← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 28
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशो ऽध्यायः श्रीगरुडमहापुराणम्- २८ सूत उवाच । गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् । द्वारे धाता विधाता च गङ्गायमुनया सह ॥ गर्प्_१,२८।१ । शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया । पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣahara mantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 28 sūta uvāca / gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm / dvāre dhātā vidhātā ca gaṅgāyamunayā saha // garp_1,28.1 / śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā / pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau
1.28.2
पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् । उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती
paścime balaprabalau jayaśca vijayo yajet / uttare śrīścaturdvāre gaṇo durgā sarasvatī
1.28.3
क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् । सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत्
kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam / siddho gururnalakūvaraṃ koṇe bhagavataṃ yajet
1.28.4
पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् । ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्ंमकम्
pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet / tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrṃmakam
1.28.5
अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः । ऐश्वर्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे
anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ / aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare
1.28.6
सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे । तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम्
sattvāya prakṛtātmane rajase moharūpiṇe / tamase kanda padmāya yajetkaṃ kākatattvakam
1.28.7
विद्यातत्त्वं परं तत्त्व सूर्येदुवह्निमण्डलम् । विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत्
vidyātattvaṃ paraṃ tattva sūryeduvahnimaṇḍalam / vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet
1.28.8
गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते । अङ्गानि यथा-आच क्रं च सुचक्रं च विचक्रं च तथैच
gopījanavallabhāya svāhānto manurucyate / aṅgāni yathā-āca kraṃ ca sucakraṃ ca vicakraṃ ca tathaica
1.28.9
त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् । हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः
trailokyarakṣakaṃ cakramasurārisudarśanam / hṛdādipūrvakoṇaṣu astraṃ śaktiṃ ca pūrvataḥ
1.28.10
रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि । लक्ष्मणा मित्रविन्दा च जाम्बवत्या शुशीलया
rukmiṇī satyabhāmā ca sunandā nāgnajityapi / lakṣmaṇā mitravindā ca jāmbavatyā śuśīlayā
1.28.11
शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् । खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत्
śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet / khaṅgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet
1.28.12