Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 120

इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे ऽगस्त्यार्घ्यव्रतं नामकोनविंशत्युत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १२० ब्रह्मोवाच । रम्भातृतीयां वक्ष्य च सौभग्यश्रीसुतादिदाम् । मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः

iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmakonaviṃśatyuttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 120 brahmovāca / rambhātṛtīyāṃ vakṣya ca saubhagyaśrīsutādidām / mārgaśīrṣesite pakṣe tṛtīyāyāmupoṣitaḥ

1.120.1

गौरीं यजेद्विल्वपत्रैः कुशोदककरस्ततः । कदम्बादौ गिरिसुतां पौषे मरुबकैर्यजेत्

gaurīṃ yajedvilvapatraiḥ kuśodakakarastataḥ / kadambādau girisutāṃ pauṣe marubakairyajet

1.120.2

कर्पूरादः कृसरदो मल्लिकादन्तकाष्ठकृत् । माघेसुभद्रां कल्हारैर्घृताशो मण्डकप्रदः

karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt / māghesubhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ

1.120.3

गीतीमयं तन्तकाष्ठं फाल्गुने गोमतीं यजेत् । कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः

gītīmayaṃ tantakāṣṭhaṃ phālgune gomatīṃ yajet / kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ

1.120.4

विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः । दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत्

viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ / dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet

1.120.5

वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः । ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः । लवङ्गाशो भवेदेव आषाढे माधवीं यजेत्

vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ / jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ / lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet

1.120.6

तिलाशो बिल्वपत्रैश्च क्षीरान्नवटकप्रदः । औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम्

tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ / audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam

1.120.7

दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेत् । पद्मैर्यजेद्भाद्रपदे शृङ्गदाशो गृडादिदः

dantakāṣṭhaṃ mallikāyā kṣīrado hyuttamāṃ yajet / padmairyajedbhādrapade śṛṅgadāśo gṛḍādidaḥ

1.120.8

राजपुत्रीं चाश्वयुजे जपापुष्पैश्च जीरकम् । प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत्

rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam / prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet

1.120.9

जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत् । घृतोदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत्

jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet / ghṛtodanaṃ ca varṣānte sapatnīkāndvijānyajet

1.120.10

उमामहेश्वरं पूज्य प्रदद्याच्च गुडादिकम् । वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः । गीतवाद्यैर्ददत्प्रतर्गवाद्यं सर्वमान्पुयात्

umāmaheśvaraṃ pūjya pradadyācca guḍādikam / vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ / gītavādyairdadatpratargavādyaṃ sarvamānpuyāt

1.120.11

1.1191.121