Bhagavad Gita · Chapter 7 · Verse 22

स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान्मयैव विहितान् हि तान्।।7.22।।
sa tayā śhraddhayā yuktas tasyārādhanam īhate labhate cha tataḥ kāmān mayaiva vihitān hi tān
साधक संजीवनी — स्वामी रामसुखदास
।।7.22।। व्याख्या--स तया श्रद्धया युक्तः ৷৷. मयैव विहितान्हि तान् मेरे द्वारा दृढ़ की हुई श्रद्धासे सम्पन्न हुआ वह मनुष्य उस देवताकी आराधनाकी चेष्टा करता है और उस देवतासे जिस कामनापूर्तिकी आशा रखता है, उस कामनाकी पूर्ति होती है। यद्यपि वास्तवमें उस कामनाकी पूर्ति मेरे द्वारा ही की हुई होती है; परन्तु वह उसको देवतासे ही पूरी की हुई मानता है। वास्तवमें देवताओंमें मेरी ही शक्ति है और मेरे ही विधानसे वे उनकी कामनापूर्ति करते हैं। जैसे सरकारी अफसरोंको एक सीमित अधिकार दिया जाता है कि तुमलोग अमुक विभागमें अमुक अवसरपर इतना खर्च कर सकते हो, इतना इनाम दे सकते हो। ऐसे ही देवताओंमें एक सीमातक ही देनेकी शक्ति होती है; अतः वे उतना ही दे सकते हैं, अधिक नहीं। देवताओंमें अधिक-से-अधिक इतनी शक्ति होती है कि वे अपने-अपने उपासकोंको अपने-अपने लोकोंमें ले जा सकते हैं। परन्तु अपनी उपासनाका फल भोगनेपर उनको वहाँसे लौटकर पुनः संसारमें आना पड़ता है (गीता 8। 16)।यहाँ 'मयैव'कहनेका तात्पर्य है कि संसारमें स्वतः जो कुछ संचालन हो रहा है, वह सब मेरा ही किया हुआ है। अतः जिस किसीको जो कुछ मिलता है, वह सब मेरे द्वारा विधान किया हुआ ही मिलता है। कारण कि मेरे सिवाय विधान करनेवाला दूसरा कोई नहीं है। अगर कोई मनुष्य इस रहस्यको समझ ले, तो फिर वह केवल मेरी तरफ ही खिंचेगा। 
Sri Anandgiri
।।7.22।।ईहते निर्वर्तयतीत्यर्थः। आराधितदेवताप्रसादात्फलप्राप्तौ किमीश्वरेणेत्याशङ्क्य तस्य सर्वज्ञस्य कर्मफलविभागाभिज्ञस्य तत्तद्देवताधिष्ठातृत्वात्तस्यैव फलदातृत्वमित्याह सर्वज्ञेनेति।एको बहूनां यो विदधाति कामान् इत्यादिश्रुतिमाश्रित्य हि तानिति पदद्वयं व्याचष्टे यस्मादिति। हितानित्येकं पदमिति पक्षं प्रत्याह हितानिति। मुख्यत्वसंभवे किमित्यौपचारिकत्वमित्याशङ्क्याह नहीति।
Sri Dhanpati
।।7.22।।यो यां देवतातनुं अर्चितुमिच्छति स तया मद्विहितयाऽचलया श्रद्धया युक्तः तस्या देवतातन्वा राधनं आराधनमर्जनमीहते चेष्टते करोति। ततस्तस्या आराधितायाः देवतातन्वाः सकाशादवश्यं कामानीप्सितान् लभते च। हि यस्मान्मया कर्मफलविभागज्ञेन भगवता विहिताः निर्मिताः। अतस्तान् हि स्फुटमेतदिति तु तत्तद्देवतास्वातन्ज्ञत्र्यप्रतिपादकशास्त्रे लोके चास्यास्फुटत्वादाचार्यैर्न व्याख्यातम्। हितानिति पदच्छेदे तु वस्तुतोऽहितानां कामानां हितत्वमौपचारिकं कल्पनीयम्।
Sri Madhavacharya
