Chapter 18, Verse 12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्।।18.12।।
aniṣhṭam iṣhṭaṁ miśhraṁ cha tri-vidhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvachit
Word meanings: aniṣhṭam—unpleasant; iṣhṭam—pleasant; miśhram—mixed; cha—and; tri-vidham—three-fold; karmaṇaḥ phalam—fruits of actions; bhavati—accrue; atyāginām—to those who are attached to persona reward; pretya—after death; na—not; tu—but; sanyāsinām—for the renouncers of actions; kvachit—ever
Shri Purohit Swami
For those who cannot renounce all desires, the fruit of action hereafter is threefold—good, evil, and partly good and partly evil. But for him who has renounced, there is none.
Classical Commentaries (संस्कृत भाष्य)
Sri Anandgiri
।।18.12।।उक्ताधिकारिणः सर्वकर्मसंन्यासासंभवेऽपि फलाभावे कुतस्तस्य कर्तव्यतेति शङ्कते -- किं पुनरिति। गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितमिति विकल्पयति -- उच्यत इति। सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः। स चामुख्यसंन्यासस्तस्य फलमाह -- अनिष्टमिति। मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलमित्याह -- नत्विति। पादत्रयं व्याकरोति -- अनिष्टमित्यादिना। तिर्यगादीत्यादिपदमवशिष्टनिकृष्टयोनिसंग्रहार्थं?,देवादीत्यादिपदमवशिष्टोत्कृष्टयोनिग्रहणायेति विभागः। फलशब्दं व्युत्पादयति -- बाह्येति। करणद्वारकमनेकविधत्वमुक्त्वा मिथ्यात्वमाह -- अविद्येति। तत्कृतत्वेन दृष्टिमात्रदेहत्वे दृष्टान्तमाह -- इन्द्रेति। प्रतीतितो रमणीयत्वं सूचयति -- महामोहेति। अविद्योत्थस्याविद्याश्रितत्वादात्माश्रितत्वं वस्तुतो नास्तीत्याह -- प्रत्यगिति। उक्तं फलं कर्मिणामिष्यते चेदमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथमिष्टमित्याशङ्क्याह -- अपरमार्थेति। फलाभिसंधिविकलानां कर्मिणां देहपातादूर्ध्वं कर्मानुरोधिफलमावश्यकमित्यर्थः। कर्मिणामेव सतामफलाभिसंधीनाममुख्यसंन्यासित्वात्तदीयामुख्यसंन्यासस्य फलमुक्त्वा चतुर्थपादं व्याचष्टे -- नत्विति। अमुख्यसंन्यासमनन्तरप्रकृतं व्यवच्छिनत्ति -- परमार्थेति। तेषां प्रधानं धर्ममुपदिशति -- केवलेति। क्वचिद्देशे काले वा नास्ति यथोक्तं फलं तेषामिति संबन्धः। तर्हि परमार्थसंन्यासोऽफलत्वान्नानुष्ठियेतेत्याशङ्क्य तस्य मोक्षावसायित्वान्मैवमित्याह -- नहीति।
Sri Dhanpati
