← Chapter 8

Chapter 8, Verse 2

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।

adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle cha kathaṁ jñeyo ’si niyatātmabhiḥ

Word meanings: adhiyajñaḥ—the Lord all sacrificial performances; katham—how; kaḥ—who; atra—here; dehe—in body; asmin—this; madhusūdana—Shree Krishna, the killer of the demon named Madhu; prayāṇa-kāle—at the time of death; cha—and; katham—how; jñeyaḥ—to be known; asi—are (you); niyata-ātmabhiḥ—by those of steadfast mind

Shri Purohit Swami

Who rules the spirit sacrifice in many, and how may those who have learned self-control come to the knowledge of Thee at the time of death?

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।8.2।।साधियज्ञं चेत्यत्राधियज्ञशब्देन यज्ञमधिकृतो विज्ञानात्मा वा परदेवता वेति प्रश्नान्तरं प्रकरोति -- अधियज्ञ इति। स च कथं केन प्रकारेण ब्रह्मत्वेन चिन्तनीयः किं तादात्म्येन किं वात्यन्ताभेदेनेत्याह -- कथमिति। सर्वथापि स किमस्मिन्देहे वर्तते ततो बहिर्वा देहे चेत्स कोऽत्र बुद्ध्यादिस्तद्व्यतिरिक्तो वेति जिज्ञासया ब्रूते -- कोऽत्रेति। अधियज्ञः कथं कोऽत्रेति न प्रश्नभेदकः[दः] कथमिति तु प्रकारभेदविवक्षयेति द्रष्टव्यम्। यत्तु समाहितचित्तानामुक्तं यत्प्रयाणकालेऽपि भगवदनुसंधानं सिध्यतीति तदयुक्तमुत्क्रमणदशायां करणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तिरित्यभिप्रेत्याह -- प्रयाणेति।
Sri Dhanpati
।।8.2।।अधियज्ञः कथं कोऽत्र यज्ञमधिगतो विज्ञानात्मा परमात्मा वा स च कथं केन प्रकारेण चिन्तनीयः किं तादात्म्येनोताभेदेन। सर्वथापि स किमस्मिन्देहे वर्तते उतास्माद्वहिः देहे चेत्स कोऽत्र बहिश्चेत्स किं कुङ्यादिरुत तद्य्धतिरिक्त इति प्रकारादिजिज्ञासयोक्तं कथं कोत्रेऽति। मधुसूदनेति संबोधयन् मधुसूदनस्य तव मत्संशयसूदनमतिसुकरमिति द्योतयति। यत्तूक्तंप्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः इति तत्र पृच्छति -- प्रयाणेति। प्राणोत्क्रमणदशायां करणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तेर्नियतात्मभिः प्रयाणकाले कथं ज्ञेयोऽसीति भाष्यटीकानुसारी सप्तमप्रश्नार्थः। भाष्यकृद्भिस्तु सुगमत्वान्न प्रदर्शितः।
Sri Madhavacharya
।।8.1 -- 8.2।।नमः श्रीमते कृष्णाय। ँ़ मरणकालकर्त्तव्यगत्याद्यस्मिन्नध्याय उपदिशति।
Sri Neelkanth
।।8.2।।अधियज्ञः कथं कोऽत्र। क इति स्वरूपप्रश्नः। कथं ज्ञेय इति पदापकर्षेण तत्तदुपासनाप्रकारप्रश्नश्चेति द्वयं मिलित्वा एकएव प्रश्नः। शेषं स्पष्टम्।
