Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 117

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- ११७ ब्रह्मोवाच । मार्गशीर्षे सिते पक्षे व्यासांनङ्गत्रयोदशी । मल्लिकाजं दन्तकाष्ठं धुतूरैः पूजयेच्छिवम्

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 117 brahmovāca / mārgaśīrṣe site pakṣe vyāsāṃnaṅgatrayodaśī / mallikājaṃ dantakāṣṭhaṃ dhutūraiḥ pūjayecchivam

1.117.1

अनङ्गायेति नैवेद्यं मधप्राश्याथ पौषके । योगेश्वरं पूजयेच्च बिल्वपत्रैः कदम्बजम् । दन्तकाष्ठं चन्दनादि नैवेद्यं कृसरादिकम्

anaṅgāyeti naivedyaṃ madhaprāśyātha pauṣake / yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam / dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam

1.117.2

माघे नटेश्वरायार्च्य कुन्दैर्मौक्तिकमालया । प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिका मुने

māghe naṭeśvarāyārcya kundairmauktikamālayā / plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune

1.117.3

वीरेश्वरं फाल्गुने तु पूजयेत्तु मरूबकैः । शर्कराशाकमण्डाश्च चूतजं दन्तधावनम्

vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ / śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam

1.117.4

चैत्रे यजेत्सु रूपाय कर्पूरं प्राशयेन्निशि । दन्तधावनाटजं नैवेद्यं शष्कुलीं ददेत्

caitre yajetsu rūpāya karpūraṃ prāśayenniśi / dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet

1.117.5

पूजा दमनकः शम्भोर्वेशाखे ऽशोक्रपुष्पकैः । महारूपाय नैवेद्यं गुडभक्तं पुट्टबरम्

pūjā damanakaḥ śambhorveśākhe 'śokrapuṣpakaiḥ / mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram

1.117.6

दन्तकाष्ठं प्राशयेच्च ददेज्जतीफलं तथा । प्रद्युम्नं पूजयेज्ज्येष्ठे चम्पकैर्बिल्वजं दशेत्

dantakāṣṭhaṃ prāśayecca dadejjatīphalaṃ tathā / pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet

1.117.7

लवगारा तथा षढि उमामदति शासनः? । अगुरुं दन्तकाष्ठं च तमपामार्गकैर्यजेत्

lavagārā tathā ṣaḍhi umāmadati śāsanaḥ? / aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet

1.117.8

श्रावणे करवीरं च शम्भवे शूलपाणये । गन्धाशनो घृताद्यैश्च करवीरजशोधनम्

śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye / gandhāśano ghṛtādyaiśca karavīrajaśodhanam

1.117.9

सद्योजातं भाद्रपदे बकुलैः पूपकैर्यजेत् । गन्धर्वाशो मदनकमाश्विने च सुराधिपम्

sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet / gandharvāśo madanakamāśvine ca surādhipam

1.117.10

चम्पकैः स्वर्णवा (धार्) यादो जिन्मोदकसंप्रदः । खादिरं दन्तकाष्ठं च कार्तिके रुद्रमर्चयेत्

campakaiḥ svarṇavā (dhār) yādo jinmodakasaṃpradaḥ / khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet

1.117.11

बदर्या दन्तकाष्ठं च मदनो दशमाशनः । क्षीरशाकप्रदः पद्मैरब्दन्ते शिवमर्चयेत्

badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ / kṣīraśākapradaḥ padmairabdante śivamarcayet

1.117.12

रतिमुक्तमनङ्गं च स्वर्णमण्डलसंस्थितम् । गन्धाद्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेत्

ratimuktamanaṅgaṃ ca svarṇamaṇḍalasaṃsthitam / gandhādyairdaśasāhasraṃ tilavrīhyādi homayet

1.117.13

जागरं गीतवदित्रं प्रभितऽभ्यार्च्य वेदयेत् । द्विजाय शय्यां पात्रं च छत्रं वस्त्रमुपानहौ

jāgaraṃ gītavaditraṃ prabhita'bhyārcya vedayet / dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau

1.117.14

गां द्विजं भोजयेद्भक्त्या कृतकृत्यो भवेन्नरः । एतदुद्यापनं सर्वं व्रतेषु ध्येपमीदृशम् । फलञ्च श्रीसुतारोग्यसौभाग्यस्वर्गतं भवेत्

gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ / etadudyāpanaṃ sarvaṃ vrateṣu dhyepamīdṛśam / phalañca śrīsutārogyasaubhāgyasvargataṃ bhavet

1.117.15

1.1161.118