Chapter 17, Verse 9
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः।।17.9।।
kaṭv-amla-lavaṇāty-uṣhṇa- tīkṣhṇa-rūkṣha-vidāhinaḥ āhārā rājasasyeṣhṭā duḥkha-śhokāmaya-pradāḥ
Word meanings: kaṭu—bitter; amla—sour; lavaṇa—salty; ati-uṣhṇa—very hot; tīkṣhṇa—pungent; rūkṣha—dry; vidāhinaḥ—chiliful; āhārāḥ—food; rājasasya—to persons in the mode of passion; iṣhṭāḥ—dear; duḥkha—pain; śhoka—grief; āmaya—disease; pradāḥ—produce
Shri Purohit Swami
Those in whom passion is dominant like foods that are bitter, sour, salty, overly hot, pungent, dry, and burning. These produce unhappiness, repentance, and disease.
Classical Commentaries (संस्कृत भाष्य)
Sri Anandgiri
।।17.9।।राजसप्रीतिविषयमाहारविशेषं दर्शयति -- कट्विति। कटुस्तिक्तः कटुकस्य तीक्ष्णशब्देनोक्तत्वात्? रूक्षो विस्नेहः? विदाही संतापकः। अतिशब्दस्य सर्वत्र योजनमेवाभिनयति -- अतिकटुरिति। दुःखं तात्कालिकी पीडा? इष्टवियोगजं दुःखं शोकः? आमयो रोगः।
Sri Dhanpati
।।17.9।।राजसप्रियाहारानुदाहरति -- कट्विति। अतिशब्दः कट्वादिषु सर्वेषु संबन्धनीयः। अतिकतुर्निम्बादिः? अत्यम्लं जम्बीरादि? अतिलवणं बहुक्षप्तिसैन्धवादि? अत्युष्णं मुखादिदाहकं? अतितीक्ष्णं मरीचादि? अतिरुक्षः स्नेहलेशेनापि? अत्यम्लं जम्बीरादि? अतिलवणं बहुक्षिप्तसैन्यवादि? अत्युष्णं मुखादिदाहकं? अतितीक्ष्णं मरीचादि? अतिरुक्षः स्नेहलेशेनापि रहितः कङ्गुकोद्रवादिः? अतिविदाही संतापकः सर्षपादिः? एवंविधा अतिकट्वादयो दुःखं तात्कालिकी पीडा? पश्चादुत्पन्नरोगे तज्जन्यं दौर्म नस्यं शोकः आमयो रोगः तान्प्रयच्छन्तीति दुःखशोकामयप्रदाः आहारा राजसप्रिया राजसस्येष्टा एतादृशाहारप्रतिमन्तो राजसा ज्ञातव्याः श्रेयोर्थिभिश्चैवंविधा आहाराः परिहरणीया इत्यर्थः।
Sri Madhavacharya
।।17.9।।Sri Madhvacharya did not comment on this sloka.,
Sri Neelkanth
।।17.9।।कट्विति। अतिशब्दः सर्वत्र संबध्यते। अतिकटु निम्बादि? अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः? अतितीक्ष्णो मरीचादि? अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः? अतिविदाही राजिकादिः? दुःखं तात्कालिकी पीडा? शोकः पश्चाद्भाविदौर्मनस्यम्? आमयो धातुवैषम्यापादनेन रोगस्तत्प्रदाः।
Sri Ramanujacharya
।।17.9।।कटुरसाः अम्लरसाः लवणोत्कटाः अत्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनः च इति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगाः तीक्ष्णाः? शोषकराः रूक्षाः? तापकरा विदाहिनः? एवंविधाः आहारा राजसस्य इष्टाः। ते च रजोमयत्वाद् दुःखशोकामयत्वाद् दुःखशोकामयवर्धनाः रजोवर्धनाः च।
Sri Sridhara Swami
