Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 19

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाव्ये आचारकाण्डे ऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशो ऽध्यायः श्रीगरुडमहापुराणम्- १९ सूत उवाच । प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् । स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśāvye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 19 sūta uvāca / prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham / sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati

1.19.1

चितावल्मीकशैलादौ कपे च विवरे तरोः । दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति

citāvalmīkaśailādau kape ca vivare taroḥ / daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati

1.19.2

षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु । कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु

ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu / kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu

1.19.3

दण्डी शस्त्रधरो भिक्षुर्न ग्नादिः कालदूतकः । बाहौ च वक्क्रे ग्रीवायां दष्टायां न हि जीवति

daṇḍī śastradharo bhikṣurna gnādiḥ kāladūtakaḥ / bāhau ca vakkre grīvāyāṃ daṣṭāyāṃ na hi jīvati

1.19.4

पूर्वं दिनपतिर्भुङ्क्ते अर्धयामं ततो ऽपरे । शेषा ग्रहाः प्रतिदिनं षट्संख्या परिवर्तनैः

pūrvaṃ dinapatirbhuṅkte ardhayāmaṃ tato 'pare / śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyā parivartanaiḥ

1.19.5

नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्तनैः । शेषोर्ऽकः फणिपश्चन्द्रस्तक्षको भौम ईरितः

nāgabhogaḥ kramāñjñeyo rātrau bāṇavivartanaiḥ / śeṣor'kaḥ phaṇipaścandrastakṣako bhauma īritaḥ

1.19.6

कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः । शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः

karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ / śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ

1.19.7

रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः । पङ्गोः काले दिवा राहुः कुलिकेन सह स्थितः

rātrau divā suragurorbhāge syādamarāntakaḥ / paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ

1.19.8

यामार्धसन्धिसंस्थां च वेलां कालवतीं चरेत् । बाणद्विषड्वह्निवाजियुगभूरेकभागतः?

yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret / bāṇadviṣaḍvahnivājiyugabhūrekabhāgataḥ?

1.19.9

दिवा षडेदनेत्राद्रिपञ्चत्रिमानुषांशकैः । पादाङ्गुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिङ्गके

divā ṣaḍedanetrādripañcatrimānuṣāṃśakaiḥ / pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake

1.19.10

नाभौ हृदि स्तनतटे कण्ठे नासापुटे ऽक्षिणि । कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात्

nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi / karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt

1.19.11

तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके । कायस्य वामभागे तु स्त्रिया वायुवहात्करात्

tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake / kāyasya vāmabhāge tu striyā vāyuvahātkarāt

1.19.12

अमृतस्तत्कृतो मोहो निवर्तेत च मर्दनात् । आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम्

amṛtastatkṛto moho nivarteta ca mardanāt / ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam

1.19.13

दातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् । विन्दुपञ्चस्वरयुतमाद्यमुक्तं द्वितीयकम् । षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् । ॐ कुरु कुले स्वाहा

dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham / vindupañcasvarayutamādyamuktaṃ dvitīyakam / ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam / oṃ kuru kule svāhā

1.19.14

विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा । वधेप्सुर्नागनागानां मुखे ऽथ प्रणवं न्यसेत्

vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā / vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset

1.19.15

गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः । स्वाहा पादयुगे चैव युगहा न्यास ईरितः

gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ / svāhā pādayuge caiva yugahā nyāsa īritaḥ

1.19.16

गृहे विविखिता यत्र तन्नागाः संत्यजन्ति च । सहस्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा

gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca / sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā

1.19.17

यद्रृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् । सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः

yadrṛhe śarkarā japtā kṣiptā nāgāstyajanti tat / saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ

1.19.18

ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा । एवञ्चाष्टदले पद्म दले वर्णयुगं लिखेत्

oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā / evañcāṣṭadale padma dale varṇayugaṃ likhet

1.19.19

नामैतद्वारिधाराभिः स्नातो दष्टो विषं त्यजेत् । ॐ पक्षि स्वाहा

nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet / oṃ pakṣi svāhā

1.19.20

अङ्गुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके । के (कै) वक्क्रे हृदि लिङ्गे च पादयोर्गरुडस्य हि

aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake / ke (kai) vakkre hṛdi liṅge ca pādayorgaruḍasya hi

1.19.21

नाक्रामन्ति च तच्छायां स्वप्ने ऽपि विषपन्नगाः । यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा(ष्ट्या) नाशयेद्विषम्

nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ / yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā(ṣṭyā) nāśayedviṣam

1.19.22

ॐ ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा । कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत्

oṃ hrī hrau hrīṃ bhi(bhī) ruṇḍāyai svāhā / karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret

1.19.23

अ आ न्यसेत्तु पादाग्रे इ ई गुलफे ऽथ जानुनि । उ ऊ ए ऐ कटितटे ओ नाभौ हृदि औ न्यसेत्

a ā nyasettu pādāgre i ī gulaphe 'tha jānuni / u ū e ai kaṭitaṭe o nābhau hṛdi au nyaset

1.19.24

वक्क्रे अमुत्तमाङ्गे अः न्यसेद्वै हंससंयुताः । हंसो विषादि च हरेज्जप्तो ध्यातो ऽथ पूजितः

vakkre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ / haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ

1.19.25

गरुडो ऽहमिति ध्यात्वा कुर्याद्विषहरां (रीं) क्रियाम् । हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम्

garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ (rīṃ) kriyām / haṃmantraṃ gātravinyastaṃ viṣādiharamīritam

1.19.26

न्यस्य हंसं वामकरे नासामुखनिरोधकृत् । मन्त्रो हरेद्दष्टकस्य त्वङ्मांसादिगतं विषम्

nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt / mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam

1.19.27

स वायुना समाकृष्य दष्टानां गरलं हरेत् । तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत्

sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret / tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret

1.19.28

पीतं प्रत्यङ्गिरामूलं तण्डुलद्भिर्विषापहम् । पुनर्नवाफलिनीनां मूलं वक्क्रजमीदृशम्

pītaṃ pratyaṅgirāmūlaṃ taṇḍuladbhirviṣāpaham / punarnavāphalinīnāṃ mūlaṃ vakkrajamīdṛśam

1.19.29

मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् । अद्भिर्घृष्टघृतोपेतलेपो ऽयं विषमर्दनः

mūlaṃ śuklabṛhatyāstu karkoṭyāgairikarṇikam / adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ

1.19.30

विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् । पञ्चाङ्गं तु शिरीषस्य मूलं गृञ्जनजं तथा

viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam / pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā

1.19.31

सर्वाङ्गलेपतशचापि पानाद्वा विषहृद्भवेत् । ह्रीं गोनसादिविषहृत्

sarvāṅgalepataśacāpi pānādvā viṣahṛdbhavet / hrīṃ gonasādiviṣahṛt

1.19.32

हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत् । न्यस्तं योनौ वशेत्कन्यां कुर्यान्मदजलाविलम्

hṛllalāṭavisargāntaṃ dhyātaṃ vaśyā dikṛdbhavet / nyastaṃ yonau vaśetkanyāṃ kuryānmadajalāvilam

1.19.33

जप्त्वा सप्ताष्टसाहस्रं गरुत्मानिव सर्वगः । कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात् । विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम्

japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ / kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt / viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam

1.19.34

1.181.20