Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 211

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽद्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमो ऽध्यायः श्रीगरुडमहापुराणम्- २११ सूत उवाच । प्रथमो ऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः । तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍer'ddhasamavṛttalakṣaṇādinirūpaṇaṃ nāma daśottaradviśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 211 sūta uvāca / prathamo 'ṣṭākṣaraiḥ pādo dvitīyo dvādaśākṣaraiḥ / tṛtīyaḥ ṣoḍaśārṇaiśca viṃśadvarṇaiścaturthakaḥ

1.211.1

सामान्यलक्षणं पदचतुरूर्ध्वाभिरधस्य हि ॥ गर्प्_१,२११।१ ॥आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः

sāmānyalakṣaṇaṃ padacaturūrdhvābhiradhasya hi // garp_1,211.1 //āpīḍaḥ sarvalaḥ proktaḥ pūrvapādāntagadvayaḥ

1.211.2

द्वितीये ऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे । लवली स्यात्तृतीये ऽथ पूर्ववच्चाष्ट काक्षरे । प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति

dvitīye 'ṣṭākṣaraiḥ pāde kalikā prathamer'kaje / lavalī syāttṛtīye 'tha pūrvavaccāṣṭa kākṣare / proktā cāmṛtadhāreyaṃ caturaṣṭākṣare sati

1.211.3

(इति पदचतुरूर्ध्वप्रकरणम्) । सजौ सलौ च प्रथमे नसजा गो द्वितीयके । तृतीये भनभा गश्च चतुर्थे सजसा जगौ

(iti padacaturūrdhvaprakaraṇam) / sajau salau ca prathame nasajā go dvitīyake / tṛtīye bhanabhā gaśca caturthe sajasā jagau

1.211.4

पूर्ववत्स्यात्सौरभकं तृतीये ऽघ्रौ रनौ भगौ । ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ

pūrvavatsyātsaurabhakaṃ tṛtīye 'ghrau ranau bhagau / lalitañcādgatāvatsyātṛtīyeṃ'ghrau nanau sasau

1.211.5

(इत्युद्गताप्रकरणम्) । उपस्थितप्रचुपितं प्रथमे ऽघ्रौ मसौ जभौ । गौ द्वितीये सनजरा गस्तृतीये ननौ च सः । नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत्

(ityudgatāprakaraṇam) / upasthitapracupitaṃ prathame 'ghrau masau jabhau / gau dvitīye sanajarā gastṛtīye nanau ca saḥ / nau najau yaścaturthe syāccheṣa pādāśca pūrvavat

1.211.6

तृतीर्ये ऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ

tṛtīrye 'ghrau viśeṣaśca vṛttaṃ syānnau sanau nasau

1.211.7

आर्षभं तजराः पादे तृतीये ऽन्यच्च पूर्ववत् । पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत्

ārṣabhaṃ tajarāḥ pāde tṛtīye 'nyacca pūrvavat / pūrvavatprathamaṃ śeṣe tajrāḥ śuddhavirāḍbhavet

1.211.8

(इत्युपस्थितप्रचुपितप्रकरणम्) । विषमाक्षरपादं वा पञ्चषट्कादि यावकम् । छन्दो ऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत्

(ityupasthitapracupitaprakaraṇam) / viṣamākṣarapādaṃ vā pañcaṣaṭkādi yāvakam / chando 'tra noktā gātheti daśadharṃmādivadbhavet

1.211.9

1.2101.212