।।17.9।।तथा -- कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि संबध्यते। अतिकटुर्निम्बादिः। अत्यम्लोऽतिलवणोऽत्युष्णश्च प्रसिद्धः? अतितीक्ष्णो मरीचादिः? अतिरूक्षः कङ्गुकोद्रवादिः? अतिविदाही सर्षपादिः? अतिकट्वादय आहारा राजसस्येष्टाः प्रियाः। दुःखं तात्कालिकं हृदयसंतापादि? शोकः पश्चाद्भाविदौर्मनस्यं? आमयो रोगः? एतान् प्रददति प्रयच्छन्तीति तथा।
Sri Vedantadeshikacharya Venkatanatha
ा [17.9] रसान्तराणामसात्त्विकत्वेन वक्ष्यमाणत्वात्तत्प्रयोगप्राचुर्यानुसाराच्च अत्र रसशब्दो रसविशेषविषय इत्याह -- मधुररसोपेता इति। अनेन प्रत्ययस्यात्र सम्बन्धमात्रोपलक्षकतापि दर्शिता। रस्यन्त इति वा रस्याः। तत्रमधुररसोपेता इति कारणोक्तिः। माधुर्यं हि रसान्तरेभ्यः शरीरस्थितौ विशेषेण हेतुर्भवति। यथोक्तं वाग्भटेन -- रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः। षड्द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः [अ.हृ.सू.1।1415] इति। भोजनं च स्वस्थस्य मधुररसप्रायतया नियम्यते -- षड्रसान्मधुरप्रायान्नातिद्रुतविलम्बितम् [अ.हृ.सू.7।36] इति। सायनादि कालेषु च मधुर एवै को विधीयते। एवं स्नेहयुक्तआहारोऽपि रौक्ष्यविरोधी रूक्षेण वायुना शरीरस्यापि विशरारुतां वारयतीत्यप्यायुर्वेदावसितम्। अद्यमान आहारे स्वरूपस्थैर्यस्यासम्भवादगुणत्वाच्च शरीराख्यसङ्घातस्थैर्यहेतुभूतरसरुधिर मांसमेदोस्थिमज्जाशुक्राख्यधातुसप्तकरूपपरिणामस्य बलादेश्च स्वसाध्यस्य चिरकालस्थायित्वलक्षणं स्थैर्यं विवक्षितमित्याह -- स्थिरपरिणामा इति। उपयोगात्पूर्वमेव जुगुप्सनीयसन्निवेशरूपविशेषादिविरहात्सन्दर्शनमात्रेणापि प्रीतिजनकत्वमिह हृद्यत्वमित्याहरमणीयविशेषा इति। येषु धर्मशास्त्रायुर्वेदयोरुभयोरपि साङ्गत्यं? तेषां सर्वेषामिदमुपलक्षणमित्यभिप्रायेणाऽऽहएवंविधा इति। एतेन प्रागुक्तयुक्ताहारत्वं च विवृतम्।,।।17.9।।कट्वम्लशब्दयोस्त्रिकटुकतिन्तिण्यादिषु विशेषतः प्रयोगादिह तावन्मात्रविवक्षाव्युदासायाऽह -- कटुरसा अम्लरसा इति। सात्त्विकस्यापि व्रतादिव्यतिरिक्तकालेषु रुचिमात्रार्थलवणयोगानुमतेः स्वरूपतो लवणस्याहारत्वासम्भवात्प्रत्यक्षलवणस्य गोमांसतुल्यतया स्फुटनिषेधाच्चात्र तद्व्यतिरिक्तापेक्षया लवणशब्द इत्यभिप्रायेणाऽऽह -- लवणोत्कटा इति।स्निग्धमुष्णं (सात्म्यमल्पं) च भोजनम् [अ.हृ.सू.7।47] इति कोष्णस्य भोजनस्य विहितत्वात्अत्युष्णेति विशेषितम्।कट्वादीनां विदाहिनः इति भ्रमव्युदासायात्र समासोक्तिः। तीक्ष्णस्यापि मरीच्यादेस्तत्तद्द्रव्यरोचनार्थं मात्रयाऽनुमतेस्तत्राप्युपसर्गस्यान्वयो दर्शितः। उष्णस्य पृथगुपात्तत्वादत्र तीक्ष्णशब्दो न तत्पर्यायः आशुकारिषु मरीच्यादिष्वायुर्वेदे तीक्ष्णत्वमुच्यते अतोऽत्र प्रयोगक्षणप्रभृति प्रतिकूलतमानि द्रव्याणि तीक्ष्णानीत्यभिप्रायेणोदाहरति -- अतिशैत्येति। स्नेहप्रतिपक्षभूतो गुणो रौक्ष्यमनुशिष्यत इत्यभिप्रायेणाऽऽह -- शोषकरा रूक्षा इति। वातकोपनत्वमनेन सिद्धम्। अत्र विदाहिशब्दे प्रकृतिप्रत्यययोर्विवक्षितं व्यनक्ति -- तापकरा इति। पित्तकोपना इत्यर्थः।