Bhagavad Gita · Chapter 4 · Verse 31

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतो़ऽन्यः कुरुसत्तम।।4.31।।
yajña-śhiṣhṭāmṛita-bhujo yānti brahma sanātanam nāyaṁ loko ’styayajñasya kuto ’nyaḥ kuru-sattama
साधक संजीवनी — स्वामी रामसुखदास
 4.31।। व्याख्या--'यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्'--यज्ञ करनेसे अर्थात् निष्कामभावपूर्वक दूसरोंको सुख पहुँचानेसे समताका अनुभव हो जाना ही 'यज्ञशिष्ट अमृत' का अनुभव करना है। अमृत अर्थात् अमरताका अनुभव करनेवाले सनातन परब्रह्म परमात्माको प्राप्त हो जाते हैं ( गीता 3। 13)।स्वरूपसे मनुष्य अमर है। मरनेवाली वस्तुओंके सङ्गसे ही मनुष्यको मृत्युका अनुभव होता है। इन वस्तुओंको संसारके हितमें लगानेसे जब मनुष्य असङ्ग हो जाता है, तब उसे स्वतःसिद्ध अमरताका अनुभव हो जाता है। कर्तव्यमात्र केवल कर्तव्य समझकर किया जाय, तो वह यज्ञ हो जाता है। केवल दूसरोंके हितके लिये किया जानेवाला कर्म ही कर्तव्य होता है। जो कर्म अपने लिये किया जाता है वह कर्तव्य नहीं होता, प्रत्युत कर्ममात्र होता है, जिससे मनुष्य बँधता है। इसलिये यज्ञमें देना-ही-देना होता है, लेना केवल निर्वाहमात्रके लिये होता है (गीता 4। 21)। शरीर यज्ञ करनेके लिये समर्थ रहे--इस दृष्टिसे शरीर-निर्वाहमात्रके लिये वस्तुओंका उपयोग करना भी यज्ञके अन्तर्गत है। मनुष्य-शरीर यज्ञके लिये ही है। उसे मान-बड़ाई, सुख-आराम आदिमें लगाना बन्धनकारक है। केवल यज्ञके लिये कर्म करनेसे मनुष्य बन्धनरहित (मुक्त) हो जाता है और उसे सनातन ब्रह्मकी प्राप्ति हो जाती है।
Sri Anandgiri
।।4.31।।यथोक्तयज्ञनिर्वर्तनानन्तरं क्षीणे कल्मषे किं स्यादित्याशङ्क्याह एवमिति। यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेनाविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति नायमिति। कथं यथोक्तयज्ञानुष्ठायिनामवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिरित्याशङ्क्य मुमुक्षुत्वे सति चित्तशुद्धिद्वारेत्याह मुमुक्षवश्चेदिति। तत्किमिदानीं साक्षादेव मोक्षो विवक्षितः तथाच गतिश्रुतिविरोधः स्यादित्याशङ्क्य गतिनिर्देशसामर्थ्यात्क्रममुक्तिरत्राभिप्रेतेत्याह कालातीति। तृतीयं पादं व्याचष्टे नायमिति। विवक्षितं कैमुतिकन्यायमाह कुत इति। साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिर्दूरनिरस्तेत्यर्थः। यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुलप्रधानस्यार्जुनस्यानायासलभ्यमिति वक्तुं कुरुसत्तमेत्युक्तम्।
Sri Dhanpati
।।4.31।। एवं यथोक्तान्यज्ञान्निर्वर्त्य तच्छिष्टेन कालेन यथाविधिचोदितमन्नं अमृताख्यं भूञ्जत इति यज्ञशिष्टामृतभुजः। यत्त्वन्ये सर्वेषामप्येतेषां मध्येऽन्यतममप्यनुष्ठातुमशक्यं प्रति प्राह यञ्जेति। यज्ञाः पञ्चमहायज्ञास्तेभ्यः शिष्टमवशिष्टमन्नममृताख्यं ये भुञ्जत इत्यादि तच्चिन्त्यम्। श्रुतहानेरश्रुतकल्पनायाश्चान्याय्यत्वात्। पञ्चयज्ञानामपि दैवादिश्रौतस्मार्तयज्ञेष्वन्तर्भावाच्च। ब्रह्म सनातनं मोक्षाख्यं यान्ति। यथोक्तानां यज्ञानामेकोऽपि यज्ञो यस्य नास्ति सोऽयज्ञः तस्यायं लोकः सर्वप्राणिसाधारणोऽपि नास्ति। शुद्धचितेन श्रवणादिविशिष्टसाधनलभ्योऽन्यः सर्वलोकातीत आत्मस्वरुपस्तस्य कुतः। कुरुसत्तमेति संबोधयन् कुरवोऽपि यज्ञविद आसन् त्वं तु तेषु सत्तमः श्रेष्ठोऽतः त्वया यज्ञवित्त्वमवश्यं संपादनीयमिति सूचयति।
