← Chapter 2

Chapter 2, Verse 26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि।।2.26।।

atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi

Word meanings: atha—if, however; cha—and; enam—this soul; nitya-jātam—taking constant birth; nityam—always; vā—or; manyase—you think; mṛitam—dead; tathā api—even then; tvam—you; mahā-bāho—mighty-armed one, Arjun; na—not; evam—like this; śhochitum—grieve; arhasi—befitting

Shri Purohit Swami

Even if thou thinkest of it as constantly being born and constantly dying, O Mighty Man, thou still hast no cause to grieve.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।2.26।।आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वादुत्तरश्लोकानुपपत्तिरित्याशङ्क्याह   आत्मन इति।  अनित्यत्वमिति च्छेदः शाक्यानां लोकायतानां वा मतमिदमा परामृश्यते। श्रोतुरर्जुनस्य पूर्वोक्तमात्मयाथात्म्यं श्रुत्वापि तस्मिन्निर्धारणासिद्धेर्द्वयोर्मतयोरन्यतरमताभ्युपगमः शङ्कितस्तदर्थो निपातद्वयप्रयोग इत्याह   अथ   चेति।  प्रकृतस्यात्मनो नित्यत्वादिलक्षणस्य पुनःपुनर्जातत्वाभिमानो मानाभावादसंभवीत्याह   लोकेति।  नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनिवेशो व्याहतः स्यादित्याशङ्क्याह   तथेति।  परकीयमतमनुभाषितमभ्युपेत्यअहो बत महत्पापं कर्तुं व्यवसिता वयम् इत्यादेस्तदीयशोकस्य निरवकाशत्वमित्याह   तथापीति।  एवमर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह   जन्मवत इति।  जन्मवतो नाशो नाशवतश्च जन्मेत्येताववश्यंभाविनौ मिथो व्याप्ताविति योजना।
Sri Dhanpati
।।2.26।।प्रौढ्या आत्मनो नित्यत्वं वेदबाह्यवादिसिद्धान्तमभ्युपेत्यापि शोकमपाकरोति   अथेति।  अथशब्दः पक्षान्तराभ्युपगमार्थः। एनं लोकदृष्ट्या प्रत्यनेकशरीरोत्पत्तिं जातो जात इति मन्यसे तथातद्विनाशं नित्यं वा मन्यसे। उपलक्ष्णमेतद्भाष्यं नास्तिकोक्तपक्षान्तराणामपि। यद्वा इतरेषां मतानामत्रोपपादनमविवक्षितं प्रयोजनाभावात् अतस्थूलमताभ्युपगमेऽपि शोको न कार्यः किमुत वैदिकमताङ्गीकार इति फलितार्थस्य विवक्षित्वात्। महाबाहो इति संबोधयन् शोकमकृत्वा बाह्वोर्महत्त्वं सार्थकं कुर्विति सूचयति।
Sri Madhavacharya
।।2.26।।अस्त्वेवमात्मनो नित्यत्वम् तथापि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह  अथ चेति।
Sri Neelkanth
।।2.26।।एवं तत्त्वदृष्ट्या शोको नोचित इत्युक्तं इदानीं प्राकृतजनदृष्ट्यापि शोको नोचित इत्याह   अथचेति।  नित्यं नियमेन जातं नित्यजातमिति चार्वाकपक्षः। नित्यं सर्वदा जातमिति क्षणिकविज्ञानवादिपक्षः। नित्यश्चासौ अपूर्वदेहेन्द्रियसंबन्धाज्जातश्चेति तार्किकादिपक्षः। एवं नित्यं वा मन्यसे मृतमित्यपि योज्यम्। पक्षत्रयेऽपि शोको न युक्तः। महाबाहो इति युद्धार्थमुत्साहयति।
Sri Ramanujacharya
।।2.26।। अथ नित्यजातं नित्यमृतं  देहम् एव  एनम्  आत्मानं  मनुषे  न देहातिरिक्तम् उक्तलक्षणं  तथापि  एवम् अतिमात्रं  शोचितुं न अर्हसि।  परिणामस्वभावस्य देहस्य उत्पत्तिविनाशयोः अवर्जनीयत्वात्।
