← Chapter 13

Chapter 13, Verse 11

मयि चानन्ययोगेन भक्ितरव्यभिचारिणी।विविक्तदेशसेवित्वमरतिर्जनसंसदि।।13.11।।

mayi chānanya-yogena bhaktir avyabhichāriṇī vivikta-deśha-sevitvam aratir jana-sansadi

Word meanings: mayi—toward me; cha—also; ananya-yogena—exclusively united; bhaktiḥ—devotion; avyabhichāriṇī—constant; vivikta—solitary; deśha—places; sevitvam—inclination for; aratiḥ—aversion; jana-sansadi—for mundane society;

Shri Purohit Swami

Unswerving devotion to Me, with concentration on Me and Me alone, a love for solitude, and indifference to social life;

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।13.11।।साधनान्तरमाह -- किञ्चेति। आत्मादीत्यादिशब्दोऽनात्मार्थस्तद्विषयं ज्ञानं विवेकस्तन्नित्यत्वं तत्रैव निष्ठावत्त्वं? विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थो भवति। तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वं तन्निमित्तं तत्त्वज्ञानमैक्यसाक्षात्कारः। तत्फलालोचनं किमर्थमित्याशङ्क्याह -- तत्त्वेति। प्रवृत्तिः स्यादित्यतस्तत्त्वज्ञानार्थदर्शनमर्थवदिति शेषः। ज्ञानस्यान्तरङ्गहेतुमुक्तमुपसंहरति -- एतदिति। किमिति तस्य विज्ञेयत्वमित्याशङ्क्याह -- परिहरणायेति। तत्र हेतुः -- संसारेति। तस्य प्रवृत्तिरुत्पत्तिस्तद्धेतुत्वान्मानित्वादि त्याज्यं ज्ञाते च त्याज्यत्वे तेन तस्य ज्ञेयतेत्यर्थः। इतिशब्दः साधनाधिकारसमाप्त्यर्थः।
Sri Dhanpati
।।13.11।।किंच मयि परमेश्वरेऽनन्ययोगेन नान्यो भगवतो वासुदेवात्परोऽस्त्यतः स एव नो गतिरित्येवं निश्चिताऽव्यभिचारिणी बुद्धिरनन्ययोगोऽपृथक्समाधिस्तेन भजनं भक्तिः केनापि कारणेन न व्यभिचरणशीलाऽव्यभिचारिणई। सा च ज्ञानान्तरङ्गसाधनत्वाज्ज्ञानम्।येषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मानुपयान्ति ते।वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम् इत्युक्तेः। विविक्तं स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च वर्जितं वननदीतटदेवालयादिदेशं सेव्रितं शीलमस्येति विविक्तदेशसेवी तस्य भावो विविक्तदेशसेवित्वम्। यतो विविक्तात्मभावनाचित्तप्रसादहेतुभूतेषु विविक्तदेशेषु सिध्यत्यतो विविक्तदेशसेवित्वं ज्ञानसाधनत्वाज्ज्ञानम्। तथाच श्रुतिःसमे शुौ शर्करवह्निवालुकाविवर्जिते शब्दजलाशयादिभिः। मनोकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् इति। जनानां प्राकृतानां विषयलम्पटानां अविनीतानां कालहोन्मिषितचित्तानां संसत्समवायस्तत्रारतिरप्रीतिर्नतु संस्कारवतां विनीतानां तत्त्वविदां संसदि। तस्याः ज्ञानोपकारकत्वात्। तथाचोक्तंसङ्गः सर्वात्मना हेयः स चेत्यक्तुं न शक्यते। स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भषजम् इति।
Sri Madhavacharya
।।13.11।।मयीति।
Sri Neelkanth
।।13.11।।मयीतिश्लोकः स्पष्टार्थः।
Sri Ramanujacharya
।।13.11। आत्मनि ज्ञानम् अध्यात्मज्ञानं तन्निष्ठत्वम्? तत्त्वज्ञानार्थदर्शनं तत्त्वज्ञानप्रयोजनं यत् तत्त्वं तन्निरतत्वम् इत्यर्थः। ज्ञायते अनेन आत्मा इति ज्ञानम् आत्मज्ञानसाधनम् इत्यर्थः। क्षेत्रसंबन्धिनः पुरुषस्य अमानित्वादिकम् उक्तं गुणवृन्दम् एव आत्मज्ञानोपयोगि? एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधि इति अज्ञानम्।अथएतद् यो वेत्ति (गीता 13।1) इति वेदितृत्वलक्षणेन उक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते -- 
Sri Sridhara Swami
।।13.11।।किंच -- मयि चेति। मयि परमेश्वरे अनन्ययोगेन सर्वात्मदृष्ट्या अव्यभिचारिणी एकान्तभक्तिः? विविक्तः शुद्धिचित्तप्रसादकरः तं देशं सेवितुं शीलं यस्य तस्य भावस्तत्त्वम्? प्राकृतानां जनानां संसदि सभायामरती रत्यभावः।