Sri Ramanujacharya
।।8.2।।अर्जुन उवाच -- जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतया उक्तं तद् ब्रह्म अध्यात्मं च कर्म च किम् इति वक्तव्यम् ऐश्वर्यार्थिनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किं त्रयाणां ज्ञातव्यः अधियज्ञशब्दनिर्दिष्टश्च कः तस्य च अधियज्ञभावः कथं प्रयाणकाले च एभिः त्रिभिः नियतात्मभिः कथं ज्ञेयः असि।
Sri Sridhara Swami
।।8.2।। किंच -- अधियज्ञ इति। अत्र देहे यो यज्ञो वर्तते तस्मिन्कोऽधियज्ञः। अधिष्ठाता प्रयोजकः फलदाता च क इत्यर्थः। स्वरूपं पृष्ट्वा अधिष्ठानप्रकारं पृच्छति। कथं केन प्रकारेणासावस्मिन्देहे स्थितो यज्ञमधितिष्ठतीत्यर्थः। यज्ञग्रहणं सर्वकर्मणामुपलक्षणार्थम्। अन्तकाले च नियतचित्तैः पुरुषैः कथं केनोपायेन ज्ञेयोऽसि।
Sri Vedantadeshikacharya Venkatanatha
।। 8.2 सङ्गतिदर्शनायाह -- सप्तम इति।परस्य ब्रह्मणो वासुदेवस्योपास्यत्वमिति -- मय्यासक्तमनाः [7।1] इत्यादेरथः तत्रैव ह्युपासनं प्रस्तुतम्। तच्छेषतया चान्यत्सर्वमिहोच्यते। तस्यैव प्रपञ्चनम्अहं सर्वस्य प्रभवः [10।8]वासुदेवः सर्वं [7।19]चतुर्विधा भजन्ते माम् [7।16] इत्यादिभिः परस्तात्क्रियत इति भावः।परस्येत्यादिभिरुपहितब्रह्मव्योमातीतादिपक्षप्रतिक्षेपः। ब्रह्मशब्दस्य विशेषशब्दसमभिव्याहाराद्देवतान्तरव्यावृत्तिः। वासुदेवशब्देनात्रावतारविशेषो वा विवक्षितः।निखिलेत्यादिभिरुपास्यत्वपरब्रह्मत्वोपयुक्ताकारकथनम्।निखिलचेतनाचेतनवस्तुशेषित्वमितिभूमिरापः [7।4] इत्यादेः श्लोकद्वयस्यार्थः। निखिलशब्देन कार्यकारणादिरूपावस्थासङ्ग्रहात् कार्यभूतब्रह्मरुद्रादेरपि क्रोडीकारः। कारणत्वम्एतद्योनीनि [7।6] इति श्लोकस्यार्थः।मत्तः परतरं नान्यत् [7।7] इत्युक्तस्य परत्वस्यमामेभ्यः परम् [7।13] इत्यत्रोपयुक्ततया तत्रैवोदाहर्तुमत्र तदतिक्रमेणमयि सर्वम् [7।7] इत्याद्युक्ताधारत्वोपादानम्।रसोऽहम् [7।8] इत्यादिसामानाधिकरण्यफलितं सर्वशब्दवाच्यत्वम्। तत्र हेतुराधारत्वादिविशेषसिद्धं सर्वशरीरकत्वम्। एवं शेषित्वाद्यनुवादेन वक्ष्यमाणतत्तदधिकारिप्राप्यवस्तुविशेषसामानाधिकरण्यस्यापि शरीरात्मभावहेतुकत्वं दर्शितम्।मत्त एवेति तान्विद्धि [7।12] इत्यादिषु प्रवृत्तितादधीन्यस्यापि विवक्षितत्वात्सिद्धं सर्वनियन्तृत्वम्।सवश्चेत्यनेनानिर्दिष्टानामन्येषां च आभिप्रायिकाणां सङ्ग्रहः।तस्यैवेत्यवधारणेननान्यत्किञ्चिदस्ति [7।7] इत्यस्यार्थ उक्तः।त्रिभिर्गुणमयैः [7।13] इति श्लोकस्य सार्धस्यार्थःसत्त्वेत्यादिनोक्तः।मामेव [7।14] इत्याद्युक्तप्रपत्तेः सुकृतविशेषहेतुकत्वम्।जनाः सुकृतिनः [7।16] इत्यनेन दर्शितमाहअत्युत्कृष्टसुकृतेति।