← Chapter 16

Chapter 16, Verse 5

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव।।16.5।।

daivī sampad vimokṣhāya nibandhāyāsurī matā mā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava

Word meanings: daivī—divine; sampat—qualities; vimokṣhāya—toward liberation; nibandhāya—to bondage; āsurī—demoniac qualities; matā—are considered; mā—do not; śhuchaḥ—grieve; sampadam—virtues; daivīm—saintly; abhijātaḥ—born; asi—you are; pāṇḍava—Arjun, the son of Pandu

Shri Purohit Swami

Godly qualities lead to liberation; godless ones lead to bondage. Do not be anxious, Prince! You have the Godly qualities.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।16.5।।कार्यं फलविभागः। आसुरीत्युपलक्षणं राक्षसी चेति द्रष्टव्यमित्याह -- तथेति। फलविभागे संपदोरेवमुक्ते प्रतीत्यार्जुनस्याभिप्रायं भगवतो वचनमित्याह -- तत्रेति। तत्राभिजात्यं हेतुं करोति -- पाण्डवेति।
Sri Dhanpati
।।16.5।।अनयोः संपदोः फलविभागमाह। दैवी संपत्संसारबन्धनात् विमोक्षायासुरीसंपन्निबन्धाय नियमेन बन्धाय मताभिप्रेता।,एवमुक्तं किमहं दैव्या संपदा युक्तः किंवासूर्या युक्त इत्यलोचनरुपमर्जुनस्यान्तर्गतभावमुपलक्ष्याह। मा शुचः शोकं मा कार्षीः। दैवीं संपदमभिलक्ष्य चातोऽसि भाविकल्याणस्त्वमित्यर्थः। पाण्डवेति संबोधयन्नासूर्या संपद्यन्तर्गतौ शोकमोहावतिशूरस्य दैव्या पंपदा युक्तस्य शोकादिविनिर्मुक्तस्य पाण्डोः पुत्रः दैवीं संपदमभिजातकस्त्वमङ्गीकर्तुमयोग्योऽसीति द्योतयति।
Sri Madhavacharya
।।16.5।।दैवीं सम्पदमभिजातः प्रतिजातः।
Sri Neelkanth
।।16.5।।अनयोः संपदोः कार्यमाह -- दैवीति। दैवी पूर्वोक्ता। अर्जुनस्य शङ्का किमहमासुर्यां संपदि जातोऽस्मीति तामपनुदति माशुच इति।
Sri Ramanujacharya
।।16.5।।दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धात् मुक्तये भवति क्रमेण मत्प्राप्तये भवति इत्यर्थः।आसुरी मदाज्ञातिवृत्तिरूपा संपद् निबन्धाय भवति? अधोगतिप्राप्तये भवति इत्यर्थः।एतत् श्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीताय अर्जुनाय एवम् आह -- शोकं मा कृथाः त्वं तु दैवीं संपदम् अभिजातः असि। हे पाण्डव धार्मिकाग्रेसरस्य हि पाण्डोः तनयः त्वम् इति अभिप्रायः।
Sri Sridhara Swami
।।16.5।। एतयोः संपदोः कार्यं दर्शयन्नाह --  दैवी संपदिति। दैवी या संपत्तया युक्तो मयोक्ते तत्त्वज्ञानेऽधिकारी? आसुर्या संपदा युक्तस्तु नित्यं संसारीत्यर्थः। एतच्छ्रुत्वा किमहमत्राधिकारी न वेति संदेहव्याकुलचित्तमर्जुनमाश्वासयति। हे पाण्डव? मा शुचः शोकं मा कार्षीः। यतस्त्वं दैवीं संपदमभिजातोऽसि।
Sri Vedantadeshikacharya Venkatanatha