।।18.12।।अमुख्यसंन्यासापेक्षया मुख्यासंन्यासस्य विशिष्टं प्रयोजनं किमित्यागाङ्क्षायमाह -- अनिष्टं नरकतिर्यगादिलक्षणम्?,इष्टं देवादिलक्षणम्? मिश्रमिष्टानिष्टसंयुक्तं मनुष्यलक्षणं चैवं त्रिविधं त्रिप्रकारं कर्मणो धर्माधर्मलक्षणस्य फलं बाह्यनेककारकव्यापारनिष्पन्नत्वादनेकं अविद्याकृतत्वात् मिथ्याभूतमिन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पीव फल्गुतया लयमदर्शनं गच्छतीति फलशब्दनिर्वचनात्। तदेवं त्रिविधं फलमत्यागिनामज्ञानां कर्मिणामपरमार्थसंन्यासिनां प्रेत्य शरीरपातादूर्ध्यवं भवति। फलाभिसंधिरहितानां कर्मणां देहपातादूर्ध्वं संचितादिक्रमानुरोधिफलस्यावश्यंभावादिति भावः। संन्यासिनां तु परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानमुन्मूलिताविद्यादिसंसारबीजानां क्वचिद्देशे काले वा यथोक्तं फलं न भवति। अतः परमार्थतत्त्वविदः क्रियाकारकफलानामात्मन्यविद्याध्यारोपित्वदर्शिन एवाशेषकर्मसंन्यासित्वं संभवति? नत्वज्ञस्याधिष्ठानादीनि क्रियाकर्तृ़णि कारकाण्यात्मत्वेन पश्यतोऽशेषकर्मसंन्यासित्वमिति भावः। यत्त्वपरे एवंभूतस्य कर्मफलत्यागस्य फलमाह। अनिष्टादिरुपं त्रिविधं फलमत्यागिनां सकामानामेव प्रेत्य परत्र भवति। तेषां त्रिविधकर्मसंभवात् नतु संन्यासिनां क्वचिदपि भवति। संन्याससिशब्देनात्र फलत्यागसाम्यात्क्रकृताः कर्मफलत्यगिनो गृह्यन्ते। अनाश्रितः कर्मफलं कार्यं कर्म करोति यः स संन्यासी य योगी चेत्येवमादौ च फलत्यागिषु संन्याससिशब्दप्रयोगदर्शनात्। तेषां सात्त्विंकानां पापासंभवात् ईश्वरार्पणेन च पुण्यफलस्य त्यक्तत्वात् त्रिविधमपि कर्मफलं न भवतीत्यर्थ इति वर्णयन्ति तन्नोपादेयम्। संन्याससिशब्दस्य परमार्थसंन्यासिना सर्वकर्मत्यागिनी मुख्यत्वात् कर्मिणि च फलत्यागसाम्येन गौणत्वात् मुख्यार्थस्य चेहाबाधात्तस्यैव संन्यासिशब्देन ग्रहणसंभवे गौणग्रहणस्यगौणग्रहणस्यगौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः इति शब्दमर्यादाऽपरिज्ञानविजृम्भितत्वात् सत्यां कारणमामग्र्यां कार्योत्पाद इत्यर्थमर्यादाऽज्ञानमूलकत्वाच्च ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्य्धर्थं नित्यानि कर्माण्युतिष्ठतोऽन्तराले मृतस्य प्रागर्जितकर्मरुपकारणमामग्र्या त्रिविधशरीररुपकार्योत्पाद आवश्यक एवेति दिक्।
Sri Madhavacharya
।।18.12।।त्यागं स्तौति -- अनिष्टमिति।
Sri Neelkanth
।।18.12।।एवंभूतस्य त्यागस्य फलमाह -- अनिष्टमिति। अनिष्टं नरकतिर्यगादिरूपम्? इष्टं देवतादिरूपम्? मिश्रं मानुषभाव इति कर्मणः कर्मजातीयस्य फलं त्रिविधं प्रेत्य मरणानन्तरमत्यागिनां पूर्वोक्तमुख्यसंन्यासहीनानां भवति मुख्यसंन्यासिनां तु क्वचित्तद्भवति। तेषां कर्तृत्वाभिमानाभावात्। अन्ये तु गौणसंन्यासिनामेवायं कर्मालेप इत्याहुः। तथा च व्याख्यातंकार्यमित्येव यत्कर्म इत्यत्र। अन्यथा संन्यासिनां गौणसंन्यासिनां च विशेषो न स्यात्। न चैवं मुख्यसंन्यासिनां गौणसंन्यासिनां चाविशेषापत्तिरिति वाच्यम्। उभयेषामुत्तरकर्माश्लेषसाम्येऽपि पूर्वकर्मदाहादाहकृतस्य विशेषस्य सत्त्वात्। गौणसंन्यासिनां जन्मान्तरादिकमपि पूर्वकर्मभिरेव भविष्यति आपस्तम्बोक्ताम्रनिदर्शनेन योगभ्रष्टगतिवन्नान्तरीयकं वा न तु तस्य प्रधानं फलं स्वर्गादिभवितुमर्हत्यनुद्दिष्टत्वादिति।