Sri Sridhara Swami
।।2.26।।तदेवमात्मनो जन्मविनाशाभावान्न शोकः कार्य इत्युक्तम्। इदानीं देहेन सहात्मनो जन्म तद्विनाशेन च विनाशमङ्गीकृत्यापि शोको न कार्य इत्याह   अथ चेति।  अथ च यद्यप्येनमात्मानं नित्यं सर्वदा तत्तद्देहे जाते जातं मन्यसे तथा तद्देहे मृते मृतं मन्यसे पुण्यपापयोस्तत्फलभूतयोर्जन्ममरणयोरात्मगामित्वात् तथापि त्वं शोचितुं नार्हसि।
Sri Vedantadeshikacharya Venkatanatha
।।2.26।।एवं देहातिरिक्तात्माभ्युपगमे शोकनिमित्ताभाव उक्तः अथ नास्तिकदृष्ट्या देहात्मवादेऽपि शोकनिमित्तं नास्तीत्युच्यते  अथ चेत्यादिना श्लोकत्रयेण।अथ इति पक्षान्तरारम्भार्थः प्रश्नार्थो वा अभ्युपगमार्थो वा। वाशब्दोऽपि विशेषणद्वयसमुच्चयार्थः।नित्यजातं नित्यमृतं नियतोत्पत्तिनाशमित्यर्थः। उत्तरश्लोके चेममर्थं प्रपञ्चयिष्यति। नहि नित्यस्य जातत्वमृतत्वसम्भवः। न च जन्ममरणक्रियास्वरूपं नित्यत्वेन विशेषयितुं शक्यम्। व्यस्तस्य नित्यशब्दस्यात्मविशेषणत्वभ्रमव्युदासायनित्यजातम् इतिवत्नित्यमृतम् इति समस्योक्तम्।देहमिति विशेषणादिसामर्थ्यफलितमुक्तम्।एवेति चशब्दार्थः। अवधारणफलितमाह  न देहेति। पूर्वमात्मनो नाशाभावाच्छोकप्रसङ्ग एव नास्तीत्युक्तम् इदानीं देहतयाभिमतस्यात्मनो नाशे सत्यपि दुष्परिहरत्वान्महाबाहुस्त्वं नातीव शोचितुमर्हसीत्यभिप्रायेणएवं शब्दः। यद्वा पूर्वं देहातिरिक्तात्माभ्युपगमात्परलोकादिभयेनातिमात्रशोकोऽपि युज्यते। इदानीं तु संसारमोचकादिवन्महाबाहोस्तव अतिमात्रप्रीतिस्थाने कथमतिमात्रशोक इति भावः।त्वं महाबाहो इति शूरस्य ते स्वपरमरणोद्वेगो न युक्त इत्याकूतम्। प्रतिज्ञाया हेतुसाकाङ्क्षत्वादुत्तरश्लोकस्थं वा विशेषणद्वयसूचितं वा हेतुं निष्कृष्याह  परिणामेति।
Sri Abhinavgupta
।।2.24  2.26।।नैनमित्यादि।  नास्य नाशकारणं शस्त्रादि किंचित्करम्।  चिदेकस्वभावस्य अनाश्रितस्य ( N K add निरपेक्षस्य after अनाश्रितस्य) निरंशस्य (N omits निरंशस्य S adds निरवयवस्य after निरंशस्य) स्वतन्त्रस्य स्वभावान्तरापत्त्याश्रयविनाशावयवविभाग विरोधिप्रादुर्भावादिक्रमेण (S  प्रक्रमेण) नाशयितुमशक्यत्वात्। न च देहान्तरगमनमस्य अपूर्वम् देहान्वितोऽपि (N अपूर्वदेहान्नित्योऽपि) सततं देहान्तरं गच्छति तेन संबध्यते इत्यर्थः।  देहस्य क्षणमात्रमप्यनवस्थायित्वात्।  एवंभूतं विदित्वा एनमात्मानं शोचितुं नार्हसि।
Sri Jayatritha
।।2.26।।ननु सर्वशङ्कोद्धारेणात्मनित्यत्वं प्रतिपाद्य तस्मादेवमित्युपसंहृतं तत्किंअथ च इति पुनरुच्यते इत्यतोऽङ्गीकृत्यात्मनित्यत्वं प्रकारान्तरेण शोकशङ्केयमित्याशयेनाह   अस्त्वेव मिति। युद्धे च मृतिर्नियता जनिमृतिनिमित्तं च दुःखं मदीयानां भविष्यतीति ममैव शोक इति शङ्काशेषः। अनेन पूर्वार्धोऽपि व्याख्यातः। अत एव  देह संयोगवियोगात्म कजनिमृती  इत्युक्तम्। अन्यथा देहसंयोगवियोगावित्येव वा जनिमृती इत्येव वा ब्रूयात्।स्त एव इत्यनेन नित्यशब्दोऽवधारणार्थ इत्युक्तं भवति। अस्त्वेवमात्मनो नित्यत्वमिति वदताआत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते इति मायावादिनो व्याख्यानं निरस्तं भवति।ध्रुवं जन्म मृतस्य च 2।27 इत्युत्तरवाक्यविरोधात्अव्यक्तादीनि 2।28 इत्यनेनापि विरोधात्।