Sri Vedantadeshikacharya Venkatanatha
।।13.11।।मयि इत्यनेनान्यभक्त्युन्मूलनेनाव्यभिचारित्वोपयुक्ताकारविवक्षामाह -- मयि सर्वेश्वर इति।अनन्ययोगेन इति देवतान्तरादिपरित्यागः सङ्गृहीतः। तत एव चाव्यभिचारित्वं तन्मूलं स्थैर्यम्? अन्यथा पुनरुक्तेरित्यभिप्रायेणाहऐकान्त्ययोगेन स्थिरेति।अनन्ययोगेनापृथक्समाधिना इति शङ्करोक्तमेतेन प्रत्युक्तम्। न व्यभिचरितुं शीलमस्या इत्यव्यभिचारिणीति। समाधिविरोधपरिहाराद्यर्थंविविक्तेत्यादिअहेरिव गणाद्भीतः इत्यादिवत्। उक्तं च मोक्षधर्मेनैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। सत्यं धृति(शीले स्थिति)र्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः [म.भा.12।277।37] इति। जनोऽत्र सत्त्वोत्तरेतरः।
Sri Abhinavgupta
।।13.8 -- 13.12।।एवं क्षेत्रं व्याख्यातम्? क्षेत्रज्ञश्च।  इदानीं ज्ञानमुच्यते -- अमानित्वमित्यादि अन्यथा इत्यन्तम्।  अनन्ययोगेनेति -- परमात्मनो महेश्वारत् अन्यत् अपरं न किंचिदस्ति इत्यनन्यरूपो यो निश्चयः? स एव योगः तेन निश्चयेन मयि भक्तिः।  अत एव सा न कदाचित् व्यभिचरति? व्यभिचारहेतुत्वाभिमतानां (S??N  -- त्वाभिगतानाम्) कामनानामभावात्? तासामपि वा चित्तवृत्त्यन्तररूपाणां तदेकमयत्त्वात्।  एवं सर्वत्रानुसन्धेयम्।  एतद्विपरीतम् अज्ञानम् यथा मानित्वादीनि।
Sri Jayatritha
।।13.11।।मयीति।
Sri Madhusudan Saraswati
।।13.11।।मयीति। किंच मयि च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्वज्ञानपूर्विका प्रीतिः। अनन्ययोगेन नान्यो भगवतो वासुदेवात्परोऽस्त्यतः स एव नो गतिरित्येवं निश्चयेनाव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुमशक्या। सापि ज्ञानहेतुः प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावदित्युक्तेः। विविक्तः स्वभावतः संस्कारतो वा शुद्धोऽशुचिभिः सर्पव्याघ्रादिभिश्च रहितः सुरधुनीपुलिनादिश्चित्तप्रसादकरो देशस्तत्सेवनशीलनत्वं विविक्तदेशसेवित्वम्। तथाच श्रुतिःसमे शुचौ शर्करवह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः। मनोनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणे प्रयोजयेत् इति। जनानामात्मज्ञानविमुखानां विषयभोगलम्पटोपदेशकानां संसदि समवाये तत्त्वज्ञानप्रतिकूलायामरतिररमण्। साधूनां तु संसदि तत्त्वज्ञानानुकूलायां रतिरुचितैव। तथाचोक्तम्सङ्गः सर्वात्मना हेयः स चेत्त्युक्तं न शक्यते। स सद्भिः सह कर्तव्यः सन्तसङ्गो हि भेषजम् इति।
Sri Purushottamji
।।13.11।।च पुनः मयि अनन्ययोगेन लौकिकालौकिकेषु मच्छरणतया अव्यभिचारिणी अन्यत्र सद्बुद्धिराहित्येन भक्तिः? विविक्तदेशसेवित्वं भगवत्परिपन्थिरहिततद्देशसेवनशीलत्वम्? अरतिर्जनसंसदि जननादिक्लेशयुक्तलौकिकजीवसभायां अरतिः प्रतिष्ठाद्यनाकाङ्क्षा।
Sri Shankaracharya
।।13.11।। --,मयि च इश्वरे अनन्ययोगेन अपृथक्समाधिना न अन्यो भगवतो वासुदेवात् परः अस्ति? अतः स एव नः गतिः इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः? तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी। सा च ज्ञानम्। विविक्तदेशसेवित्वम्? विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः? तं सेवितुं शीलमस्य इति विविक्तदेशसेवी? तद्भावः विवक्तदेशसेवित्वम्। विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते। अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते। अरतिः अरमणं जनसंसदि? जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् न संस्कारवतां विनीतानां संसत् तस्याः ज्ञानोपकारकत्वात्। अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम्।।किञ्च --,
Sri Vallabhacharya
।।13.11।।मयि चेति। अनन्ययोगेन अव्यभिचारिणी निर्हेतुकी भक्तिर्मध्ये हृदयरूपोक्ता।
← PrevNext →