Sri Ramanujacharya
।।18.12।।अनिष्टं नरकादिफलम्? इष्टं स्वर्गादि? मिश्रम् अनिष्टसंभिन्नं पुत्रपश्वन्नादि एतत् त्रिविधं कर्मणः फलम् अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति प्रेत्य कर्मानुष्ठानोत्तरकालम् इत्यर्थः। न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिद् अपि मोक्षविरोधि फलं भवति।एतद् उक्तं भवति -- यद्यपि अग्निहोत्रमहायज्ञादीनि नित्यानि एव? तथापि जीवनाधिकारकामाधिकारयोः इव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते? मोक्षविनियोगः च -- तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसानाशकेन (बृ0 उ0 4।4।22) इत्यादिभिः इति।तद् एवं क्रियमाणेषु एव कर्मसु कर्तृत्वादिपरित्यागः शास्त्रसिद्धः संन्यासः स एव च त्याग इति उक्तः।इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसन्धानप्रकारम् आह। तत एव फलकर्मणोः अपि ममतापरित्यागो भवति इति। परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैः च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माणि आरभते। अतो जीवात्मगतं क्षुन्निवृत्त्यादिकम् अपि फलं तत्साधनभूतं च कर्म परमपुरुषस्य एव --
Sri Sridhara Swami
।।18.12।।एवंभूतस्य कर्मफलत्यागस्य फलमाह -- अनिष्टमिति। अनिष्टं नारकित्वं? इष्टं देवत्वं? मिश्रं मनुष्यत्वं? एवं त्रिविधं पापस्य पुण्यस्य चोभयमिश्रस्य च कर्मणो यत्फलं प्रसिद्धं तत्सर्वमत्यागिनां सकामानामेव प्रेत्य परत्र भवति? तेषां त्रिविधकर्मसंभवात्। नतु संन्यसिनां क्वचिदपि भवति। संन्यासिशब्देनात्र फलत्यागसाम्यात्प्रकृताः कर्मफलत्यागिनोऽपि गृह्यन्ते।अनाश्रितः कर्मफलं कार्य कर्म करोति यः। स संन्यासी च योगी च इत्येवमादौ च कर्मफलत्यागिषु संन्यासिशब्दप्रयोगदर्शनात्। तेषां सात्त्विकानां पापासंभवादीश्वरार्पणेन च पुण्यफलस्य त्यक्तत्वात्ित्रविधमपि कर्मफलं न भवतीत्यर्थः।
Sri Vedantadeshikacharya Venkatanatha
।।18.12।।लौकिकफलसाधनकर्मप्रक्रिययैव हि वैदिकानामपि फलसाधनत्वव्यवस्थापनम्। लौकिकानि च कर्माणि फलेच्छाभावेऽपि स्वशक्त्यनुरूपं फलन्ति। एवं वैदिकेष्वपीत्यभिप्रायेण शङ्कते -- नन्विति। नन्वग्निहोत्रादीनां महायज्ञादीनां च विनियोगपृथक्त्वेन आश्रमाङ्गत्वस्वर्गाद्यर्थत्वाविरोधात् स्वर्गाद्यर्थतयाऽनुष्ठानं मा भूत्? आश्रमार्थतयाऽनुष्ठाने तु को विरोधः इत्यत्राऽऽह -- नित्यनैमित्तिकानामपीति। बीजावापादिदृष्टान्तेनअकुशलम् [18।