एवंविधा इति पूर्ववत्।तृष्णाशोकसमुद्भवम् [14।7] इत्यादि प्रागुक्तं स्मारयति -- रजोमयत्वादिति। कटुप्रभृतीनां दुःखादिहेतुत्वं च प्रायशोऽन्वयव्यतिरेकयोग्यमायुर्वेदविशोधितं च। दुःखप्रदत्वं धातुवैषम्यादिद्वारा शोकप्रदत्वं तत्परामर्शजपश्चात्तापादिना आमयः कालक्रमेण। न केवलमत्रैव तमोवद्दुःखादिहेतुत्वम् अपितु परम्परया परलोके देहान्तरेऽपीत्यभिप्रायेण सत्त्ववर्धकसात्त्विकाहारसमानन्यायसिद्धमर्थमाह -- रजोवर्धनाश्चेति।
Sri Abhinavgupta
।।17.7 -- 17.10।।आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् ( S omits श्रद्धावत् ) तथा यज्ञतपोदानानि। तदुच्यते -- आहार इत्यादि तामसप्रियम् इत्यन्तम्। याता यामाः यस्य।
Sri Jayatritha
।।17.9।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।17.9।।कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि योजनीयः। कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात्। तत्रातिकटुर्निम्बादि? अत्यम्लातिवणात्युष्णाः प्रसिद्धाः? अतितीक्ष्णो मरीचादिः? अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः? अतिविदाही संतापको राजिकादिः? दुःखं तात्कालिकीं पीडां शोकं पश्चाद्भाविदौर्मनस्यामामयं रोगं च धातुवैषम्यद्वारा प्रददतीति तथाविधा आहारा राजसस्येष्टाः। एतैर्लिङ्गै राजसा ज्ञेयाः सात्त्विकैश्चैत उपेक्षणीया इत्यर्थः।
Sri Purushottamji
।।17.9।।राजसानाह -- कट्विति। अतिशब्दः सर्वत्रानुसम्बद्ध्यते कट्वादिषु। अतिकटुः कारवेल्लादिः? अत्यम्ल आम्रातकादिः? अतिलवणः क्षारबहुलरोचकशाकादिः? अत्युष्णः सबाष्पपक्वान्नादिः? अतितीक्ष्णो मरिचादिः? अतिरूक्षश्चणकमसूरकोद्रवादिः? अतिविदाही राजकादिः। एवमेतेऽतिकट्वादयः पञ्चयज्ञादिरहिताः स्वार्थकृता आहारा राजसस्येष्टाः प्रियाः। दुःखशोकामयप्रदाः दुःखं भक्षणसमय एव रसनाविकारादिरूपं? शोको भक्षणानन्तरमजीर्णोद्गारादिना भक्षितपश्चात्तापादिरूपः? आमयो रोगो ज्वरादिः? एतानि सर्वाणि प्रददति यच्छन्तीति तथा। एतादृगाहारकर्त्तारो राजसा ज्ञेया इत्यर्थः।
Sri Shankaracharya
।।17.9।। --,कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः? अतिकटुः अतितीक्ष्णः इत्येवम्। कटुश्च अम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च ते आहाराः राजसस्य इष्टाः? दुःखशोकामयप्रदाः दुःखं च शोकं च आमयं च प्रयच्छन्तीति दुःखशोकामयप्रदाः।।
Sri Vallabhacharya
।।17.9।।कट्विति। राजसस्य प्रियाः।