Chapter 15, Verse 11
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः।।15.11।।
yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ
Word meanings: yatantaḥ—striving; yoginaḥ—yogis; cha—too; enam—this (the soul); paśhyanti—see; ātmani—in the body; avasthitam—enshrined; yatantaḥ—strive; api—even though; akṛita-ātmānaḥ—those whose minds are not purified; na—not; enam—this; paśhyanti—cognize; achetasaḥ—unaware
Shri Purohit Swami
The saints, with great effort, find Him within themselves; however, the unintelligent, despite their efforts, cannot control their minds.
Classical Commentaries (संस्कृत भाष्य)
Sri Anandgiri
।।15.11।।ज्ञानचक्षुःशब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तं तत्किमिदानीं शास्त्रमात्रेण न्यायानुगृहीतेनात्मानं पश्यन्ति नेत्याह -- केचित्त्विति। प्रयत्नः श्रवणमननात्मकः शास्त्रादिप्रमाणैर्यतन्तोऽपीति संबन्धः। असंस्कृतात्मत्वं प्रकटयति -- तपसेति। दुश्चरितादविरतिफलं कथयति -- अशान्तेति। अशुद्धबुद्धीनामविवेकिनां सदपि श्रवणादि न फलवदिति मत्वाह -- प्रयत्नमिति।
Sri Dhanpati
।।15.11।।न्यायानुग्रहीतशास्त्रेऽनिशं श्रवणादिना यत्नं कुर्वतामपि केचित्पश्यन्ति केचिन्नेति तत्र को हेतुरित्यपेक्षायामाह। यतन्तः क्वचिद्यन्त्रं कुर्वन्तो योनिनश्च समाहितचित्ता एनं प्रकृतमात्मानमात्मनि स्वस्यां बुद्धावस्थितं पश्यन्त्ययमहमस्मीत्युपलभन्ते। यतन्तोऽपि शास्त्रादिप्रमाणैर्यत्नं कुर्वन्तोऽप्यकृतात्मानस्तपसेन्द्रियजयेन च दुश्चरितादनुपरता अशूद्धान्तःकरणा अचेतोऽविवेकिन एनमात्मानमुक्तविशेषणं न पश्यन्ति यत्नसाम्येप्यात्मदर्शने तददर्शने च चित्तशुद्धस्तदशुद्धेश्च हेतुत्वमिति भावः।
Sri Madhavacharya
।।15.11।।यतन्तो ज्ञानं प्राप्य। अकृतात्मानोऽशुद्धबुद्धयः।
Sri Neelkanth
।।15.11।।यतन्तो यत्नशीला योगिनश्च एनं आत्मनि बुद्धाववस्थितं विभुमुत्क्रान्त्यादिहीनमसङ्गं पश्यन्ति। यतन्तोऽपि अकृतात्मानः ये यज्ञादिभिरशोधितचित्ताः एनं न पश्यन्ति। यतः अचेतसोऽनिर्जितचित्ताः। पाषाणतुल्या इत्यर्थः।
Sri Ramanujacharya
।।15.11।।मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानाः तैः निर्मलान्तःकरणाः योगिनः योगाख्येन चक्षुषा आत्मनि शरीरे अवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेण अवस्थितम् एनं पश्यन्ति। यतमानाः अपि अकृतात्मानः मत्प्रपत्तिविरहिणः तत एव असंस्कृतमनसः तत एव अचेतसः आत्मावलोकनसमर्थ चेतोरहिताः न एनं पश्यन्ति।एवं रविचन्द्राग्नीनाम् इन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेन इन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशकं ज्ञानज्योतिः आत्मा मुक्तावस्थो जीवावस्थः च भगवद्विभूतिः इति उक्तम्तद्धाम परमं मम। (गीता 15।6)ममैवांशो जीवलोके जीवभूतः सनातनः।। (गीता 15।7) इति।इदानीम् अचित्परिणामविशेषभूतम् आदित्यादीनां ज्योतिष्मतां ज्योतिः अपि भगवद्विभूतिः इत्याह --
Sri Sridhara Swami
।।15.11।।दुर्ज्ञेयश्चायं यतो विवेकिष्वपि केचिदेव केचिन्न पश्यन्तीत्याह -- यतन्त इति। यतन्तः ध्यानादिभिः प्रयतमाना योगिनः केचिदेनमात्मानं आत्मनि देहेऽवस्थितं विविक्तं पश्यन्ति। शास्त्राभ्यासादिभिः प्रयत्नं कुर्वाणा अपि अकृतात्मानोऽविशुद्धचित्ताः अतएवाचेतसो मन्दमतय एनं न पश्यन्ति।
Sri Vedantadeshikacharya Venkatanatha
।।15.11।।उक्त एवार्थः सहेतुकमुपपाद्यते -- यतन्तः इति श्लोकेन।यतन्तो योगिनः इति पूर्वप्रपञ्चितमिह स्मारितमित्याह -- मत्प्रपत्तिपूर्वकमिति। आत्मशब्दोऽत्रार्थान्तरानन्वयात्प्रस्तुतशरीरविषयः। तथा सत्यदर्शनशङ्काहेतुश्चानूदितो भवतीत्यभिप्रायेणाह -- शरीरेऽवस्थितमपीति। यतमानानां कथमकृतात्मत्वं इत्यत्राह -- मत्प्रपत्तिविरहिण इति। अत्रासंस्कृतमनस्त्वं शरणवरणाभावः। विद्यमानस्यापि चेतसः प्रकृतोपयोगाभावादसत्कल्पत्वमचेतश्शब्देन विवक्षितमित्याह -- आत्मावलोकनसमर्थचेतोरहिता इति।
