Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 135

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवम्यां महाकौशिकमन्त्रकृत्यादिविवरणं नाम चतुस्त्रिंशदुत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १३५ ब्रह्मोवाच । नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेत् । देवीं विप्रंल्लक्षमेकञ्जपेद्वीरं व्रती नरः

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 135 brahmovāca / navamyāmāśvine śukle ekabhaktena pūjayet / devīṃ vipraṃllakṣamekañjapedvīraṃ vratī naraḥ

1.135.1

(ति वीरनवमीव्रतम्) । ब्रह्मोवाच । चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत् । आयुरारोग्यसौभाग्यं शत्रुभिश्चापराजितः

(ti vīranavamīvratam) / brahmovāca / caitre śuklanavamyāṃ ca devīṃ damanakairyajet / āyurārogyasaubhāgyaṃ śatrubhiścāparājitaḥ

1.135.2

(इति दमनकनवमीव्रतम्) । ब्रह्मोवाच । दशम्यामेकभक्ताशी समान्ते दशधेनुदः । दिशश्च काञ्चनीर्दत्त्वा ब्रह्माण्डाधिपतिर्भवेत्

(iti damanakanavamīvratam) / brahmovāca / daśamyāmekabhaktāśī samānte daśadhenudaḥ / diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet

1.135.3

(इति दिग्दशमीव्रतम्) ब्रह्मोवाच । एकादश्यामृषिपूजा कार्या सर्वोपकारिका । धनवान्पुत्रवांश्चान्ते ऋषिलोके महीयते

(iti digdaśamīvratam) brahmovāca / ekādaśyāmṛṣipūjā kāryā sarvopakārikā / dhanavānputravāṃścānte ṛṣiloke mahīyate

1.135.4

मरीचिरत्र्यं गिरसौ पुलसत्यः पुलहः क्रतुः । प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च

marīciratryaṃ girasau pulasatyaḥ pulahaḥ kratuḥ / pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca

1.135.5

चैत्रादौ कारयेत्पूजां माल्यैश्च दमनोद्भवैः । अशोकाख्याष्टमीप्रोक्ता वीराख्या नवमीतथा

caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ / aśokākhyāṣṭamīproktā vīrākhyā navamītathā

1.135.6

दमनाख्या दिग्दशमी नवम्येकादशी तथा

damanākhyā digdaśamī navamyekādaśī tathā

1.135.7

1.1341.136