Bhagavad Gita · Chapter 2 · Verse 35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।
bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ
yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam
साधक संजीवनी — स्वामी रामसुखदास
2.35।। व्याख्या-- 'भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः'-- तू ऐसा समझता है कि मैं तो केवल अपना कल्याण करनेके लिये युद्धसे उपरत हुआ हूँ; परन्तु अगर ऐसी ही बात होती और युद्धको तू पाप समझता, तो पहले ही एकान्तमें रहकर भजन-स्मरण करता और तेरी युद्धके लिये प्रवृत्ति भी नहीं होती। परन्तु तू एकान्तमें न रहकर युद्धमें प्रवृत्त हुआ है। अब अगर तू युद्धसे निवृत्त होगा तो बड़े-बड़े महारथीलोग ऐसा ही मानेंगे कि युद्धमें मारे जानेके भयसे ही अर्जुन युद्धसे निवृत्त हुआ है। अगर वह धर्मका विचार करता तो युद्धसे निवृत्त नहीं होता; क्योंकि युद्ध करना क्षत्रियका धर्म है। अतः वह मरनेके भयसे ही युद्धसे निवृत्त हो रहा है।
'येषाँ च त्वं बहुमतो भूत्वा यास्यसि लाघवम्'-- भीष्म, द्रोणाचार्य, कृपाचार्य, शल्य आदि जो बड़े-बड़े महारथी है, उनकी दृष्टिमें तू बहुमान्य हो चुका है अर्थात् उनके मनमें यह एक विश्वास है कि युद्ध करनेमें नामी शूरवीर तो अर्जुन ही है। वह युद्धमें अनेक दैत्यों, देवताओं, गन्धर्वों आदिको हरा चुका है। अगर अब तू युद्धसे निवृत्त हो जायगा, तो उन महारथियोंके सामने तू लधुता-(तुच्छता-) को प्राप्त हो जायगा अर्थात् उनकी दृष्टिमें तू गिर जायगा।
Sri Anandgiri
।।2.35।।इतश्च त्वचा युद्धं कर्तव्यमित्याह किञ्चेति। प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह भयादिति। महारथानेव विशिनष्टि येषां चेति। दुर्योधनादिभिस्तवोपहास्यतानिरसनाय संग्रामे प्रवृत्तिरवश्यंभाविनीत्यर्थः।
Sri Dhanpati
।।2.35।।न केवलमितरभूतान्येवाकीर्ति कथयिष्यन्ति किंतु महारथा अपीत्याह भयादीति। कर्णादिभयाद्युद्धान्निवृत्तं न कृपयेति चिन्तयिष्यन्ति। बहुमतो बहुभिर्गुणैर्मतो भूत्वा लघुतां यास्यसि।
Sri Madhavacharya
।।2.35।।Sri Madhvacharya did not comment on this sloka.
Sri Neelkanth
।।2.35।।अकीर्तिमेवाह भयादिति। त्वं बहुमतो भूत्वा स्वत एव अतिश्लाघ्यवृत्तः सन् लाघवं लघुभावं कातर्याख्यं येषां पुरतो यास्यसि ते महारथास्त्वां भयाद्रणादुपरतं मंस्यन्त इति योजना।
Sri Ramanujacharya
।।2.35।। येषां कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरो वैरी इति बहुमतो भूत्वा इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि। ते महारथाः त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते। शूराणां हि वैरिणां शत्रुभयाद् ऋते बन्धुस्नेहादिना युद्धाद् उपरतिः न उपपद्यते।किं च
Sri Sridhara Swami
।।2.35।।किंच भयादिति। येषां बहुगुणत्वेन त्वं पूर्वं संमतोऽभूस्त एव भयेन संग्रामात्त्वां निवृत्तं मन्येरन् ततश्च पूर्वं बहुमतो भूत्वा लाघवं यास्यसि।
