← Chapter 4

Chapter 4, Verse 7

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।।4.7।।

yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛijāmyaham

Word meanings: yadā yadā—whenever; hi—certainly; dharmasya—of righteousness; glāniḥ—decline; bhavati—is; bhārata—Arjun, descendant of Bharat; abhyutthānam—increase; adharmasya—of unrighteousness; tadā—at that time; ātmānam—self; sṛijāmi—manifest; aham—I

Shri Purohit Swami

Whenever spirituality decays and materialism is rampant, then, O Arjuna, I reincarnate myself.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।4.7।।यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं तस्य प्रश्नपूर्वकं कालं कथयति  तच्चेत्यादिना। चातुर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि  वर्णेति। वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते ज्ञायते धर्मस्तस्येति यावत्। धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह   प्राणिनामिति। नच यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह  भारतेति। न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुरपि तु तेषामधर्मप्रवृत्तिरपीत्याह  अभ्युत्थानमिति। यदा यदेति पूर्वेण संबन्धः।
Sri Dhanpati
।।4.7।।एवं सर्वज्ञः सर्वेश्वरोऽशरीरी त्वं कदा किमर्थं देहवानिव जात इव प्रतीयस इत्यत आह  यदेति। ग्लानिर्हानिः। अभ्युत्थानं वृद्धिः। भरतवंशोद्भवत्वेन धर्महानिं कर्तुमयोग्योऽसीति सूचयन्नाह  भारतेति। त्वमपि धर्मसंस्थापनायैभरतवंशेऽवतीर्णोऽसीति गूढाभिप्रायेण वा संबोधयति भारतेति। मायया आत्मानं स्वं सृजामि जन्मवन्तमिव प्रदर्शयामि। आत्मानं देहं सृजामि नित्यसिद्धमेव सृष्टमिव प्रदर्शयामीति केचित्। तन्न। परमेश्वरस्य देहः किं तस्मादन्य उतानन्यः। नाद्यः। तस्यासत्त्वाद्यापत्त्या सच्चिदादिरुपत्वस्वीकारविरोधात्। द्वितीयेऽपि स देहः किं परिच्छिन्न उतापरिच्छिन्नः। आद्ये ईश्वरस्य नित्यमेव परिच्छिन्नत्वं स्यात्। तथाच देहस्य नित्यसिद्धत्वं वदद्भिः परमेश्वरस्यासत्त्वसंपादनेन मूलोच्छेद एव संपादितः। न द्वितीयः। अपरिच्छिन्नः पुनरवयवसमूहः परिमिताकारो देह इति वदतो व्याघातात्। 
Sri Madhavacharya
।।4.7।।Sri Madhvacharya did not comment on this sloka. 
Sri Neelkanth
।।4.7।।कदा संभवसीत्यपेक्षायमाह  यदेति। ग्लानिर्ह्रासः। अभ्युत्थानं वृद्धिः।
Sri Ramanujacharya
।।4.7।।न कालनियमः अस्मत्संभवस्य यदा यदा हि धर्मस्य वेदेन उदितस्य चातुर्वर्ण्यचातुराश्रम्यव्यवस्थया अवस्थितस्य कर्तव्यस्य ग्लानिः भवति यदा यदा च तद्विपर्ययस्य अधर्मस्य अभ्युत्थानं तदा अहम् एव स्वसंकल्पेन उक्तप्रकारेण आत्मानं सृजामि।जन्मनः प्रयोजनम् आह  
Sri Sridhara Swami
।।4.7।।कदा संभवसीत्यपेक्षायामाह  यदा यदेति। धर्मस्य ग्लानिर्हानिः। अधर्मस्याभ्युत्थानमाधिक्यम्।
Sri Vedantadeshikacharya Venkatanatha
