Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 179

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ह्यष्टसप्तत्यधिकशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १७९ हरिरुवाच । हरितालं यवक्षांरं पत्राङ्गं रक्तचन्दनम् । जातिहिङ्गुलकं लाक्षां पक्त्वा दन्तान्प्रलेपयेत्

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hyaṣṭasaptatyadhikaśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 179 hariruvāca / haritālaṃ yavakṣāṃraṃ patrāṅgaṃ raktacandanam / jātihiṅgulakaṃ lākṣāṃ paktvā dantānpralepayet

1.179.1

हरीतकीकषायेण मृष्ट्वा दन्तान्प्रलेपयेत् । दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र न संशयः

harītakīkaṣāyeṇa mṛṣṭvā dantānpralepayet / dantāḥ syurlohitāḥ puṃsaḥ śvetā rudra na saṃśayaḥ

1.179.2

मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत् । कर्णयोः पूरणात्तेन कर्णस्त्रावो विनश्यति

mūlakaṃ svidya mandāgnau rasaṃ tasya prapūrayet / karṇayoḥ pūraṇāttena karṇastrāvo vinaśyati

1.179.3

अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः । निष्पीड्य पूरयेत्कर्णौ कर्णशूलं विनश्यति

arkapatraṃ gṛhītvā tu mandāgnau tāpayecchanaiḥ / niṣpīḍya pūrayetkarṇau karṇaśūlaṃ vinaśyati

1.179.4

प्रियङ्गुमधुका चैव धातक्युत्पलपाङ्क्तिभिः । मञ्जिष्ठा लोध्रलाक्षाभिः कपित्थस्वरसेन च । पचेत्तैलं तथा स्त्रीणां नश्येत्क्लेदः प्रपूरणात्

priyaṅgumadhukā caiva dhātakyutpalapāṅktibhiḥ / mañjiṣṭhā lodhralākṣābhiḥ kapitthasvarasena ca / pacettailaṃ tathā strīṇāṃ naśyetkledaḥ prapūraṇāt

1.179.5

शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुमहौषधम् । सतपुष्पावचा कुष्ठं दारु शिग्र रसाञ्जनम्

śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgumahauṣadham / satapuṣpāvacā kuṣṭhaṃ dāru śigra rasāñjanam

1.179.6

सौवर्चलं यवक्षारं तथा सर्जकसैन्धवम् । तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं चतुर्गुणम्

sauvarcalaṃ yavakṣāraṃ tathā sarjakasaindhavam / tathā granthirviḍaṃ mustaṃ madhuyuktaṃ caturguṇam

1.179.7

मातुलुं गरसस्तद्वत्कदल्याश्च रसो हि तैः । पक्वतैलं हरेदाशु स्त्रावादींश्च न संशयः

mātuluṃ garasastadvatkadalyāśca raso hi taiḥ / pakvatailaṃ haredāśu strāvādīṃśca na saṃśayaḥ

1.179.8

कर्णयोः कृमिनाशः स्यात्कटुतैलस्य पूरणात् । हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च

karṇayoḥ kṛmināśaḥ syātkaṭutailasya pūraṇāt / haridrā nimbapatrāṇi pippalyo maricāni ca

1.179.9

विडङ्गभद्रं मुस्तञ्च सप्तमं विश्वभेषजम् । गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर ! । अजीर्णहृद्भवेच्चैकं द्वयं विषूचिकापहम्

viḍaṅgabhadraṃ mustañca saptamaṃ viśvabheṣajam / gomūtreṇa ca piṣṭvaiva kṛtvā ca vaṭikāṃ hara ! / ajīrṇahṛdbhaveccaikaṃ dvayaṃ viṣūcikāpaham

1.179.10

पटोलं मधुना हन्ति गोमूत्रेण तथाबुदम् । एषा च शङ्करी वर्तिः सर्वनेत्रामया पहा

paṭolaṃ madhunā hanti gomūtreṇa tathābudam / eṣā ca śaṅkarī vartiḥ sarvanetrāmayā pahā

1.179.11

1.1781.180