Sri Madhavacharya
।।4.30 4.31।।नियताहारत्वेनैव प्राणशोषात्प्राणान् प्राणेषु जुह्वति। यच्छेद्वाङ्मनसी प्राज्ञः कठ.3।13 इत्यादिश्रुत्युक्तप्रकारेण वा। अन्यदपि ग्रन्थान्तरे सिद्धम्।यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः इति।
Sri Neelkanth
।।4.31।।सर्वेषामेतेषां मध्येऽन्यतममप्यनुष्ठातुमशक्तं प्रति प्राह यज्ञेति। यज्ञाः पञ्चमहायज्ञास्तेभ्यः शिष्टमवशिष्टमन्नममृताख्यं ये भुञ्जते तेऽपि चित्तशुद्धिद्वारा सनातनं ब्रह्म यान्ति प्राप्नुवन्ति। अयज्ञस्य पूर्वोक्तेषु द्वादशस्वन्यतमो वा नित्याः पञ्च वा यस्य यज्ञा न सन्ति सोऽयज्ञस्तस्यायमपि लोको नास्ति अन्यः परलोक आत्मलोको वा कुतो भवेत्। न कुतश्चिदित्यर्थः।
Sri Ramanujacharya
।।4.31।।यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोगे व्यापृताः सनातनं च ब्रह्म यान्ति। अयज्ञस्य महायज्ञादिपूर्वकनित्यनैमित्तिककर्मरहितस्य न अयं लोकः न प्राकृतलोकः प्राकृतलोकसम्बन्धिधर्मार्थकामाख्यः पुरुषार्थः न सिध्यति कुतः इतः अन्यः मोक्षाख्यः पुरुषार्थः। परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात् तदितरपुरुषार्थःअयं लोकः इति निर्दिश्यते स हि प्राकृतः।
Sri Sridhara Swami
।।4.31।।यज्ञशिष्टेति। यज्ञान्कृत्वाऽवशिष्टे कालेऽनिषिद्धमन्नममृतरूपं भुञ्जत इति तथा ते सनातनं ब्रह्म ज्ञानद्वारेण प्राप्नुवन्ति। तदकरणे दोषमाह नायं लोक इति। अयमल्पसुखोऽपि मनुष्यलोकोऽयज्ञस्य यज्ञानुष्ठानशून्यस्य नास्ति। कुतोऽन्यः परलोकः। अतो यज्ञाः सर्वथा कर्तव्या इत्यर्थः।
Sri Vedantadeshikacharya Venkatanatha
।।4.31।।कर्मयोगावान्तरभेदनिष्ठत्वाभिमानेन सामान्यधर्मभूतनित्यनैमित्तिकादिपरित्यागिनः सकलपुरुषार्थानर्हतोच्यतेनायमित्यर्धेन।अयज्ञस्येति व्याख्येयं पदम्।नायं लोकः इत्यत्रायमिति निर्देशाभिप्रेतं दर्शयतिन प्राकृतलोक इति। लोकस्वरूपमात्रनिषेधभ्रमव्युदासायाहप्राकृतलोकसम्बन्धीति।अयं लोकः इति प्रत्यक्षसिद्धभूलोकपरत्वौचित्यात्कुतोऽन्यः इतीदं स्वर्गादिपरं किं न स्यात् इत्याशङ्क्याहपरमपुरुषार्थतयेति। अयज्ञस्य मोक्षाभावे प्रतिपादिते हि तदर्थं तदुपादानं स्यादिति भावः। मोक्षव्यतिरिक्तदृष्टानुश्रविकपुरुषार्थवर्गत्रयस्यायं लोक इति निर्देशहेतुभूतसाधारणोपाधिं प्रस्तुतपरमपुरुषार्थविरुद्धरूपत्वं च व्यञ्जयितुमाह स हि प्राकृत इति। प्रकृतिपरिणामविशेषरूपत्वात् तत्संसृष्टस्य प्राप्यत्वाच्च प्राकृतत्वोक्तिः।
Sri Abhinavgupta
।।4.31।।यज्ञेति। यज्ञेन शिष्टम् आहृतं यज्ञाच्च ( N यज्ञाश्च) निजकरणतर्पणरूपादवशिष्टं वा स्वात्मविश्रान्तिरूपं परानन्द ( N परानन्दं) निरानन्दात्मकममृतमुपभुञ्जाना अपि ( N भुञ्जाना इति यथेच्छम्) यथेच्छं संसृज्यन्ते ब्रह्मतयेति। तदुपरम्यते अतिरहस्यस्फुटप्रकटनवाचालतायाः।अत्र बहुतरो रहस्यरसः अन्तःसंलीनीकृतोऽपि निबिडतरभक्तिसेवासम्प्रसादितगुरुचरण (S N गुरुवचनसं ) संप्राप्तसंप्रदायमहौषधसमीकृतधातूनां चर्वणादिविषयतां भूतार्थास्वादहेतुतां च प्रतिपद्यते ( प्रतिपाद्यते)।अत्र व्याख्यान्तराणि टीकाकारैः प्रदर्शितानि। तानि अस्मद्गुरुपादनिरुक्तानि च स्वयमेव सचेतसः संप्रधार्यन्तामितिं किमन्येन ( omits किमन्येन) हन्त व्याख्यातृवचनदूषणाविनोदनेन। तदुपक्रान्तमेवोपक्रम्यते (S पगम्यते)।
