थः। अपक्षपातिन्वमिहौदासीन्यं वदन्तःसमः शत्रौ च [12।18] इत्यादिवक्ष्यमाणपौनरुक्त्यान्निरस्ताः। निषिद्ध्यमानव्यथाप्रसङ्गं दर्शयतिशास्त्रीयक्रियानिर्वृत्ताविति। विहितयोगारम्भादिव्यवच्छेदायाहशास्त्रीयव्यतिरिक्तेति। साभिसन्धिकपरित्यागस्यात्र विवक्षितत्वात् माध्यस्थ्यरूपौदासीन्याद्भेदः। यद्वा निष्प्रयत्नतारूपोदासीनत्वफलं सर्वकर्मारम्भपरित्यागः। कर्मात्र वाक्कायव्यापारः। स एवारभ्यमाणत्वादारम्भः। तस्योपादानं वा। एतदखिलमपि मद्भक्तिविशिष्टतयैव प्रियत्वकारणमिति मद्भक्तशब्देन विवक्षितमित्याहय एवम्भूतो मद्भक्त इति।
Sri Abhinavgupta
।।12.15 -- 12.20।।यस्मादित्यादि मे प्रिया इत्यन्तम्।  अनिकेतः -- इदमेव मया कर्तव्यम् इति यस्य नास्ति प्रतिज्ञा।  यथाप्राप्तहेवाकितया सुखदुःखादिकमुपभुञ्ज्ञानः परमेश्वरविषयसमावेशितहृदयः सुखेनैव प्राप्नोति परमकैवल्यम् इति।।।शिवम्।।
Sri Jayatritha
।।12.16।।पुनरुक्तिदोषमाशङ्क्य परिहरति -- सर्वेति।सर्वारम्भपरितयागीशुभाशुभपरित्यागी [12।17],इत्यादौ सामान्यविशेषभावेनसन्तुष्टः सततं योगी [12।14]सन्तुष्टो येन केनचित् [12।19] इत्यादौ व्याख्यानव्याख्येयभावेनहर्षामर्षभयोद्वेगैर्मुक्तः [12।15]यो न हृष्यति [12।17] इत्यत्र नोक्तं प्रकारद्वयं सम्भवतीत्यत आह -- हर्षादिभिरिति। निष्ठाप्रत्ययेनातीतत्वप्रतीत्या कालान्तरे हर्षादिकं भवतीत्याशङ्क्य क्रियाप्रबन्धे विहितेन लटा प्रतिपादयतीत्यर्थः। तर्हीदमेवास्तु? किं तेन इत्यत आह -- उपचारेति। सिद्धेऽर्थे वचनमुपचारं तात्पर्यद्योतनेन परिहरतीत्यर्थः।यो मद्भक्तः इति भक्तिः पुनःपुनरुच्यते? तत्प्रयोजनमाह -- आधिक्येति।अद्वेष्टा [12।13] इत्यादिनोक्तेषु सर्वधर्मेषु भक्तेरिति शेषः।अद्वेष्टा इत्यादेः सङ्गत्यदर्शनात्तामाह -- ये त्वेति। प्रपञ्चस्तदुपलक्षितस्याभिधानम्। अक्षरोपासकानधिकृत्यैतदुच्यते इत्यसत्। सन्निहितसम्बन्धे सति व्यवहितसम्बन्धप्रहणायोगात्योमद्भक्तः स मे प्रियः इत्यादिवचनाच्च।
Sri Madhusudan Saraswati
।।12.16।।अनपेक्ष इति। किंच निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेष्वपि निःस्पृहः? शुचिर्बाह्याभ्यन्तरशौचसंपन्नः? दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः? उदासीनो न कस्यचिन्मित्रादेः पक्षं भजते? यो गतव्यथः परैस्ताड्यमानस्यापि गता नोत्पन्ना व्यथा पीडा यस्य सः? उत्पन्नायामपि व्यथायामनपकर्तृत्वं क्षमित्वं? व्यथाकारणेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः। ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान्परित्युक्तं शीलं यस्य स सर्वारम्भपरित्यागी संन्यासी यो मद्भक्तः स मे प्रियः।
Sri Purushottamji
।।12.16।।किञ्च। अनपेक्षः सेवादौ स्वमनोऽतिरिक्तापेक्षारहितः समर्थ इति यावत्। शुचिः मत्स्मरणवान्? दक्षः भजनस्वरूपज्ञानवान्? उदासीनः लोकेषु? गतव्यथः मानसिकक्लेशरहितः? सर्वारम्भपरित्यागी दृष्टश्रुतफलककर्माऽनुद्यमानस्वभावः। एतादृशो मद्भक्तः मद्भजनकर्त्ता स मे प्रियः।
Sri Shankaracharya
।।12.16।। --,देहेन्द्रियविषयसंबन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः। शुचिः बाह्येन आभ्यन्तरेण च शौचेन संपन्नः। दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः। उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः? सः उदासीनः यतिः। गतव्यथः गतभयः। सर्वारम्भपरित्यागी आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः? तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः।।किञ्च --,
Sri Vallabhacharya
।।12.16।।अनपेक्ष इति। मत्सेवातिरिक्तं सालोक्यादिकमपि नापेक्षते। तथासालोक्यसार्ष्टिसारूप्यसामीप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः [3।29।13] इति भागवतवचनात्। शुचिराचारवान्आचारप्रभवो धर्मस्तेनैव च सुखी भवेत् इति वाक्यात्। तथा भगवत्सेवायां तत्तच्छृङ्गारयोजने दक्षः चतुरः। तत्प्रतिकूले गृहादावुदासीनः। तत्रापि गतव्यथःभार्यादीनां तथाऽन्येषामसतश्चाक्रमं सहेत् तथा कलत्रादिकं प्रतिकूलं दृष्ट्वा तदीयसर्वविषयारम्भपरित्यागी च। सेवायां हिउद्वेगः प्रतिबन्धो वा भोगो वा स्यात्तु बाधकः इति श्रीमदाचार्यैरप्युच्यते? अतः सर्वारम्भभोगोऽनुचितः घातकत्वात्। य एवम्भूतो भक्तः स मे प्रियः।
← PrevNext →