Bhagavad Gita · Chapter 17 · Verse 26
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते।।17.26।।
sad-bhāve sādhu-bhāve cha sad ity etat prayujyate
praśhaste karmaṇi tathā sach-chhabdaḥ pārtha yujyate
साधक संजीवनी — स्वामी रामसुखदास
।।17.26।। व्याख्या -- सद्भावे -- परमत्मा हैं इस प्रकार परमात्माकी सत्ता(होनेपन) का नाम सद्भाव है। उस परमात्माके सगुणनिर्गुण? साकारनिराकार आदि जितने रूप हैं और सगुणसाकारमें भी उसके विष्णु? राम? कृष्ण? शिव? शक्ति? गणेश? सूर्य आदि जितने अवतार हैं? वे सबकेसब सद्भाव के अन्तर्गत हैं। इस प्रकार जिसका किसी देश? काल? वस्तु आदिमें कभी अभाव नहीं होता? ऐसे परमात्माके जो अनेक रूप हैं? अनेक नाम हैं? अनेक तरहकी लीलाएँ हैं? वे सबकेसब सद्भाव के अन्तर्गत हैं।साधुभावे -- परमात्मप्राप्तिके लिये अलगअलग सम्प्रदायोंमें अलगअलग जितने साधन बताये गये हैं? उनमें हृदयके जो दया? क्षमा आदि श्रेष्ठ? उत्तम भाव हैं? वे सबकेसब साधुभाव के अन्तर्गत हैं।सदित्येतत्प्रयुज्यते -- सत्तामें और श्रेष्ठतामें सत् शब्दका प्रयोग किया जाता है अर्थात् जो सदा है? जिसमें,कभी किञ्चिन्मात्र भी कमी और अभाव नहीं होता -- ऐसे परमात्माके लिये और उस परमात्माकी प्राप्तिके लिये दैवीसम्पत्तिके जो सत्य? क्षमा? उदारता? त्याग आदि श्रेष्ठ गुण हैं? उनके लिये सत् शब्दका प्रयोग किया जाता है जैसे -- सत्तत्त्व? सद्गुण? सद्भाव आदि।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते -- परमात्मप्राप्तिके लिये अलगअलग सम्प्रदायोंमें अलगअलग जितने साधन बताये गये हैं? उनमें क्रियारूपसे जितने श्रेष्ठ आचरण हैं? वे सबकेसब प्रशस्ते कर्मणि के अन्तर्गत हैं। इसी प्रकार शास्त्रविधिके अनुसार यज्ञोपवीत? विवाह आदि संस्कार अन्नदान? भूमिदान? गोदान आदि दान और कुआँबावड़ी खुदवाना? धर्मशाला बनवाना? मन्दिर बनवाना? बगीचा लगवाना आदि श्रेष्ठ कर्म भी प्रशस्ते कर्मणि के अन्तर्गत आते हैं। इन सब श्रेष्ठ आचरणोंमें? श्रेष्ठ कर्मोंमें सत् शब्दका प्रयोग किया जाता है जैसे -- सदाचार? सत्कर्म? सत्सेवा? सद्व्यवहार आदि।
Sri Anandgiri
।।17.26।।वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह -- तच्छब्दयोरिति।
Sri Dhanpati
।।17.26।।तृतीयनाम्नो विनियोगमाह द्वाभ्यां -- सदिति। सतः सद्भावे यथाऽविद्यमानस्य पुत्रस्य जन्म तथा साधुभावेऽसदृत्तस्यासाधोः सदृत्तिता साधुमावस्तस्मिन्साधुभावे च सदित्येतत् ब्रह्मणोऽभिधानं प्रयुज्यतेऽभिधीयते। तथा प्रश्ते कर्मणि विवाहादौ च स सच्छब्दः प्रयुज्यते? पृथापुत्रे पार्थशब्दो यथेति सचयन्नाह -- पार्थेति।
Sri Madhavacharya
।।17.26।।सद्भावशब्देन प्रजननं सूचितम्। मित्युक्त्वाऽनभिसन्धाय फलं यज्ञदानतपआदिकृतामतिप्रीतेर्नामसाम्याद्ब्रह्मैव निष्पादितं भवतीत्याशयः।
Sri Neelkanth
।।17.26।।तच्छब्दयोर्विनियोगमुक्त्वा सच्छब्दस्य विनियोगमाह द्वाभ्याम् -- सद्भावे इति। सद्भावे अस्तित्वे साधुभावे समीचीनत्वे सच्छब्दः सदिदं कर्मेति प्रशस्ते कर्मणि सत्सत्त्वं वेदोक्तत्वादस्त्येवेति सच्छब्दः प्रयुज्यते आस्तिकैः।
Sri Ramanujacharya
।।17.26।।सद्भावे विद्यमानतायां साधुभावे कल्याणभावे च सर्ववस्तुषु सद् इति एतत् पदं प्रयुज्यते लोकवेदयोः। तथा केनचित् पुरुषेण अनुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्म इदम् इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः।
Sri Sridhara Swami