10] इत्युक्तस्य प्रामादिकस्यापि बन्धकत्वं सूचितम्। न हि भूमौ प्रमादनिपतितं बीजं न फलति ()। तस्मादमृतरसार्थिनो विषतरुबीजावापतुल्योऽयं कर्मकलाप इत्यभिप्रायेण फलितं स्वरूपत्यागमाह -- अत इति।अमुमुक्षूणामिदमनिष्टत्वादित्रैविध्यम्? मुमुक्ष्वपेक्षया स्वर्गादेरप्यनिष्टत्वादित्यभिप्रायेण नरकस्वर्गादिकथनम्। कारीर्यादिसाध्यवृष्ट्यादिफलानां जीवद्दशाभावित्वस्थितेः।प्रेत्य इति प्रदर्शनार्थम् अन्यथा तस्मिन्नेव शरीरे त्यागिनामपि त्रिविधस्यापि फलस्य आरम्भानुमतिप्रसङ्गात्न तु सन्न्यासिनां क्वचित् इति व्यतिरेकोक्त्या तस्यापि बाधाच्चेत्यभिप्रायेणाऽऽहकर्मानुष्ठानोत्तरकालमिति। अत्राप्यनिष्टफलानन्वयः पूर्वोक्तरीत्या प्रामादिककर्मविषयो भन्तव्यः।,उक्तस्य चोद्यस्य प्रतिज्ञामात्रेणोत्तरमिदमुच्यते न तु कयाचिद्युक्त्येत्यत आह -- एतदुक्तमिति। विनियोगपृथक्त्वं विनियोजकवाक्यपृथक्त्वेन ग्राह्यम्। विनियोगात् पृथक्त्वेन ज्योतिष्टोमादिषु पापक्षयादिनानाफलत्वं सिद्धम्।परिह्रियते -- विरुद्धफलत्वचोद्यमिति शेषः। ननु तमेवं विद्वानमृत इह भवति। नान्यः पन्थाः [यजुस्सं.31।18तै.आ.3।1।3त्रि.म.ना.4।3चित्त्यु.12।713।1महाना.3] इति नियमनाद्वेदनमेव मोक्षसाधनतया विधीयते कर्म तु व्यवच्छिद्यते अतः कथं मोक्षाधिकारे विनियोगोक्तिः तत्राऽऽह -- मोक्षविनियोगश्चेति।असिना जिघांसति अश्वेन जिगमिषति इत्यादिष्विवार्थस्वभावादिहापीष्यमाणधात्वर्थकरणतयाऽन्वयः। अतो वेदनोत्पत्तिद्वारेण परम्परया साधनत्वान्मोक्षविनियोगः। अव्यवहितसाधनविवक्षया तु नान्यः पन्थाः [श्वेता.3।86।15ना.प.9।1त्रि.म.ना.4।3महाना.3चित्त्यु.12।7] इत्यादिभिर्निषेध इति भावः। एवं परिप्रश्नाभिप्रेतमन्यधापि प्रतिवक्तुमुपक्रमत इत्यभिप्रायेण सङ्गत्यर्थमुक्तमंशं निगमनच्छाययाऽनुवदति -- तदेवमिति।तत् -- स्वरूपत्यागादेस्तामसत्वादित्यर्थः।एवं वर्णाश्रमादिनियतस्य दुस्त्यजत्वप्रकारेणेत्यर्थः। अस्मिन्नेव श्लोकेभवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् इति त्यागाभावविपर्ययस्य सन्न्यासशब्देनानुकथनात्त्यागसन्न्यासपृथक्त्वशङ्का च परिहृतेत्याह -- स एव च त्याग इति।
Sri Abhinavgupta
।।18.12।।अनिष्टमिति। अत्यागिनाम् -- फलमयानाम् ( S??N तन्मयानाम् )।
Sri Jayatritha
।।18.12।।कर्मफलाभावो नाम संसारनिवृत्तिरेव? सा कथं त्यागफलत्वेनोच्यते इत्यत आह -- त्यागमिति। उपपादितमेतत्त्यागाच्छान्तिः [12।12] इत्यत्र।
Sri Madhusudan Saraswati