Sri Vedantadeshikacharya Venkatanatha
।।2.35।।एवं धर्माधर्मभ्रमो निवारितः। अथास्थानस्नेहः क्षिप्यतेभयात् इत्यादिना।बन्धुस्नेहादित्यादि। शूरस्य सतः स्नेहकारुण्याभ्यां निवृत्तस्य मे कीर्तिरेव स्यादिति भावः। येषामित्यतिप्रसिद्धपरामर्शात् कर्णदुर्योधनादीनामित्युक्तम्। तेनापकारवर्गं स्मारयति। यद्यपि भीष्मादयो याथार्थ्यं जानीयुः तथापि कर्णादयो न तथेति भावः।भूत्वा इत्यस्य यास्यसीत्युत्तरक्रियैकरस्येनस्नात्वा होष्यामि इत्यादिष्विव क्रियापेक्षया पूर्वेणापि भविष्यता कालेन सम्बन्धभ्रमव्युदासायोक्तंपूर्वमिति। बहुभिर्गुणैर्बहुत्वेन मतो हि बहुमत इत्यभिप्रायेणाह शूरो वैरीति। यदि शूरस्त्वं प्रागपि निर्वैरः यदि च वैरी त्वं शौर्यरहितः तदा महारथा न त्वां गणयेयुरिति भावः। तत्क्षणावधि वैरानुवृत्तिसूचनायोक्तंइदानीमिति। लाघवफलं सुग्रहतालाघवशब्देनोपचरिता। सुग्रहत्वं चात्र सुग्रहत्वाभिमानविषयत्वम् बन्धुस्नेहादित्याद्युक्तां शङ्कां निराकरोतिशूराणां हीति। यदि शूरत्ववैरित्वयोरन्यतरन्न स्यात् तदो युज्येताप्यन्यथा सिद्धिरिति भावः।
Sri Abhinavgupta
।।2.34 2.38।।यद्भयाच्च भवान् युद्धात् निवर्तते (K निवर्तेत) तदेव शतशाखमुपनिपतिष्यति भवत इत्याह अथ चेत्यादि। श्लोकपञ्चकमिदम् अभ्युपगम्यवादरूपमुच्यते ( N उपगम्य) यदि लौकिकेन व्यवहारेणास्ते भवान् तथाप्यवश्यानुष्ठेयमेतत्।
Sri Jayatritha
।।2.35।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।2.35।।ननूदासीना मां निन्दन्तु नाम भीष्मद्रोणादयस्तु महारथाः कारुणिकत्वेन स्तोष्यन्ति मामित्यत आह कर्णादिभ्यो भयाद्युद्धान्निवृत्तं न कृपयेति त्वां मंस्यन्ते भीष्मद्रोणदुर्योधनादयो महारथाः। ननु ते मां बहुमन्यमानाः कथं भीतं मंस्यन्त इत्यत आह येषामेव भीष्मादीनां त्वं बहुमतो बहुभिर्गुणैर्युक्तोऽयमर्जुन इत्येवं मतस्त एव त्वां महारथा भयादुपरतं मंस्यन्त इत्यन्वयः। अतो भूत्वा युद्धादुपरत इति शेषः। लाघवमनादरविषयत्वं यास्यसि प्राप्स्यसि। सर्वेषामिति शेषः। येषामेव त्वं प्राग्बहुमतोऽभूस्तेषामेव तादृशो भूत्वा लाघवं यास्यसीति वा।
Sri Purushottamji
।।2.35।।ननु पूर्वं ये दृष्टमत्पौरुषास्ते तु न तथा कथयिष्यन्ति किन्त्वज्ञा एव तेषां कथनेऽपि किं स्यादित्यत आह भयादिति। ये महारथास्ते त्वां रणाद्भयादुपरतं निवृत्तं मंस्यन्ते। ननु मम भयाभावात्तेषां माननेऽपि किं भविष्यतीत्यत आह येषां च त्वमिति सार्द्धेन। त्वं येषां बहुमतः सम्भावितगुण आसीस्तादृशो भूत्वा लाघवं यास्यसि।
Sri Shankaracharya
।।2.35।। भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः। येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः भूत्वा पुनः यास्यसि लाघवं लघुभावम्।।किञ्च
Sri Vallabhacharya
।।2.35।।यद्यपि त्वं स्वबन्धुहिंसादोषभिया न युद्धमङ्गीकरोषि तथाप्येते तु नैवं जानन्तीत्याह भयात् रणादुपरतमिति। महारथा एते एवमजानन्तस्त्वां मरणभयाद्रणादुपरतं मंस्यते एवं च लाघवं प्राप्स्यसि।