।।17.26।।सच्छब्दस्य प्राशस्त्यमाह -- सद्भाव इति द्वाभ्याम्। सद्भावे अस्तित्वे देवदत्तस्य पुत्रादिकमस्तीत्यस्मिन्नर्थे? साधुभावे च साधुत्वे देवदत्तस्य पुत्रादिश्रेष्ठमित्यस्मिन्नर्थे सदित्येतत्पदं प्रयुज्यते। प्रशस्ते माङ्गलिके विवाहादिकर्मणि च सदिदं कर्मेति सच्छब्दो युज्यते प्रयुज्यते संगच्छत इति वा।
Sri Vedantadeshikacharya Venkatanatha
।।17.26।।त्रयाणां त्रिभिरन्वये प्रतिपिपादयिषितेसद्भावे साधुभावे च इत्यप्रस्तुतोपन्यासः किमर्थः इत्यत्राऽऽह -- अथैषामिति। यथा प्रयोगबलाद्विद्यमानत्वादिषु सच्छब्दप्रवृत्तिरङ्गीक्रियते? एवं प्रस्तुतेऽपीत्यभिप्रायेणानेकार्थोदाहरणंविद्यमानतायामिति असद्विलक्षणत्वरूपसत्त्वविषयो वा? वर्तमानत्वविषयो वा सद्भावशब्द इति भावः। साधुकारी साधुर्भवति [बृ.उ.4।4।5] इत्यादिष्विवात्रापि साधुशब्दः पुण्यादिरूपत्वपर इत्याहकल्याणभाव इति तच्छब्दान्वयेमोक्षकाङ्क्षिभिः इति विशेषणात्। इह तुप्रशस्ते कर्मणि इति प्रशस्ततामात्रनिमित्तवचनान्मोक्षेतरपुरुषार्थसाधनलक्षणतया सच्छब्दोऽत्र व्युत्पाद्यत इति भावः। अत्यन्तविजातीयेष्वप्युक्तोपाधिद्वययोगे सच्छब्दोऽनुवृत्त इत्यभिप्रायेणाऽऽह -- सर्ववस्तुष्विति।प्रयुज्यते इत्यविशेषनिर्देशात् प्रयोगस्य सार्वत्रिकत्वेन दार्ढ्यं सूच्यत इत्याहलोकवेदयोरिति।तथा इति प्रस्तुतासन्ने लौकिकोदाहरणार्थम् अन्यथा पुनरुक्तिप्रसङ्गात्? इत्यभिप्रायेणाऽऽहलौकिक इति।साधुभावे इति निर्दिष्टमेव निमित्तं प्रकृतासन्नोदाहरणान्तरे प्रशस्तशब्देनावतार्यत इत्यभिप्रायेणाऽऽह -- कल्याण इति। धातुलीनार्थव्यञ्जनमात्रमुपसर्गेण क्रियते। अतोऽत्र श्लोकेयुज्यतेप्रयुज्यते इतिपदद्वयमेकार्थमित्याहप्रयुज्यत इत्यर्थ इति।
Sri Abhinavgupta
।।17.23 -- 17.27।।इदानीं ये गुणत्रितयसंकटोत्तीर्णधियः ते क्रियां कथमाचरन्ति इति तादृक़्प्रकार उच्यते -- ओमित्यादि अभिधीयते इत्यन्तम्। ओं तत् सत् इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः? संमुखीकरणम्। तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते।तत् इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहित्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात्।सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते। क्रियमाणमपि इदं यज्ञादिकं दुष्टम् इति बुद्ध्या क्रियमाणं तामसतामेति। विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्? बन्धाधायकमेवेति। तस्मात् कर्तव्यमिदम् इति मन्वानाः [ फलविशेषमनभिसंदधानाः ] यज्ञादि कुर्वाणा अपि न बध्यन्ते। अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः।।( M? Adi? Ch? 1? verse 210 ) इति।कल्कः? बन्धकः। स्वाभाविक इति -- ब्राह्मणेन निष्कारणं षडङ्गं ( omits षडङ्गम् ) वेदादि अध्येतव्यम् इति। प्रसह्य? शास्त्रलोकप्रसिद्धोचितया चेष्टया। भावेन? सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव,( ?N?K उपहतान्येव ) बन्धकानि? नान्यथा इति तात्पर्यम्। अतो यज्ञादि यावच्छरीरभावितया कार्यमेव। तदर्थे [ च ] हितं ( N?K विहितम् ) कर्म अर्जनादि।यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम् तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य -- स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम्? पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते। तथाचोक्तम्,सद्भावे साधुभावे च इति। तेन परमं प्रशान्तं ( S परमप्रशान्तरूपं ) रूपं पुरस्कृत्य दित्सायियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्णं यच्चरमं वपुः इदमुल्लसितम्? एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व ( N omits क्व ) केन फलं स्यादिति।