।।4.7।।कदा इति प्रश्नस्योत्तरमुच्यत इत्याह  जन्मकालमाहेति। युगानियमस्य वक्ष्यमाणत्वात्यदा यदा इति वीप्सा युगान्तर्वर्तिकालानियमपरेत्यभिप्रायेणाह  न कालेति। जीववत्पुण्यापुण्यविपाककृतो वा व्यवस्थितस्वसङ्कल्पकृतो वा मन्वन्तरमहाकल्पादिरूपो वा कालनियमो नास्तीत्यर्थः। प्रमाणतः स्वरूपतश्च ग्लानिप्रकारसूचनाय बाह्यधर्मधर्मैकदेशव्यवच्छेदाय चवेदेनोदितस्येत्यादिविशेषणम्।वेदेनोदितस्य कर्तव्यस्य इति धर्मलक्षणमप्युक्तं भवति। अधर्मशब्दे नञो विरोधिविषयत्वमभिप्रेत्योक्तंतद्विपर्ययस्येति। ततश्चावैदिकागमोदितस्य वर्णाश्रमादिव्यवस्थारहितस्य तत एवाकर्तव्यस्येति पूर्वोक्तप्रकारवैपरीत्यं फलितम्। धर्मग्लानेरधर्मोत्थानस्य च तुलाग्रनमनोन्नमनवत्परस्पराविनाभावित्वं च दर्शितम्। तदेत्यत्रापियदायदा इत्येतत्प्रतिनिर्देशरूपत्वाद्वीप्साऽनुसन्धेया। धर्मस्य ग्लानिमपि न सहे किं पुनर्विच्छेदं इति ग्लानिशब्दतात्पर्यम्। एवमधर्मस्योद्गममात्रमपि न सहे किमुत शाखानुशाखतां इत्यभ्युत्थानशब्दाभिप्रेतम्।अहं सृजामि इत्यत्रापेक्षणीयान्तरादर्शनात्अहमेव स्वसङ्कल्पेनेत्युक्तम्। तेन कालस्याप्यधिष्ठातुस्तस्य कालपरतन्त्रत्वं परिहृतं भवति।आत्मानं सृजामि इत्येतन्न तावत्स्वरूपविषयं तस्य नित्यत्वात् आत्माश्रयादिप्रसङ्गाच्च। नापि जीवविषयं तस्य प्रकरणासङ्गतत्वात्। नाप्याद्यविग्रहविशिष्टस्वात्मविषयं तस्यापि रूपस्य नित्यत्वात् अतोऽवतारविग्रहविशिष्टस्वात्माऽत्रआत्मानम् इति निर्दिश्यत इत्यभिप्रायेणोक्तंउक्तप्रकारेणेति।
Sri Abhinavgupta
।।4.5  4.9।।बहूनि इत्यादि अर्जुन इत्यन्तम्।  श्रीभगवान् किल पूर्णषाड्गुण्यत्वात् शरीरसंपर्कमात्ररहितोऽपि स्थितिकारित्वात् कारुणिकतया आत्मांशं सृजति।  आत्मा पूर्णषाड्गुण्यः अंशः उपकारकत्वेन अप्रधानभूतो ( N omit अ) यत्र तत् आत्मांशं शरीरं गृह्णाति इत्यर्थः।  अत एवास्य जन्म दिव्यम् यत आत्ममायया योगप्रज्ञया स्वस्वातन्त्रयशक्त्या ( omits स्व) आरब्धम् न कर्मभिः।  कर्मापि दिव्यम् फलदानासमर्थत्वात्।  यश्चैवमेतत्तत्त्वं वेत्ति आत्मन्यप्येवमेव मन्यते सोऽवश्यं भगवद्वासुदेवतत्त्वं जानाति।
Sri Jayatritha
।।4.7।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।4.7।।एवं सच्चिदानन्दघनस्य तव कदा किमर्थं वा देहिवद्व्यवहार इति तत्रोच्यते  धर्मस्य वेदविहितस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य प्रवृत्तिनिवृत्तिलक्षणस्य वर्णाश्रमतदाचारव्यंग्यस्य यदा यदा ग्लानिर्हानिर्भवति हे भारत भरतवंशोद्भवत्वेन भा ज्ञानं तत्र रतत्वेन वा त्वं न धर्महानिं सोढुं शक्नोषीति संबोधनार्थः। एंव यदा यदाभ्युत्थानमुद्भवोऽधर्मस्य वेदनिषिद्धस्य नानाविधदुःखसाधनस्य धर्मविरोधिनः तदा तदात्मानं देहं सृजामि नित्यसिद्धमेव सृष्टमेव दर्शयामि मायया।
Sri Purushottamji
।।4.7।।एतदेव प्रकटयति  यदा यदेति। हे भारत यदा यदा धर्मस्य मद्भक्त्यादिरूपस्य ग्लानिः सङ्कोचो भवति। अधर्मस्य ज्ञानादिनाशकस्याभ्युत्थानमुत्पत्तिर्भवति। हीति निश्चयेन। तदा आत्मानं लीलोपयोग्या़ञ्जीवान् ज्ञानोपयोग्याँश्चाहं सृजामि। भारतेति सम्बोधनाद्यथेदानीं धर्मरक्षार्थं त्वं सृष्टोऽसीति ज्ञाप्यते।आत्मानं इत्यत्रैकवचनं मुख्यात्माभिप्रायेण वा।
Sri Shankaracharya
।।4.7।। यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत अभ्युत्थानम् उद्भवः अधर्मस्य तदा तदा आत्मानं सृजामि अहं मायया।।किमर्थम् 
Sri Vallabhacharya
।।4.7  4.8।।कदा किमर्थं सम्भवसीत्यपेक्षायां स्वप्रादुर्भावकालमाह  द्वाभ्याम्  यदा यदा हीति। परित्राणायेति। साधूनां धर्मवतां परित्राणाय तत्प्रतिपक्षाणां दुष्कृतां दुष्टं कर्म कुर्वतां विनाशाय च युगेयुगे सम्भवामि। न चात्रावतारकालनियम इत्येतदर्थं यदा यदा युगेयुगे इत्युक्तम् नचैवं दुष्टनिग्रहं कुर्वतोऽपि वैषम्यं शङ्कनीयं यथा चोक्तं  लालने ताडने मातुर्नाकारुण्यं यथाऽर्मके। तद्वदेव महेशस्य नियन्तुर्गुणदोषयोः इति।
← PrevNext →