।।16.5।।दैवासुरस्वभावयोः श्रद्धोद्वेगजननायऊर्ध्वं गच्छन्ति सत्त्वस्थाः [14।18] इत्यादिनोक्तमिह सङ्क्षिप्य स्मार्यते -- दैवी सम्पत् इत्यर्धेन। विमोक्षस्येष्टप्राप्तिपर्यन्ततां वक्तुमात्यन्तिकानिष्टनिवृत्तिरूपं शब्दस्य मुख्यार्थमाह -- बन्धान्मुक्तय इति। अव्यवहितहेतुत्वविवक्षायां समाधिपर्यन्तशास्त्रार्थवैयर्थ्यं स्यादित्यभिप्रायेणाऽऽहक्रमेणेति। आत्मसाक्षात्कारादिद्वारेति वा। निबन्धः नियतो बन्धः। तत्रअधो गच्छन्ति तामसाः [14।18] इत्येतत्स्मारयति -- अधोगतीति। अत्रमा शुचः इति वचनं न शास्त्रोपक्रमप्रकान्ताशोच्यविषयशोकप्रतिषेधार्थम्? तस्य बहुधा परिहृतत्वात्?सम्पदं दैवीमभिजातोऽसि इत्यनेन तत्परिहारासम्भवाच्च। अतोनिबन्धायासुरी मता इत्युक्ते शास्त्रीयमर्यादानतिलङ्घिन्यपि स्वात्मनिस्थिरो निगूढाहङ्कारः  [द.रू.2।5] इति प्रक्रियया धीरोदात्तनायकगुणभूतस्य निगूढस्वाहङ्कारत्वस्य,स्वात्मसाक्षिकत्वात्तावन्मात्रेणापि स्वस्मिन्नासुरत्वमतिशङ्कमानस्य श्रुतद्विविधसम्पत्कस्य बीभत्सोः स्वप्रकृत्यनिर्धारणात्पुनरपारसंसारसागरनिमज्जनभीत्या शोचतो देवप्रकृतित्वज्ञापनेन शोकमपनयतीत्याह -- एतच्छ्रुत्वेति। अत्राप्यस्थाने शोकं त्वमेवाहारयसीत्यभिप्रायेणाऽऽहशोकं मा कृथा इति। न हि देवप्रकृतीनां धर्मोत्तराणामासुराः पुत्राः सम्भवन्तीत्यभिप्रायेण पाण्डवशब्दसम्बुद्धिरित्याहधार्मिकाग्रेसरस्येति।
Sri Abhinavgupta
।।16.1 -- 16.5।।एतद्बुद्ध्वा इत्युक्तम्।  बोधश्च नाम श्रुतिमयज्ञानान्तरम् (S श्रुत -- ) इदमित्थम् इत्येवंभूतयुक्तिचिन्ताभावनामयज्ञानोदेयेन (S??N चिन्तामयज्ञानोदयेन) विचारविमर्शपरमर्शादिरूपेण विजातीयन्यक्कारविरहिततद्भावनामयस्वभ्यस्ताकारविज्ञानलाभे सति भवति।  यद्वक्ष्यते (S तद्वक्ष्यते N तद्वक्ष्यति) -- विमृश्यैतदशेषेण यथेच्छसी तथा कुरु (XVIII? 63)  इति।  तत्र श्रुतिमये ज्ञाने गुरुशास्त्रे एव प्राधान्येन प्रभवतः युक्तिचिन्ताभावनामये तु विमर्शक्षमता असाधारणा शिष्यगुणसंपत् (  -- रणशिष्य -- ) प्रधानभूता।  अतः अर्जुनस्यास्त्येवासौ इत्यभिप्रायेण वक्ष्यमाणं विमृश्यैतत् इति वाक्यं सविषयं कर्तुं परिकरबन्धयोजनाभिप्रायेण आह भगवान् गुरुः अभयम् इत्यादि।आसुरभागसन्नविष्टा तामसी किल अविद्या।  सा प्रवृद्धया दिव्यांशग्राहित्या विद्यया बाध्यते ( प्रवृद्धाया -- विद्याया बध्यते) इति वस्तुस्वभाव एषः।  त्वं च विद्यात्मानं दिव्यमंशं सात्त्विकमभिप्रपन्नः तस्मादान्तरीं मोहलक्षणामविद्यां विहाय बाह्याविद्यात्मशत्रुहननलक्षणं (S बाह्यविद्या) शास्त्रीयव्यापारम् अनुतिष्ठ इत्यध्यायारम्भः।तथाहि -- अभयमित्यादि पाण्डवेत्यन्तम्।  दिव्यांशस्य इमानि चिह्नानि तानि स्फुटमेवाभिलक्ष्यन्ते (S? स्फुटमेवोपलक्ष्यन्ते)।  दमः (S omits दमः) इन्द्रियजयः।  चापलं पूर्वापरमविमृश्य यत् करणम्? तदभावः अचापलम्।  तेजः आत्मनि उत्साहग्रहणेन मितत्वापाकरणम्।  दैवी संपदेषा।  सा च तव विमोक्षाय? कामनापरिहारात्।  अतस्त्वं शोकं मा प्रापः -- यथा भ्रात्रादीन् हत्वा सुखं कथमश्नुवीय इति।  शिष्टं स्पष्टम्।
Sri Jayatritha