।।18.12।।ननु देहभृतः परमात्मज्ञानशून्यस्य कर्मिणोऽपि कर्मफलाभिसन्धित्यागत्वेन गौणसंन्यासिनः परमात्मज्ञानवतो देहाभिमानरहितस्य सर्वकर्मत्यागिनो मुख्यसंन्यासिनश्च कः फले विशेषो यदलाभेन गौणत्वमेकस्य यल्लाभेन च मुख्यत्वमन्यस्य? कर्मफलत्यागित्वं तूभयोरपि तुल्यमित्यन्यो विशेषो वाच्यः उच्यते -- अनिष्टमिति। अत्यागिनां कर्मफलत्यागित्वेऽपि कर्मानुष्ठायिनामज्ञानां गौणसंन्यासिनां प्रेत्य विविदिषापर्यन्तं सत्त्वशुद्धेः प्रागेव मृतानां पूर्वकृतस्य कर्मणः फलं शरीरग्रहणं भवति। मायामयं फल्गुतया लयमदर्शनं गच्छतीति निरुक्तेः। कर्मण इति जात्यभिप्रायमेकवचनमेकस्य त्रिविधफलत्वानुपपत्तेः। तच्च फलं कर्मणस्त्रिविधत्वात्ित्रविधं पापस्यानिष्टं प्रतिकूलवेदनीयं नारकतिर्यगादिलक्षणं? पुण्यस्य इष्टमनुकूलवेदनीयं देवादिलक्षणं? मिश्रस्य तु पापपुण्ययुगलस्य मिश्रमिष्टानिष्टसंयुक्तं मानुष्यलक्षणमित्येवं त्रिविधमित्यनुवादो हेयत्वार्थः। एवं गौणसंन्यासिनां शरीरपातादूर्ध्वं शरीरान्तरग्रहणमावश्यकमित्युक्त्वा मुख्यसंन्यासिनां परमात्मसाक्षात्कारेणाविद्यातत्कार्यनिवृत्तौ विदेहकैवल्यमेवेत्याह -- नतु संन्यासिनां क्वचिदिति। परमात्मज्ञानवतां मुख्यसंन्यासिनां परमहंसपरिव्राजकानां प्रेत्य कर्मणः फलं शरीरग्रहणमनिष्टमिष्टं मिश्रं च क्वचिद्देशे काले वा न भवत्येवेत्यवधारणार्थस्तुशब्दः। ज्ञानेनाज्ञानस्योच्छेदे तत्कार्याणां कर्मणामुच्छिन्नत्वात्। तथाच श्रुतिःभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति। पारमर्षं च सूत्रम्तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् इति परमात्मज्ञानादशेषकर्मक्षयं दर्शयति। तेन गौणसंन्यासिनां पुनः संसारः मुख्यसंन्यासिनां तु मोक्ष इति फले विशेष उक्तः। अत्र कश्चिदाहअनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च इत्यादौ कर्मफलत्यागिषु संन्यासिशब्दप्रयोगात्कर्मिण एवात्र फलत्यागसाम्यात्संन्यासिशब्देन गृह्यन्ते। तेषां च सात्त्विकानां नित्यकर्मानुष्ठानेन निषिद्धकर्मानुष्ठानेन च पापासंभवान्नानिष्टं फलं संभवति। नापीष्टं काम्याननुष्ठानात् ईश्वरार्पणेन फलस्य त्यक्तत्वाच्च। अतएव मिश्रमपि नेति त्रिविधधर्मफलासंभवः। अतएवोक्तंमोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः। नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया इति? स वक्तव्यः शब्दस्यार्थस्य च मर्यादा न निरधारि भवतेति। तथाहिगौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः इति शब्दमर्यादा। यथाअमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ति इत्यत्रामावास्याशब्दः काले मुख्यस्तत्कालोत्पन्ने कर्मणि च गौणःय एवं विद्वानमावास्यां यजते इत्यादौ तत्रामावास्यामिति कर्मग्रहणे पितृयज्ञस्य तदङ्गत्वान्न फलं कल्पनीयमिति विधेर्लाघवमिति पूर्वपक्षितं कात्यायनेनाङ्गं वा समभिव्याहारादिति गौणार्थस्य