Sri Madhusudan Saraswati
।।2.26।।एवमात्मनो निर्विकारत्वेनाशोच्यत्वमुक्तम्। इदानीं विकारवत्त्वमभ्युपेत्यापि श्लोकद्वयेनाशोच्यत्वं प्रतिपादयति भगवान्  तत्र आत्मा ज्ञानस्वरूपः प्रतिक्षणविनाशीत सौगताः देह एवात्मा स च स्थिरोऽप्यनुक्षणपरिणामी जायते नश्यति चेति प्रत्यक्षसिद्धमेवैतदिति लोकायतिकाः। देहातिरिक्तोऽपि देहेन सहैव जायते नश्यति चेत्यन्ये। सर्गाद्यकाल एवाकाशवज्जायते देहभेदेऽप्यनुवर्तमान एवाकल्पस्थायी नश्यति प्रलय इत्यपरे। नित्यएवात्मा जायते म्रियते चेति तार्किकाः। तथाहि प्रेत्यभावो जन्म सचापूर्वदेहेन्द्रियादिसंबन्धः। एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदः। इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव मुख्यम्। अनित्यस्य तु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्न जन्ममरणे मुख्ये इति वदन्ति। नित्यस्याप्यात्मनः कर्णशष्कुलीजन्मनाप्याकाशस्येव देहजन्मना जन्म तन्नाशाच्च मरणं तदुभयमौपाधिकममुख्यमेवेत्यन्ये। तत्रानित्यत्वपक्षेऽपि शोच्यत्वमात्मनो निषेधति  अथेति पक्षान्तरे। चोप्यर्थे। यदि दुर्बोधत्वादात्मवस्तुनोऽसकृच्छ्रवणेऽप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि तत्राप्यनित्यत्वपक्षमेवाश्रित्य यद्येनमात्मानं नित्यजातं नित्यमृतं वा मन्यसे। वाशब्दाश्चार्थे। क्षणिकत्वपक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान्नित्यं नियतं जातोऽयं मृतोऽयमिति लौकिकप्रत्ययवशेन यदि कल्पयसि तथापि हे महाबाहो पुरुषधौरेयेति सोपहासम्। कुमताभ्युपगमात्त्वय्येतादृशी कुदृष्टिर्न संभवतीति सानुकम्पं वा। एवंअहो बत महत्पापं कर्तुं व्यवसिता वयम् इत्यादि यथा शोचसि एवं प्रकारमनुशोकं कर्तुं स्वयमपि त्वं तादृश एव सन्नार्हसि योग्यो न भवसि क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्मविनाशपक्षे च जन्मान्तराभावेन पापभयासंभवात् पापभयेनैव खलु त्वमनुशोचसि तच्चैतादृशे दर्शने न संभवतीत्यर्थः। क्षणिकत्वपक्षे च दृष्टमपि दुःखं न संभवति बन्धुविनाशदर्शित्वाभावादित्यधिकम्। पक्षान्तरे दृष्टदुःखनिमित्तं शोकमभ्यनुज्ञातुमेवकारः। दृष्टदुःखनिमित्तशोकसंभवेऽप्यदृष्टदुःखनिमित्तः शोकः सर्वथा नोचित इत्यर्थः प्रथमश्लोकस्य।
Sri Purushottamji
।।2.26।।एवं विद्वत्सिद्धान्तमुक्त्वाऽविद्वत्सि द्वा৷৷৷৷৷৷৷৷৷৷৷৷ न्तेनापि शोकं कर्तुं नार्हसीत्याह  अथ चेति। अथ च पक्षान्तरेण। एनं नित्यजातं तत्तद्देहेन सह जातं तस्मिन्मृते मृतं वा मन्यसे तथापि त्वं एनं शोचितुं नार्हसि। यतस्त्वं महाबाहुः।अत्रायमर्थः  नित्यस्यास्य जन्ममरणज्ञानं तु देहाध्यासेनैव भवति। तथासति स्वबाहुबलादिनाशः क्व।
Sri Shankaracharya
।।2.26।।  अथ च इति अभ्युपगमार्थः। एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो न एवं शोचितुमर्हसि जन्मवतो नाशो नाशवतो जन्मश्चेत्येताववश्यंभाविनाविति।।तथा च सति  
Sri Vallabhacharya
।।2.26।।अथेति पक्षान्तरे। लौकायतिकमते स्थित्वाऽऽत्मानं नित्यं सदा जातं मृतं मन्यसे तथापि न शोचितुमर्हसि।
← PrevNext →