न मां दुष्कृतिनः [7।15] इत्यादेः पूर्वोक्ततिरोधानप्रकारविशेषकथनरूपत्वात्सुकृतिप्रशंसाशेषत्वाच्च तदर्थोऽत्र पृथङ्गोपात्तः।चतुर्विधाः [7।16] इत्यादिकंसुकृततारतम्येनेत्यादिनाऽनुसंहितम्। उपासकभेदं चेत्यन्वयः।तेषां ज्ञानी [7।17] इत्यादेः श्लोकद्वयस्यार्थोभगवन्तमित्यादिनोक्तः।बहूनां जन्मनाम् [7।19] इत्यादिनासर्गे यान्ति परन्तप [7।27] इत्यन्तेन सिद्धमाहदुर्लभत्वमिति।येषां तु [7।28] इत्यादेरध्यायशेषस्य अर्थमाह -- एषां त्रयाणामिति। ज्ञातव्यमिह सिद्धरूपं विवक्षितम्।उपादेयं अनुष्ठेयम्। एतेनस्वयाथात्म्यम् [गी.सं.11] इत्यादिसङ्ग्रहश्लोकस्यार्थोऽपि प्रपञ्चितः। अयं त्वष्टमस्य सङ्ग्रहःऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम्। वेद्योपादेयभावानामष्टमे भेद उच्यते [गी.सं.12] इति। अत्र भेदोक्तेरध्यायार्थत्वात्स्वरूपप्रस्तावः प्रागेव कृत इति दर्शितम्। प्रस्तुतप्रपञ्चनमिति सङ्गतिमाह -- इदानीमिति। जीवस्वरूपादिज्ञातव्यस्योपासनाद्यनुष्ठेयस्य च भेदजिज्ञासयाऽर्जुन उवाच -- किं तदिति।आर्तो जिज्ञासुः [7।16] इत्यादिना प्रागेवाधिकारित्रयस्योक्तत्वात्जरामरणमोक्षाय [7।29] इत्यादिषु यच्छब्दावृत्तिसामर्थ्यादर्थस्वभावाच्चाधिकारिभेदस्तेषां ज्ञातव्योपादेयवस्तुप्रतिनियमश्चार्जुनेन ज्ञातः तत्रैव विशेषबुभुत्सयाऽय प्रश्नः। वक्ष्यते च विशेषः। ततश्चकिं तद्ब्रह्म इत्यर्धमक्षरयाथात्म्यार्थिविषयम् अधिभूते च इत्यर्धमैश्वर्यार्थिविषयम्अधियज्ञः इति श्लोकस्तु अर्थस्वभावात् त्रयाणां साधारण इति विविनक्ति -- जरामरणेति। कथमिति प्रकारप्रश्नेअधियज्ञभाव इत्यर्थलब्धम्।अत्र इत्येतच्छब्दः शास्त्रसन्निध्युपाधिकः तच्चोत्तरग्रन्थे व्याख्यास्यति -- अत्र इन्द्रादौ मम देहभूते इति।अस्मिन् इतीदंशब्दस्तु स्वप्रत्यक्षसन्निध्युपाधिकः प्रत्यक्षा हीन्द्रादयोऽपि प्रष्टुरर्जुनस्य। एतच्छब्देदंशब्दयोश्चैकस्मिन्वाक्ये सामानाधिकरण्येन प्रयोगो दृश्यते -- स एष द्वाभ्यां दर्शनीभ्यां विराड्भ्यामनयोर्द्वाविंशयोर्द्विवचनयोरयं पुरुषः प्रतिष्ठितः इत्यादौ। यद्वाअत्र इति यज्ञस्वरूपपरामर्शः नियतात्मत्वं त्रयाणामपेक्षितम् अत्र बहुवचनमधिकारित्रयपरमित्यभिप्रायेणोक्तम् -- एभिस्त्रिभिरिति।
Sri Abhinavgupta
।।8.1 -- 8.2।।ते ब्रह्म तद्विदुः  इत्यादिना यत् भगवता उपक्षिप्तं तत् प्रश्ननवकपूर्वकं (S पूर्वं) निर्णयति ( निर्णाययति N निर्वर्णयति) -- किं तद् ब्रह्मेति।  अधियज्ञ इति।  अधियज्ञः कथम्  [कश्च] कोऽत्र देहे  तिष्ठति इति शेषः।
Sri Jayatritha