Sri Jayatritha
।।4.30 4.31।।अपरे नियत इत्यत्र प्राणानां प्राणेषु कीदृशो होमः नियताहारत्वस्य कथं तत्रोपयोगः इत्यत आह नियतेति। प्राणशोषादिन्द्रियवृत्तीनां वृत्तिमत्त्विन्द्रियेषु सङ्कोचाज्जुह्वतीत्युच्यत इति शेषः। एवशब्देन श्रोत्रादीनीत्यतो भेदं दर्शयति। तत्र प्रत्याहारेणात्र नियताहारत्वेनेति। प्राणनित्यादिकं प्रकारान्तरेण व्याचष्टे यच्छेदिति। वाग्वाचं मनसि यच्छेत्। तन्नियतां ध्यायेत् अवराणामिन्द्रियदेवतानां उत्तमेन्द्रियदेवतानियतत्वचिन्तनं प्रकारार्थः। वा प्राणानां प्राणेषु होम इति शेषः। अस्मिन्पक्षे नियताहार इति पृथक् यज्ञो ज्ञातव्यः। इदमेवास्तु व्याख्यानं श्रौतत्वात्किं पूर्वेणेत्यत आह अन्यदपीति।
Sri Madhusudan Saraswati
।।4.31।।एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाहार्धेन उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्यायमल्पसुखोऽपि मनुष्यलोको नास्ति सर्वनिन्द्यत्वात् कुतोऽन्यो विशिष्टसाधनसाध्यः परलोकः हे कुरुसत्तम।
Sri Purushottamji
।।4.31।।एवं यज्ञैर्निष्कल्मषा भूत्वा मत्स्मरणादिना ब्रह्म प्राप्नुवन्तीत्याह यज्ञशिष्टेति। यज्ञशिष्टामृतभुजः यज्ञे शिष्टमवशिष्टं यदमृतं मत्स्मरणरूपं तद्भुजस्तद्भोगकर्तारः सनातनं ब्रह्म अक्षरात्मकं यान्ति प्राप्नुवन्ति। अत एवयस्य स्मृत्या इत्यादिना भगवत्स्मरणेनैव कर्मादीनां पूर्णत्वम्। एवं यज्ञकर्तृ़णामक्षरप्राप्तिमुक्त्वा तदकर्तृ़णां बाधकमाह नायमिति। हे कुरुसत्तम सत्कुलोत्पन्न अयज्ञस्यमद्विभूतिरूपमदाज्ञादिरूपयज्ञरहितस्यायं लोको नास्ति। अस्मिन्नपि लोके निन्दितः सन् तदा अन्यः अक्षरात्मकः कुतः प्राप्यः इति शेषः।
Sri Shankaracharya
।।4.31।। यज्ञशिष्टामृतभुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तत् अमृतं च यज्ञशिष्टामृतं तत् भुञ्जते इति यज्ञशिष्टामृतभुजः। यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत् कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते। न अयं लोकः सर्वप्राणिसाधारणोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि यज्ञः यस्य नास्ति सः अयज्ञः तस्य। कुतः अन्यो विशिष्टसाधनसाध्यः कुरुसत्तम।।
Sri Vallabhacharya
।।4.30 4.31।।अपरे तु आहारतर्पणप्राणानेव (वृत्तीः) प्राणेषु विलापयन्ति इति संयताहाराः। अन्यथौदरीयसर्वभागपूरणे रोधो योगश्च न स्यात्। तदर्थं प्रारीप्सूनामाहारो नियन्तव्य एव। एते सर्वे यज्ञविदस्तेन च निष्कलमषाः स्वाधिकारागतं यज्ञशिष्टममृतं च भुञ्जत इति तथा ते सर्वे सनातनं नित्यं ब्रह्म साक्षात् परम्परया च यान्ति। तदकरणे दोषदर्शनेन व्यतिरेचयति नायमिति। अयमल्पानन्दोऽपि लोको देहो वाऽयज्ञस्य न भवति ततोऽन्यो दिव्यस्तु कुतः इति कर्त्तव्यता बोधिता। अपरं च दर्शनप्रकारः प्रसङ्गादुक्तः। ब्रह्मज्ञानिनाऽपि सर्वसन्न्यासतो ब्रह्मयज्ञाभिधः क्रियते इतिन हि कश्चित्क्षणमपि जातु तिष्ठति 3।5 इति समर्थितम्।