मुख्यार्थोपस्थितिपूर्वकत्वान्मुख्यार्थस्य चेहाबाधादमावास्याशब्देन काल एव गृह्यते? फलकल्पनागौरवं तूत्तरकालीनं प्रमाणवत्त्वादङ्गीकार्यमिति सिद्धान्तितं जैमिनिनापितृयज्ञः स्वकालत्वादनङ्गं स्यात् इति। एवं स्थिते संन्यासिशब्दस्य सर्वकर्मत्यागिनि मुख्यत्वात्कर्मणि च फलत्यागसाम्येन गौणत्वान्मुख्यार्थस्य चेहाबाधात्तस्यैव संन्यासिशब्देन ग्रहणमिति शब्दमर्यादा सिद्धम्। सत्यां कारणसामग्र्यां कार्योत्पादइति चार्थमर्यादा। तथाहि ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्ध्यर्थं नित्यानि कर्माण्यनुतिष्ठतोऽन्तराले मृतस्य प्रागर्जितैः कर्मभिस्त्रिविधं शरीरग्रहणं केन वार्यते।यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः इति श्रुतेः। अन्ततः सत्त्वशुद्धिफलज्ञानोत्पत्त्यर्थं तदधिकारिशरीरमपि तस्यावश्यकमेव। अतएव विविदिषासंन्यासिनः श्रवणादिकं कुर्वतोऽन्तराले मृतस्य योगभ्रष्टशब्दवाच्यस्यशुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते इत्यादिना ज्ञानाधिकारिशरीरप्राप्तिरवश्यंभाविनीति निर्णीतं षष्ठे। यत्र सर्वकर्मत्यागिनोऽप्यज्ञस्य शरीरग्रहणमावश्यकं तत्र,किं वक्तव्यमज्ञस्य कर्मिण इति। तस्मादज्ञस्यावश्यं शरीरग्रहणमित्यर्थमर्यादया सिद्धम्। पराक्रान्तं चैकभविकपक्षनिराकरणे सूरिभिः। तस्माद्यथोक्तं भगवत्पूज्यपादभाष्यकृतं व्याख्यानमेव ज्यायः। तद्रयमत्र निष्कर्षः। अकर्त्रभोक्तृपरमानन्दाद्वितीयसत्यस्वप्रकाशब्रह्मात्मसाक्षात्कारेण निर्विकल्पेन वेदान्तवाक्यजन्येन विचारनिश्चितप्रामाण्येन सर्वप्रकाराप्रामाण्यशङ्काशून्येन ब्रह्मात्मज्ञानेनात्माज्ञाननिवृत्तौ तत्कार्यकर्तृत्वाद्यभिमानरहितः परमार्थसंन्यासी सर्वकर्मोच्छेदाच्छुद्धः केवलः सन्नाविद्याकर्मादिनिमित्तं पुनः शरीरग्रहणमनुभवति सर्वभ्रमाणां कारणोच्छेदेनोच्छेदात्। यस्त्वविद्यावान्कर्तृत्वाद्यभिमानी देहभृत् स त्रिविधो रागादिदोषप्राबल्यात्काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मोक्षशास्त्रानधिकार्येकः? अपरस्तु यः प्राक्कृतसुकृतवशात्किंचित्प्रक्षीणरागादिदोषः सर्वाणि कर्माणि त्यक्तुमशक्नुवन्निषिद्धानि काम्यानि च परित्यज्य नित्यानि नैमित्तिकानि च कर्माणि फलाभिसंधित्यागेन सत्त्वशुद्ध्यर्थमनुतिष्ठन् गौणसंन्यासी मोक्षशास्त्राधिकारी द्वितीयः। स ततो नित्यनैमित्तिककर्मानुष्ठानेनान्तःकरणशुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्षसाधनं संपिपादयिषुः सर्वाणि कर्माणि विधितः परित्यज्य ब्रह्मनिष्ठं गुरुमुपसर्पति विविदिषासंन्यासिसमाख्यस्तृतीयः। तत्राद्यस्य संसारित्वं सर्वप्रसिद्धं? द्वितीयस्य तुअनिष्टं इत्यादिना व्याख्यातं? तृतीयस्य तुअयतिः श्रद्धयोपेतः इति प्रश्नमुत्थाप्य निर्णीतं षष्ठे अज्ञस्य संसारित्वं। ध्रुवं कारणसामग्र्याः सत्त्वात्। तत्तु कस्यचिज्ज्ञानाननुगुणं कस्यचिज्ज्ञानानुगुणमिति विशेषः। विज्ञस्य तु संसारकारणाभावात्स्वत एव कैवल्यमिति द्वौ पदार्थौ सूत्रितावस्मिञ्श्लोके।