।।8.1 -- 8.2।।अध्यायस्यावान्तरप्रतिपाद्यमर्थमाह -- मरणेति। गम्यत इति गतिः। आदिपदेन मार्गादिकम्। मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत्तथोक्तम्। कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः। उक्तव्याख्यानपूर्वकमिति चोपस्कर्तव्यम् तेनानन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात्।
Sri Madhusudan Saraswati
।।8.2।।अधियज्ञो यज्ञमधिगतो देवतात्मा परब्रह्म वा। स च कथं केन प्रकारेण चिन्तनीयः। किं तादात्म्यैन किं वात्यन्ताभेदेन। सर्वथापि स किमस्मिन्देहे वर्तते ततो बहिर्वा। देहे चेत् स कोऽत्र बुद्ध्यादिस्तद्व्यतिरिक्तो वा। अधियज्ञः कथं कोऽत्रेति न प्रश्नद्वयं किंतु सप्रकार एकएव प्रश्न इति द्रष्टव्यम्। परमकारुणिकत्वादनायासेनापि सर्वोपद्रवनिवारकस्य भगवतोऽनायासेन मत्संदेहोपद्रवनिवारणमीषत्करमुचितमेवेति सूचयन्संबोधयति हे मधुसूदनेति। प्रयाणकाले च सर्वकरणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहितचित्तैर्ज्ञेयोऽसीत्युक्तशङ्कासूचनार्थश्चकारः। एतत्सर्वं सर्वज्ञत्वात्परमकारुणिकत्वाच्च शरणागतं मांप्रति कथयेत्यभिप्रायः।
Sri Purushottamji
।। 8.2 पूर्वोक्तब्रह्मकर्मादिरूपजिज्ञासुरर्जुनः।		पृष्टवान् स्पष्टमेतस्य कृष्ण उत्तरमुक्तवान्।।1।।पूर्वाध्यायान्ते भगवताते ब्रह्म [7।29] इत्यादिना समपदार्थज्ञानमुक्तं भक्तानाम् तत्स्वरूपजिज्ञासुरर्जुनः प्रभुं विज्ञापयामास -- अर्जुन उवाच किं तद्ब्रह्मेति द्वयेन। हे पुरुषोत्तम तद्ब्रह्म यदुक्तं तत्किम् अध्यात्मं किं कर्म किं च पुनः अधिभूतं किं प्रोक्तं च पुनः अधिदैवं किमुच्यते अधियज्ञः यज्ञाधिष्ठाता फलदाता कः। अत्र उक्तप्रकारेषु कथं केन प्रकारेण नियतात्मभिरनन्यैकपरिचित्तैर्ज्ञेयोऽसि। हे मधुसूदन सर्वानिष्टनिवर्तक अस्मिन् देहे प्रयाणकाले अन्तकाले कथं केन प्रकारेण ज्ञेयोऽसि। अत्रायं भावः -- पुरुषोत्तमेति सम्बोधनेन त्वमेव पुरुषोत्तमः त्वत्तः पराभावात्। कथं तद्ब्रह्मेत्युक्तम् आधिदैविकं तु त्वत्स्वरूपमेव अतस्त्वत्तोऽन्याधिदैवं किम् अध्यात्मादयस्तु৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷. हीना एव तेषां ज्ञानं किं प्रयोजनकम् सेवा च कथं कार्या इत्यादिव्यञ्जितम्। मधुसूदनेति सम्बोधनेन त्वदीयानां मरणादिभयाभावे तत्समये त्वं कथं स्वज्ञानमुक्तवानिति ज्ञापितमिति भावः।
Sri Shankaracharya
।।8.1 -- 8.2।। --,ते ब्रह्म तद्विदुः कृत्स्नम् (गीता 7।29) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच -- एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच --,श्रीभगवानुवाच --,
Sri Vallabhacharya
।।8.2।।अधियज्ञश्च कः स चाधियज्ञोऽत्र देहे कथ ज्ञेयः। प्रयाणकाले चैभिर्नियतात्मभिः कथं ज्ञेयोऽसि।
← PrevNext →