Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 193

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विनवत्यधिक शततमो ऽध्यायः श्रीगरुडमहापुराणम्- १९३ हरिरुवाच । पलाण्डुजीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम्

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dvinavatyadhika śatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 193 hariruvāca / palāṇḍujīrake kuṣṭhamaśvagandhājamodakam / vacā trikaṭukañcaiva lavaṇaṃ cūrṇamuttamam

1.193.1

ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्यान्निर्मलाञ्च मतिं पराम्

brāhmīrasairbhāvitañca sarpirmadhusamanvitam / saptāhaṃ bhakṣitaṃ kuryānnirmalāñca matiṃ parām

1.193.2

सिद्धार्थकं वचा हिङ्गु करञ्जं देवदारु च । मञ्जिष्ठा त्रिफला विश्वं शिरीषो रजनीद्वयम्

siddhārthakaṃ vacā hiṅgu karañjaṃ devadāru ca / mañjiṣṭhā triphalā viśvaṃ śirīṣo rajanīdvayam

1.193.3

प्रियङ्गुनिम्बत्रिक्रटु गोमूत्रेणैव घर्षितम् । नसयमालेपनञ्चैव तथा चोद्वर्तनं हितम्

priyaṅgunimbatrikraṭu gomūtreṇaiva gharṣitam / nasayamālepanañcaiva tathā codvartanaṃ hitam

1.193.4

अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्चभयं हन्ति राजद्वारेषु योजनात्

apasmāraviṣonmādaśoṣālakṣmījvarāpaham / bhūtebhyaścabhayaṃ hanti rājadvāreṣu yojanāt

1.193.5

निम्बं कुष्ठं हरिद्रे द्वे शिग्रु सर्षपजं तथा । देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम्

nimbaṃ kuṣṭhaṃ haridre dve śigru sarṣapajaṃ tathā / devadāru paṭolañca dhānyaṃ takreṇa gharṣitam

1.193.6

देहं तैलाक्त गात्रं वै नयेदुद्वर्तनेन च । पामाः कुष्ठानि नश्येयुः कण्डूं हन्ति च निश्चितम्

dehaṃ tailākta gātraṃ vai nayedudvartanena ca / pāmāḥ kuṣṭhāni naśyeyuḥ kaṇḍūṃ hanti ca niścitam

1.193.7

सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् । कटुलोहरजश्चैवं त्रिवृत्सूरणकं समम् । दधिगोमूत्रपयसा मन्दपावकपाचितम्

sāmudraṃ saindhavaṃ kṣāro rājikā lavaṇaṃ viḍam / kaṭuloharajaścaivaṃ trivṛtsūraṇakaṃ samam / dadhigomūtrapayasā mandapāvakapācitam

1.193.8

बलाग्निवर्धकं चूर्णं पिबेदुष्णेन वारिणा । जीर्णे ऽजीर्णे तु भुञ्जति मांस्यादिघृतमुत्तमम्

balāgnivardhakaṃ cūrṇaṃ pibeduṣṇena vāriṇā / jīrṇe 'jīrṇe tu bhuñjati māṃsyādighṛtamuttamam

1.193.9

नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् । सर्वशूलहरं चूर्णं जठरानलदीपनम् । परिणामसमुत्थस्य शूलस्य च हितं परम्

nābhiśūlaṃ mūtraśūlaṃ gulmaplīhabhavañca yat / sarvaśūlaharaṃ cūrṇaṃ jaṭharānaladīpanam / pariṇāmasamutthasya śūlasya ca hitaṃ param

1.193.10

अभयामलकं द्राक्षा पिप्पली कण्टकारिका । शृङ्गी पुनर्नवा शुण्ठी जग्धा कासं निहन्ति वै

abhayāmalakaṃ drākṣā pippalī kaṇṭakārikā / śṛṅgī punarnavā śuṇṭhī jagdhā kāsaṃ nihanti vai

1.193.11

अभयामलकं द्राक्षा पाठा चैव विभीतकम् । शर्कराया समं चैव जग्धं ज्वरहरं भवेत्

abhayāmalakaṃ drākṣā pāṭhā caiva vibhītakam / śarkarāyā samaṃ caiva jagdhaṃ jvaraharaṃ bhavet

1.193.12

त्रिफला बदरं द्राक्षा पिप्पली च विरेककृत् । हरीतकी सोष्णानीरलवणञ्च विरेककृत्

triphalā badaraṃ drākṣā pippalī ca virekakṛt / harītakī soṣṇānīralavaṇañca virekakṛt

1.193.13

कूर्ममत्स्याश्वमहिषगोशृगालाश्च वानराः । विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः

kūrmamatsyāśvamahiṣagośṛgālāśca vānarāḥ / viḍālabarhikākāśca varāholūkakukkuṭāḥ

1.193.14

हंस एषाञ्च विण्मूत्रं मांसं वा रोम शोणितम् । धूपं दद्याज्ज्वरार्तेभ्य उन्मत्तेभ्यश्च शान्तये

haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā roma śoṇitam / dhūpaṃ dadyājjvarārtebhya unmattebhyaśca śāntaye

1.193.15

एतान्यौषधजातानि कथितानि उमापते । निघ्नन्ति ताश्च रोगांश्च वृक्षमिन्द्राशनिर्यथा

etānyauṣadhajātāni kathitāni umāpate / nighnanti tāśca rogāṃśca vṛkṣamindrāśaniryathā

1.193.16

औषधंभगवान्विष्णुः संस्मृतो रोगनुद्भवेत् । ध्यातो ऽर्चितः स्तुतो वापि नात्र कार्या विचारणा

auṣadhaṃbhagavānviṣṇuḥ saṃsmṛto roganudbhavet / dhyāto 'rcitaḥ stuto vāpi nātra kāryā vicāraṇā

1.193.17

1.1921.194