← Chapter 18

Chapter 18, Verse 46

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।18.46।।

yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ tatam sva-karmaṇā tam abhyarchya siddhiṁ vindati mānavaḥ

Word meanings: yataḥ—from whom; pravṛittiḥ—have come into being; bhūtānām—of all living entities; yena—by whom; sarvam—all; idam—this; tatam—pervaded; sva-karmaṇā—by one’s natural occupation; tam—him; abhyarchya—by worshipping; siddhim—perfection; vindati—attains; mānavaḥ—a person

Shri Purohit Swami

One reaches perfection by dedicating their actions to God, Who is the source of all being and fills everything.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।18.46।।तमेव प्रकारं स्फुटयति -- यत इति। यतःशब्दार्थं यस्मादित्युक्तं व्यक्तीकरोति -- यस्मादिति। प्राणिनामुत्पत्तिर्यस्मादीश्वरात्तेषां चेष्टा च यस्मादन्तर्यामिणो येन च सर्वं व्याप्तं मृदेव घटादिकार्यस्य कारणातिरिक्तस्वरूपाभावात्तं स्वकर्मणाभ्यर्च्य मानवः संसिद्धिं विन्दतीति संबन्धः। नहि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षान्मोक्षो लभ्यते तस्य ज्ञानैकलभ्यत्वात्किंतु तन्निष्ठानां शुद्धबुद्धीनां कर्म,सुफलमपश्यतामीश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञाननिष्ठयोग्यतावतां ज्ञानप्राप्त्या मुक्तिरित्यभिप्रेत्याह -- केवलमिति।
Sri Dhanpati
।।18.46।।तमेव प्रकारं दर्शयति -- यतः यस्मात् जगज्जनकादन्तर्यामिणो भूतानां। प्रवृत्तिरुत्पत्तिश्चेष्टा वा स्यात्। येनेश्वरेण सर्वं कृत्स्त्रमिदं ततं व्याप्तं कार्यस्य कारणसत्तातिरिक्तसत्ताकत्वाभावात्। तं परमात्मानं स्वकर्मणा प्रतिवर्ण पूर्वोक्तेन अभ्यर्च्य सभ्यक् पूजयित्वा आराध्य मानवोऽधिकृतो मनुष्यः सिद्धिं केवलज्ञाननिष्ठायोग्यतालक्षणां विन्दति लभते।
Sri Madhavacharya
।।18.46।।Sri Madhvacharya did not comment on this sloka.,
Sri Neelkanth
।।18.46।।तमेव प्रकारमाह -- यत इति। प्रवृत्तिः कायवाङ्मनोनिर्वर्त्या चेष्टा। यतो हेतोरन्तर्यामिणः।येन वागभ्युद्यते इत्यादिश्रुतेः। येन इदं सर्वं दृश्यं ततं व्याप्तं उपादानत्वात्। स्वकर्मणा तमभ्यर्च्य संतर्प्य सिद्धिं मोक्षं विन्दति लभते मानवः। मनुष्याधिकारिकत्वाच्छास्त्रस्य। परमेश्वरे नित्यकर्मणामर्पणमेव मोक्षद्वारमित्यर्थः।
Sri Ramanujacharya