।।7.21 7.22।।यां यां ब्रह्मादिरूपां तनुम्। उक्तं च नारदीयेअन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता इति।मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः म.भा.12।334।3 इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु।अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते त्यादेश्च ब्रह्मवैवर्ते।
Sri Neelkanth
।।7.22।।ततश्च स तया श्रद्धया युक्तः सन् तस्या मूर्तेराराधनं ससाधनं वशीकरणमीहते इच्छति। ततश्च कामान्विषयांल्लभते। मयैव विहितानाज्ञापितान्। हितानीप्सितान्। एतेन सर्वासां देवतानां स्वाज्ञावशवर्तित्वं दर्शितम्।
Sri Ramanujacharya
।।7.22।।स तया निर्विघ्नया श्रद्धया युक्तः तस्य इन्द्रादेः आराधनं प्रति ईहते चेष्टते ततः मत्तनुभूतेन्द्रादिदेवताराधनात् तान् एव हि स्वाभिलषितान् कामान् मया एव विहितान् लभते।यद्यपि आराधनकाले इन्द्रादयो मदीयाः तनवः तत एव तदर्चनं च मदाराधनम् इति न जानाति तथापि तस्य वस्तुतो मदाराधनत्वाद् आराधकाभिलषितम् अहम् एव विदधामि।
Sri Sridhara Swami
।।7.22।। ततश्च स तयेति। स भक्तस्तया दृढया श्रद्धया तस्यास्तनोराराधनमीहते करोति। ततश्च ये संकल्पिताः कामास्तान्कामान् ततो देवताविशेषाल्लभते किंतु मयैव तत्तद्देवतान्तर्यामिणा विहितान्निर्मितान् हि स्फुटमेव तत्तद्देवतानामपि मदधीनत्वान्मममूर्तित्वाच्चेत्यर्थः।
Sri Vedantadeshikacharya Venkatanatha
।।7.22।।स तया इति श्लोकेऽपि पूर्ववद्वीप्सा भाव्या।तया इत्यस्य प्रस्तुतोपयुक्ताकारपरामर्शित्वज्ञापनायनिर्विघ्नयेत्युक्तम्। स्त्रीलिङ्गेन देवताशब्देन तनुशब्देन च पूर्वनिर्देशेऽपितस्य इति पुँल्लिङ्गेन बुद्धिस्थतत्तद्देवपरः।देवान्देवयजो यान्ति 7।23 इति ह्यनन्तरमुच्यत इत्यभिप्रायेण तस्येन्द्रादेरित्युक्तम्। यद्यपितस्याः इति पदच्छेदः शक्यः तथापिराधनं इत्यस्योपसर्गरहितस्य आराधने प्रसिद्ध्यभावात्तदनादरः। यद्वा फलितोक्तिरियंराधनं इत्येव पदच्छेदः।तत इति व्याख्येयनिर्देशः। तद्व्याख्यानंमत्तनुभूतेन्द्रादिदेवताराधनादिति।अयमभिप्रायः ततः इत्यस्येन्द्रादिपरत्वं मन्दम्मयैव विहितान् इति स्वस्यैव फलदातृत्ववचनात्। ततस्तन्निमित्तमेवात्रापेक्षितम्। अतःतस्याराधनमीहते इति प्रधानतया प्रस्तुतपरामर्श एवायमिति।हि तान् इत्यत्र हीत्यव्ययम्। सर्वत्र च तच्छब्दनिर्देशात्कामान् इत्यत्रापितान् इति विशेषणमुचितम् भगवतः समस्ताभिलषितदायित्वसूचनादपेक्षितं च। हितत्ववचनं च प्रकरणविरुद्धम्।अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् 7।23 इति तन्निन्दाप्रवृत्तत्वादित्यभिप्रायेणोक्तंतानेव ही स्वाभिलषितानिति। त्वद्विषयज्ञानहीनस्थ त्वया फलदानं कथं इत्यत्रमयैव इत्यवधारणाभिप्रेतमाहयद्यपीति। एतदप्यत्र स्मारितं यद्यपीत्यवधारणार्थमाह मदाराधनत्वादितिअहं हि सर्वयज्ञानां 9।24 इत्येतदत्र भाव्यम्। इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः म.ना.1।6 इति च श्रुतिः।