Sri Jayatritha
।।17.26।।सद्भावे सत्तायां इति प्रतीतिनिरासार्थमाह -- सद्भावेति। प्रजननं प्रागसतः सत्तापादनम्। यद्यपि सद्भावशब्दः सत्तामात्रवाची तथाप्यत्र ब्रह्मणो जगज्जनकत्वस्य विवक्षितत्वात्सत्ताविशेषप्रजननपर इति ज्ञायत इति प्रतिपादयितुं सूचितमित्युक्तम्। नन्वनेन यज्ञादीनां केतिकर्तव्यता प्रतिपादिता भवता इत्यत आह -- ओमिति। उक्तोङ्कारार्थज्ञानपूर्वकं अनभिसन्धाय फलं ब्रह्माभिसन्धाय च ब्रह्मज्ञानभक्तिपूर्वकं तद्विषयत्वेन निष्ठया वेदोक्तप्रकारेण ब्राह्मणैः सहेत्यपि ग्राह्यम्। आदिपदेन जपादिग्रहणम्। षष्ठी तृतीयार्थे? नामसाम्यात्। नामसाम्येनावगतात्तत्प्रतिमात्वात्। घटादीनामपि ब्रह्मप्रतिमात्वसाम्यात्को विशेषो यज्ञादेः इत्यत उक्तमतिप्रीतेरिति। ब्रह्मणः यज्ञादिषु निष्पादितं प्रतिष्ठापितम्। अत एवं क्रियमाणे यज्ञादिकं,सात्त्विकमन्यद्राजसं तामसं वेत्येवमितिकर्तव्यता प्रतिपादितेति वाक्यशेषः। अत्र हिओं तत्सत् [17।23] इत्यनेन ब्रह्मणो यन्नामत्रयं तद्यज्ञादेरपि वाचकमिति प्रतिपादितम्। तेन यज्ञादेर्ब्रह्मप्रतिमात्वं सूचितम्।ब्राह्मणाः इत्यादिनोङ्कारं ब्रह्मणि यज्ञादौ च व्युत्पाद्य तदुच्चारणाचार उक्तः। तेनार्थस्मरणपूर्वकमोङ्कारमुच्चार्य वेदोक्तप्रकारेण ब्राह्मणैः सह यज्ञादिकं कार्यमिति सूचितम्।तत् इत्यनेन तच्छब्दो यज्ञादौ ब्रह्मणि च व्युत्पादितः। तेन फलमनभिसन्धाय ब्रह्माभिसन्धाय चेति लब्धम्।सद्भावः इत्यनेन सच्छब्दो ब्रह्मणि व्याख्यातः। तेन ब्रह्मज्ञानपूर्वकमिति लभ्यते।
Sri Madhusudan Saraswati
।।17.26।।तृतीयं सच्छब्दं व्याचष्टे द्वाभ्यां -- सद्भाव इति।सदेव सोम्येदमग्र आसीत् इत्यादि श्रुतिप्रसिद्धं सदित्येतद्ब्रह्मणो नाम सद्भावेऽविद्यमानत्वशङ्कायां विद्यमानत्वे साधुभावे चासधुत्वशङ्कायां साधुत्वे च प्रयुज्यते शिष्टैः। तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्फस्य च विद्यमानत्वं कर्तुं क्षममेतदित्यर्थः। तथा सद्भावसाधुभावयोरिव प्रशस्तेऽप्रतिबन्धेनाशुसुखजनके माङ्गलिके कर्मणि विवाहादौ सच्छब्दो हे पार्थ?,युज्यते प्रयुज्यते तस्मादप्रतिबन्धेनाशु फलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतन्नामेति,प्रशस्ततरमेतदित्यर्थः।
Sri Purushottamji
।।17.26।।लौकिकसत्सु सदिति नाम तत्सम्पादकं भवतीत्याह -- सद्भाव इति। सद्भावे आस्तिक्यभावे साधुभावे उत्तमत्वभावे चसत् इत्येतन्नाम प्रयुज्यते तथा प्रशस्ते कर्मणि भगवदर्थके कर्मणि हे पार्थसत् इतिशब्दो युज्यते युक्तो भवतीति भावः।
Sri Shankaracharya
।।17.26।। --,सद्भावे? असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि? तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता साधुभावः तस्मिन् साधुभावे च सत् इत्येतत् अभिधानं ब्रह्मणः प्रयुज्यते अभिधीयते। प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ? युज्यते प्रयुज्यते इत्येतत्।।
Sri Vallabhacharya
।।17.26।।सदित्यस्यान्वयप्रकारं लोके शब्दव्युत्पत्तिसिद्ध्या दर्शयति -- सद्भाव इति। अस्तीति सत् तस्मिन्भावे। अत्र भावो नाम वस्तु अन्यथा तत्रान्वस्थितिः स्यात् तेनसद्भावः इत्यत्र सत्पदेनाविर्भूतं भावो वस्त्वित्यभिधीयते। साधुभावे साधुत्वे च सदिति प्रयुज्यते। प्रशस्ते कर्मणि च सतो व्यापकस्य ब्रह्मणः,सर्वत्वश्रवणादेव तथा तथा प्रयोगः सर्वत्रोपपद्यते।