।।18.46।।यतो भूतानाम् उत्पत्त्यादिका प्रवृत्तिः? येन च सर्वम् इदं ततं स्वकर्मणां तं माम् इन्द्राद्यन्तरात्मतयावस्थितम् अभ्यर्च्य मत्प्रसादात् मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः।मत्त एव सर्वम् उत्पद्यते? मया च सर्वम् इदम् ततम् इति पूर्वम् एव उक्तम् -- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।मत्तः परतर नान्यत्किञ्चिदस्ति धनंजय। (गीता 7।67)मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। (गीता 9।4)मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्।। (गीता 9।10)अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। (गीता 10।8) इत्यादिषु।
Sri Sridhara Swami
।।18.46।।तमेवाह  -- यत इति। यतोऽन्तर्यामिणः परमेश्वराद्भूतानां प्राणिनां प्रवृत्तिश्चेष्टा भवति। येन च कारणात्मना सर्वमिदं विश्वं ततं व्याप्तं तमीश्वरं स्वकर्मणाऽभ्यर्च्य पूजयित्वा सिद्धिं लभते मनुष्यः।
Sri Vedantadeshikacharya Venkatanatha
।।18.46।।सर्वकारणभूतः सर्वान्तर्यामी परमात्मा स्वसृज्यत्वशरीरभूतेन्द्रादिवाचकैः शब्दैराम्नायत इति तत्समाराधनत्वात्संसिद्धिसाधनत्वं वर्णाश्रमधर्माणामुपपन्नमित्युच्यतेयतः प्रवृत्तिः इति श्लोकेन। प्रवृत्तिशब्दस्यात्र चेष्टामात्रपरत्वव्युदासायाऽऽहउत्पत्त्यादिकेति। चेतनाचेतनवाचिभूतशब्दसमन्वितः प्रवृत्तिशब्दोऽत्र विशेषकाभावात्सर्वविधव्यापारसङ्ग्राहक इति भावः। सर्वविधकारणत्वोपयुक्त आकार उच्यतेयेन सर्वमिदं ततम् इति। ततं नियन्तृत्वेनेति हृदयम्।तम् इति परोक्षतया निर्दिष्टःकथं मामिति व्याख्यायते इति शङ्कायांयतः इत्यनुवादस्य प्राप्त्यर्थं पुरोवादं स्मारयति -- मत्त एवेति। कारणत्वसर्वाधिकत्वसर्वव्यापित्वसर्वनियन्तृत्वादिषु यथासम्भवं वचनानि योज्यानि।
Sri Abhinavgupta
।।18.41 -- 18.60।।एवमियता षण्णां प्रत्येकं त्रिस्वरूपत्वं धृत्यादीनां च प्रतिपादितम्।  तन्मध्यात् सात्त्विके राशौ वर्तमानो दैवीं संपदं प्राप्त इह ज्ञाने योग्यः? त्वं च तथाविधः इत्यर्जुनः प्रोत्साहितः।अधुना तु इदमुच्यते -- यदि तावदनया ज्ञानबुद्ध्या कर्मणि भवान् प्रवर्तते तदा स्वधर्मप्रवृत्त्या विज्ञानपूततया च न कर्मसंबन्धस्तव।  अथैतन्नानुमन्यसे? तदवश्यं तव प्रवृत्त्या तावत् भाव्यम् जातेरेव तथाभावे स्थितत्वात्।  यतः सर्वः स्वभावनियतः ( S??N स्वस्वभावनियतः ) कुतश्चिद्दोषात् तिरोहिततत्स्वभावः ( S??N -- हिततत्तत्स्वभावः ) कंचित्कालं भूत्वापि? तत्तिरोधायकविगमे स्वभावं व्यक्त्यापन्नं लभत एव।  तथाहि एवंविधो वर्णनां स्वभावः।  एवमवश्यंभाविन्यां प्रवृत्तौ ततः फलविभागिता भवेत्।।तदाह -- ब्राह्मणेत्यादि अवशोऽपि तत् इत्यन्तम्।  ब्राह्मणादीनां कर्मप्रविभागनिरूपणस्य स्वभावोऽश्यं नातिक्रामति,( S? ? N omit न and read अतिक्रामति ) इति क्षत्रियस्वभावस्य भवतोऽनिच्छतोऽपि प्रकृतिः स्वभावाख्या नियोक्तृताम् अव्यभिचारेण भजते।  केवलं तया नियुक्तस्य पुण्यपापसंबन्धः।  अतः मदभिहितविज्ञानप्रमाणपुरःसरीकारेण कर्माण्यनुतिष्ठ।  तथा सति बन्धो निवर्त्स्यति।  इत्यस्यार्थस्य परिकरघटनतात्पर्यं ( S? ? N -- करबन्धघटन -- ) महावाक्यार्थस्य।  अवान्तरवाक्यानां स्पष्टा ( ष्टोऽ ) र्थः।समासेन ( S omits समासेन ) ( श्लो. 50 ) संक्षेपेण।  ज्ञानस्य? प्रागुक्तस्य।  निष्ठां ( ष्ठा )  वाग्जालपरिहारेण निश्चितामाह।  बुद्ध्या विशुद्धया इत्यादि सर्वमेतत् व्याख्यातप्रायमिति न पुनरायस्यते,( N -- रारभ्यते )।