Sri Purushottamji
।।18.12।।एवं कर्मफलत्यागिनस्त्यागित्वमुपपाद्याथ कर्मफलत्यागमाह -- अनिष्टमिष्टमिति। कर्मणः फलं त्रिविधम् -- अनिष्टं इष्टं मिश्रं च। तत्रानिष्टं नरकशूकरादियोनिप्राप्तियातनारूपम्? इष्टं देवभावेन स्वर्गादिसुखरूपम्? मिश्रं सन्मनुष्यजन्मराज्यादिभोगरूपम्। तत्ित्रविधं कर्मफलं अत्यागिनां कर्मफलात्यागिनां प्रेत्य परत्र लोके भवति। न तु क्वचिदपि सन्न्यासिनां कर्मफलत्यागिनां भवतीत्यर्थः।
Sri Shankaracharya
।।18.12।। --,अनिष्टं नरकतिर्गयादिलक्षणम्? इष्टं देवादिलक्षणम्? मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च? तत् त्रिविधं त्रिप्रकारं कर्मणः,धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इव -- फल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम् -- तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम्। न तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित्। न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयन्ति कदाचित् इत्यर्थः। अतः परमार्थदर्शिनः एव अशेषकर्मसंन्यासित्वं संभवति? अविद्याध्यारोपितत्वात् आत्मनि क्रियाकारकफलानाम् न तु अज्ञस्य अधिष्ठानादीनि क्रियाकर्तृकारकाणि आत्मत्वेनैव पश्यतः अशेषकर्मसंन्यासः संभवति।।तदेतत् उत्तरैः श्लोकैः दर्शयति --,
Sri Vallabhacharya
।।18.12।।ननु तर्हि शास्त्रेषु यज्ञादीनि कर्माणि प्राजापत्यं गृहस्थानां [वि.पु.1।6।37] इत्यादिश्रूयमाणफलसम्बन्धितया विधीयन्ते इत्यतस्तत्फलसाधनस्वभावतयाऽवगतानां कर्मणामनुष्ठाने बीजावापादीनामिवानभिसंहितफलकस्यापीष्टानिष्टरूपफलसम्बन्धोऽवर्जनीय एवेति मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेत्यमित्याशङ्क्याऽऽह -- अनिष्टमिति। अनिष्टं नरकादिफलं? इष्टं स्वर्गादिफलं? मिश्रं पुत्रार्थपश्वन्नादि? त्रिविधं कर्मणः फलं अत्यागिनां उक्तकर्त्यागरहितानां कर्मिणां प्रेत्य भवति कामवासनासलिलसेकेनोद्भवति न तु कामादिपरित्यागिनां भगवदर्पितकर्मिणां क्वचिदपि मोक्षविरोधिफलं भवति। अत्रायमभिप्रायो दर्शितः श्रीरामानुजाचार्यैः -- जीवनाधिकारकामाधिकारयोरिव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियन्ते यज्ञादिकर्माणि मोक्षविनियोगश्च तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन [बृ.उ.4।4।22] इत्यादिभिः इति। तदेवं क्रियमाणेषु स्वकर्मसु कर्तृत्वफलकामादिपरित्यागः शास्त्रीयः सन्न्यासः? स एव च त्यागः इत्युक्तम्।