Sri Abhinavgupta
।।7.20 7.23।।कामैरित्यादि मामपीत्यन्तम्। ये पुनः स्वेन स्वेनोत्तमादिकामनास्वभावेन विचित्रेण परिच्छिन्नमनसस्ते कामनापहृतचेतनाः (N चेतस)) तत्समुचितामेव ममैवावान्तरतनुं देवताविशेषमुपासते। अतो मत एव कामफलमुपाददते (S पासते)। किं तु तस्यान्तोऽस्ति निजयैव वासनया परिमितीकृतत्त्वात्। अत एवेन्द्रादिभावनातात्पर्येण यागादि कुर्वन्तस्तथाविधमेव फलमुपाददते। मत्प्राप्तिपरास्तु मामेव।
Sri Jayatritha
।।7.21 7.22।।रामकृष्णादिरूपां भगवत्तनुमिति प्रतीतिनिरासायाह यां यामिति। कुत एतत्अन्तवत्तु फलं तेषां 7।23 इति तद्भक्तानामन्तवत्फलवचनात्। तस्य च ब्रह्मादिग्रहणे सम्भवाद्भगवद्ग्रहणे चाम्सम्भवादिति भावेनाह उक्त चेति। फलस्येति शेषः। गम्यत इति गतिः इत्यादेः प्रश्नस्य परिहाररूपवाक्यसन्दर्भाच्च। बहुत्वादनुदाहरणमिति भावः। अनन्तफलत्वं मूलरूपभक्तानामस्तु अवतारतनुभक्तानामन्तवत्फलाङ्गीकारे को विरोधः इत्यत आह अवतार इति। कुत्र चावतारे।
Sri Madhusudan Saraswati
।।7.22।।स कामी तया मद्विहितया स्थिरया श्रद्धया युक्तस्तस्या देवतातन्वा राधनं पूजनमीहते निर्वर्तयति। उपसर्गरहितोऽपि राधयतिः पूजार्थः। सोपसर्गत्वे ह्याकारः श्रुयेत। लभते च ततस्तस्या देवतातन्वाः सकाशात्कामानीप्सितांस्तान्पूर्वसंकल्पितान्।हि प्रसिद्धम्। मयैव सर्वज्ञेन सर्वकर्मफलदायिना तत्तद्देवतान्तर्यामिणा विहितांस्तत्तत्फलविपाकसमये निर्मितान् हितान्मनःप्रियानित्यैकपद्यं वा। अहितत्वेऽपि हिततया प्रतीयमानानित्यर्थः।
Sri Purushottamji
।।7.22।।ततः स मत्कृतश्रद्धया तस्याऽऽराधनं करोतीत्याह स तयेति। स तया मत्कृतया श्रद्धया युक्तस्तस्या मूर्तेराराधनमीहते करोति। ततः श्रद्धातः स्वशुद्धान्तःकरणतस्तान् कामान् स्वमनोरथरूपान् मयैव विहितान् निर्मितान् अन्यया मदाज्ञां विना देवादीनां न सामर्थ्यम् अतो मयैव निश्चयेन विहिताँल्लभते प्राप्नोतीत्यर्थः।
Sri Shankaracharya
।।7.22।। स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते। लभते च ततः तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान् हियस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः। हितान् इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् न हि कामा हिताः कस्यचित्।।यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते अतः
Sri Vallabhacharya
।।7.22।।ततश्च स तयेति। ततो मदङ्गभूतादुपास्यदेवात् लभते कामान् मयैवाङ्गिना विहितान्निर्मितान् प्राप्नोति। यद्यप्याराधनकालेऽपि मामेवमवयविनमविजानंस्तामेव भजते स भक्तस्तथापि वस्तुतो मदाराधनत्वात् मन्निर्मितमेव फलं तल्लभते। यथा शरीरं पुरुषदत्तं वस्तुत आत्मदत्तमित्यात्मभजनस्यैव मुख्यत्वं युक्तं शाखिमूलसेचनवदिति भावः।