।।16.5।।सम्पदं दैवीमभिजातोऽसि इत्यत्राभिजात उत्तमजन्मा। नायं धातुः सकर्मकः तत्कथं द्वितीया इत्याशङ्क्य अभिलक्ष्य जात इति केचित्(शं.)व्याचक्षते? तदसत्। अर्जुनस्य देवत्वेन देवत्वमुद्दिश्य जन्मायोगादित्याशयवानाह -- दैवीमिति। अनेनैतदाचष्टे -- नायमभिरुपसर्गः? येन तस्य जनिसम्बन्धे द्वितीयानुपपत्तिर्लक्षिसम्बन्धे चोक्तानुपपत्तिः स्यात् किन्तु प्रत्यर्थे लक्षणे कर्मप्रवचनीयः। तथा चकर्मप्रवचनीययुक्ते द्वितीया [अष्टा.2।3।8] उपपद्यते। तथावृक्षमभिवृक्षं प्रति विद्योतते इत्यत्र वृक्षो विद्योतनस्य लक्षणमित्यर्थः। एवं दैवीसम्पज्जातस्य तव लक्षणमित्यर्थः। सम्पद्यते तथा चार्जुनस्य प्राप्तदेवत्वविरोध इति। अत एव सम्पदं दैवीमभिजातस्यअभिजातस्य पार्थ सम्पदमासुरीम् [16।4] इत्येतद्विहायेदं व्याख्यातम्। अर्जुनस्य देवत्वप्रसिद्धेरेतत्साहचर्यात्तत्राऽप्येतदर्थत्वोपपत्तेः।
Sri Madhusudan Saraswati
।।16.5।।अनयोः संपदोः फलविभागोऽभिधीयते -- दैवीति। यस्य वर्णस्य यस्याश्रमस्य च या विहिता सात्त्विकी फलाभिसन्धिरहिता क्रिया सा तस्य दैवी संपत्। सा सत्त्वशुद्धिभगवद्भक्तिर्ज्ञानयोगस्थितिपर्यन्ता सती संसारबन्धनाद्विमोक्षाय कैवल्याय भवति अतः सैवोपादेया श्रेयोर्थिभिः। या तु यस्य शास्त्रनिषिद्धा फलाभिसन्धिपूर्वा साहंकारा च राजसी तामसी क्रिया तस्य सा सर्वाप्यासुरी संपत् अतो राक्षस्यपि तदन्तर्भूतैव। सा निबन्धाय नियताय संसारबन्धाय मता संमता शास्त्राणां तदनुसारिणां च।अतः सा हेयैव श्रेयोऽर्थिभिरित्यर्थः। तत्रैवंसत्यहं कया संपदा युक्त इति संदिहानमर्जुनमाश्वासयति भगवान् -- मा शुच इति। माशुचोऽहमासुर्या संपदा युक्त इति शङ्कया शोकमनुतापं माकार्षीः? दैवीं संपदमभिलक्ष्य जातोऽसि प्रागर्जितकल्याणो भाविकल्याणश्च त्वमसि हे पाण्डव? पण्डुपुत्रेष्वन्येष्वपि दैवी संपत्प्रसिद्धा किं पुनस्त्वयीति भावः।
Sri Purushottamji
।।16.5।।उभयोः सम्पदोः कार्यमाह -- दैवी सम्पदिति। दैवी सम्पत् विमोक्षाय विशेषेण मोक्षाय पुष्टिमर्यादाभेदेन मता? मत्सम्मतेत्यर्थः। आसुरी निबन्धाय नितरां बन्धाय पुनः संसारपर्यावर्तनेनान्ते अन्धंतमःप्रवेशाय मता? सम्मतेत्यर्थः। एतच्छ्रवणेन युद्धोपस्थितौ कौरवादिषु क्रोधोत्पत्त्या शोचन्तमर्जुनमाश्वासयति -- मा शुच इति। हे पाण्डव क्षत्रियात्मजत्वेन शोकानर्ह दैवीं सम्पदमभिजातोऽसि मदिच्छयाऽतो मा शुचः शोचं मा कार्षीः।
Sri Shankaracharya
।।16.5।। --,दैवी संपत् या? सा विमोक्षाय संसारबन्धनात्। निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी संपत् मता अभिप्रेता। तथा,राक्षसी च। तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावम् किम् अहम् आसुरसंपद्युक्तः किं वा दैवसंपद्युक्तः इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् -- मा शुचः शोकं मा कार्षीः। संपदं दैवीम् अभिजातः असि अभिलक्ष्य जातोऽसि? भाविकल्याणः त्वम् असि इत्यर्थः? हे पाण्डव।।
Sri Vallabhacharya
।।16.5।।उभयोः कार्यं दर्शयन्नाह -- दैवी सम्पदिति। विमोक्षाय विशेषतो मोक्षाय पुष्टिर्मयादाभेदेन निबन्धायासुरीति नितरां बन्धायाज्ञदुर्ज्ञत्वभेदेनेत्यर्थः। एतन्निशम्य स्वस्वभावानिर्द्धारादतिभीतमर्जुनं समाश्वासयति -- मा शुच इति। त्वं तु दैवीं सम्पदमभिजातोऽसि? पाण्डुर्हि देवस्वभावो देवांशत्वाद्धार्मिकत्वाच्च न तथा धृतराष्ट्र इत्यतः कार्यस्य हेतुसाम्यौचित्यात्पाण्डवेति सन्बोधयति।
← PrevNext →