Sri Abhinavgupta
।।15.9 -- 15.11।।एवं सृष्टौ संहारे च एतैः साहित्यमस्योक्त्वा स्थितावपि स्थानासनमननादिरूपायां (N ममतादि) विषयग्रहणात्मिकायां ( omits स्थितावपि -- त्मिकायाम्) तत्सहितस्यैवास्य व्यापार इति निश्चीयते -- श्रोत्रमित्यादि अचेतस इत्यन्तम्। मनः इत्यनेनान्तःकरणमुपलक्ष्यते। अत एव शरीरस्थितियोगात्तिष्ठन्तम् शरीरान्तरग्रहणाय उत्क्रामन्तम् विषयान्वा भुञ्जानं मूढा न पश्यन्ति? अप्रबुद्धत्त्वात्। प्रबुद्धास्तु सर्वत्रैव,बोधरूपमेव अनुसंदधाना (S??N -- रूपमनुसंदधानाः) जानन्त्येव? इत्यलुप्तमसमाधयः? तेषां यत्नपरत्त्वात्। अकृतात्मनां तु यत्नोऽपि न फलाय? अपरिपक्वकषायत्त्वात्। न हि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदे अलम्। अत एव सामग्री एव सा अस्य न भवति। अन्यदेव किल,(S omits किल) मधुमाससंभृतजलधरपटलीप्रेरितमम्भः काचिदेव च सा भूः? यस्यां शिशिरविवशीकृतायां,(S??N शिशिरवशविवशी -- ) रविकरस्पर्शेनैव कान्तिः। एवम् अकृतात्मनां यत्नो न सकलाङ्गपरिपूर्णत्वमायाति (?N परिपूर्णः कर्तुमायाति)। अत एव प्राप्याप्युपायं पारमेश्वरदीक्षादि,( परमेश्वर) ये तथाविधक्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्तर्दृशः ( सन्दर्भीकृतान्तर्दृशः) ? तेषु उपाय एव साकल्यं न भजतीति मन्तव्यम्। यदुक्तम् (S??N तदुक्तम्) -- क्रोधादौ दृश्यमाने हि दीक्षितोऽपि न मुक्तिभाक्। इति।
Sri Jayatritha
।।15.11।।यतन्तो योगिनश्चेति कारणान्तरमुच्यत इति प्रतीतिनिराकरणार्थमाह -- यतन्त इति। आत्मा जीवश्चेत्सर्वदाऽकृत एव? शरीरं चेदसम्भव इत्यत आह -- अकृतेति। आत्मा बुद्धिः? अकृतत्वं चाशुद्धत्वम्। केशान् करोतीत्यादौ शोधनेऽपि करोतेः प्रयोगादिति भावः।
Sri Madhusudan Saraswati
।।15.11।।पश्यन्ति ज्ञानचक्षुष इत्येतद्विवृणोति -- यतन्त इति। आत्मनि स्वबुद्धाववस्थितं प्रतिफलितमेनमात्मानं यतन्तो ध्यानादिभिः प्रयतमाना योगिन एव पश्यन्ति। चोऽवधारणे। यतमाना अप्यकृतात्मानो यज्ञादिभिरशोधितान्तःकरणा अतएवाचेतसो विवेकशून्या नैनं पश्यन्तीति मूढा नानुपश्यन्तीत्येतद्विवरणम्।
Sri Purushottamji
।।15.11।।अथ चैनं भक्ता एव पश्यन्ति नान्य इत्याह -- यतन्त इति। योगिनश्च योगिनोऽपि यतन्तः ज्ञानार्थं यत्नं कुर्वन्तः एनमात्मन्यवस्थितं अधिष्ठितं पश्यन्ति तथाभोगं कुर्वन्तमित्यर्थः। अकृतात्मानः सत्सङ्गादिभक्तत्वरहिताः? ज्ञानाभावेन केवलयोगादिना यतन्तोऽप्येनं न पश्यन्ति? यतोऽचेतसः मन्दमतयः चैतन्यरहिता इत्यर्थः।
Sri Shankaracharya
।।15.11।। --,यतन्तः प्रयत्नं कुर्वन्तः योगिनश्च समाहितचित्ताः एनं प्रकृतम् आत्मानं पश्यन्ति अयम् अहम् अस्मि इति उपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम्। यतन्तोऽपि शास्त्रादिप्रमाणैः? अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रियजयेन च? दुश्चरितात् अनुपरताः? अशान्तदर्पाः? प्रयत्नं कुर्वन्तोऽपि न एनं पश्यन्ति अचेतसः अविवेकिनः।।यत् पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं ज्योतिः न अवभासयते? यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते? यस्य च पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाः -- घटाकाशादयः इव आकाशस्य -- अंशाः? तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुः चतुर्भिः श्लोकैः विभूतिसंक्षेपमाह भगवान् --,
Sri Vallabhacharya
।।15.11।।दुर्विज्ञेयश्चायं यतो विवेकिष्वपि केचित्पश्यन्ति केचिन्न पश्यन्तीत्याह -- यतन्त इति। योगिनश्चित्तवृत्तिनिरोधकाः पश्यन्ति? अन्ये तु यतन्तोऽप्यकृतचित्ता नैनं पश्यन्ति अतएवाचेतसो मन्दमतयः।