Sri Jayatritha
।।18.46।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।18.46।।यत इति। यतो मायोपाधिकचैतन्यानन्दघनात्सर्वज्ञात्सर्वशक्तेरीश्वरादुपादानान्निमित्ताच्च सर्वान्तर्यामिणः प्रवृत्तिरुत्पत्तिर्मायामयी स्वाप्नरथादीनामिव भूतानां भवनधर्मणामाकाशादीनां येन चैकेन सद्रूपेण स्फुरणरूपेण च सर्वमिदं दृश्यजातं त्रिष्वपि कालेषु ततं व्याप्तं स्वात्मन्येवान्तर्भावितं कल्पितस्याधिष्ठानानतिरेकात्। तथाच श्रुतिःयतो वा इमानि भूतानि जायन्ते? येन जातानि जीवन्ति? यत्प्रयन्त्यभिसंविशन्ति? तद्विजिज्ञासस्व  तद्ब्रह्मेति। अत्र यत इति प्रकृतौ पञ्चमी। यतो येनेति चैकत्वं विवक्षितम्। आनन्दो ब्रह्मेति व्यजानात्? आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इति च। तस्य निर्णयवाक्यंमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इत्यादि श्रुत्यन्तराच्च मायोपाधिलाभः।यः सर्वज्ञः सर्ववित् इत्यादि श्रुत्यन्तरात्सर्वज्ञत्वादिलाभः। एवं श्रौत एवायमर्थो भगवता प्रकाशितः।यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् इति तमन्तर्यामिणं भगवन्तं स्वकर्मणा प्रतिवर्णाश्रमं विहितेनाभ्यर्च्य तोषयित्वा तत्प्रसादादैकात्म्यज्ञाननिष्ठायोग्यतालक्षणां सिद्धिमन्तःकरणशुद्धिं विन्दति मानवो? देवादिस्तूपासनामात्रेणेति भावः।   
Sri Purushottamji
।।18.46।।तं प्रकारमेवाऽऽह -- यत इति। यतो भगवतः भूतानां प्राणिनां प्रवृत्तिरुत्पत्तिर्भवति? सर्वकर्मसु वा यतः प्रवृत्तिः प्रकर्षेण वर्तनमनुसरणं भवति? येन कारणरूपेण इदं सर्वं विश्वं ततं व्याप्तं? तं भगवन्तं स्वकर्मणा आत्मकर्मणा भक्त्या अभ्यच्य सम्पूज्य मानवः मनोर्जातो मनुष्यः सद्धर्मरूपः सिद्धिं विन्दति लभत इत्यर्थः।
Sri Shankaracharya
।।18.46।। --,यतः यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्मात् अन्तर्यामिणः ईश्वरात् भूतानां प्राणिनां स्यात्? येन ईश्वरेण सर्वम् इदं ततं जगत् व्याप्तम् स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम् ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं विन्दति मानवः मनुष्यः।।यतः एवम्? अतः --,
Sri Vallabhacharya
।।18.46।।तत्प्रकारमाह सार्द्धेन -- स्वकर्मेति। स्पष्टम्।यतः प्रवृत्तिः प्रसृता पुराणी [15।4] ब्रह्मणा येनाक्षरेण भगवत्स्वरूपेणेदं ततं तमेवाभ्यर्च्य? न तु देवान्तरं? तदा सिद्धिं मुक्तिं प्राप्नोति स्वकर्मणेति द्रढयति।
← PrevNext →