Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 40

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ४० शङ्कर उवाच । माहेश्वरीं च मे पूजां वद शङ्खगदाधर । यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 40 śaṅkara uvāca / māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara / yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara

1.40.1

हरिरुवाच । शृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज । आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च

hariruvāca / śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja / ādau snātvā tathācamya hyāsane copaviśya ca

1.40.2

न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् । मन्त्रैरेतैर्महेशान परिवारयुतं हरम्

nyāsaṃ kṛtvā maṇḍale vai pūjayacce maheśvaram / mantrairetairmaheśāna parivārayutaṃ haram

1.40.3

ॐ हां शिवासनदेवता आगच्छतेति । अनेनावाहयेद्रुद्र देवता आसनस्य याः

oṃ hāṃ śivāsanadevatā āgacchateti / anenāvāhayedrudra devatā āsanasya yāḥ

1.40.4

ॐ हां गणपतये नमः । ॐ हां सरस्वत्यै नमः । ॐ हां नन्दिने नमः । ॐ हां महाकालाय नमः । ॐ हां गङ्गायै नमः । ॐ हां लक्ष्म्यै नमः । ॐ हां महाकलायै नमः । ॐ हां अस्त्राय नम इति

oṃ hāṃ gaṇapataye namaḥ / oṃ hāṃ sarasvatyai namaḥ / oṃ hāṃ nandine namaḥ / oṃ hāṃ mahākālāya namaḥ / oṃ hāṃ gaṅgāyai namaḥ / oṃ hāṃ lakṣmyai namaḥ / oṃ hāṃ mahākalāyai namaḥ / oṃ hāṃ astrāya nama iti

1.40.5

एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर । ॐ हां ब्रह्मणे वास्त्वधिपतये नमः । ॐ हां गुरुभ्यो नमः । ॐ हां आधारशक्त्यै नमः । ॐ हां अनन्ताय नमः । ॐ हां धर्माय नमः । ॐ हां ज्ञानाय नमः । ॐ हां वैराग्याय नमः । ॐ हां ऐश्वर्याय नमः । ॐ हां अधर्माय नमः । ॐ हां अज्ञानाय नमः । ॐ हां अवैराग्याय नमः । ॐ हां अनैश्वर्याय नमः । ॐ हां उर्ध्वच्छन्दाय नमः । ॐ हां अधश्छन्दाय नमः । ॐ हां पद्माय नमः । ॐ हां कर्णिकायै नमः । ॐ हां वामायै नमः । ॐ हां ज्येष्ठायै नमः । ॐ हां रौद्यै नमः । ॐ काल्यै नमः । ॐ हां कलविकरण्यै नमः । ॐ बलप्रमथिन्यै नमः । ॐ हां सर्वभूतदमन्यै नमः । ॐ हां मनोन्मन्यै नमः । ॐ हां मण्डलत्रितयाय नमः । ॐ हां हौं हं शिवमूर्तये नमः । ॐ हां विद्याधिपतये नमः । ॐ हां हीं हौं शिवाय नमः । ॐ हां हृदयाय नमः । ॐ शिरसे नमः । ॐ हूं शिखायै नमः । ॐ हैं कवचाय नमः । ॐ हौं नेत्रत्रयाय नमः । ॐ हः अस्त्राय नमः । ॐ सद्योजाताय नमः

ete dvāre prapūjyā vai snānagandhādibhirhara / oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ / oṃ hāṃ gurubhyo namaḥ / oṃ hāṃ ādhāraśaktyai namaḥ / oṃ hāṃ anantāya namaḥ / oṃ hāṃ dharmāya namaḥ / oṃ hāṃ jñānāya namaḥ / oṃ hāṃ vairāgyāya namaḥ / oṃ hāṃ aiśvaryāya namaḥ / oṃ hāṃ adharmāya namaḥ / oṃ hāṃ ajñānāya namaḥ / oṃ hāṃ avairāgyāya namaḥ / oṃ hāṃ anaiśvaryāya namaḥ / oṃ hāṃ urdhvacchandāya namaḥ / oṃ hāṃ adhaśchandāya namaḥ / oṃ hāṃ padmāya namaḥ / oṃ hāṃ karṇikāyai namaḥ / oṃ hāṃ vāmāyai namaḥ / oṃ hāṃ jyeṣṭhāyai namaḥ / oṃ hāṃ raudyai namaḥ / oṃ kālyai namaḥ / oṃ hāṃ kalavikaraṇyai namaḥ / oṃ balapramathinyai namaḥ / oṃ hāṃ sarvabhūtadamanyai namaḥ / oṃ hāṃ manonmanyai namaḥ / oṃ hāṃ maṇḍalatritayāya namaḥ / oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ / oṃ hāṃ vidyādhipataye namaḥ / oṃ hāṃ hīṃ hauṃ śivāya namaḥ / oṃ hāṃ hṛdayāya namaḥ / oṃ śirase namaḥ / oṃ hūṃ śikhāyai namaḥ / oṃ haiṃ kavacāya namaḥ / oṃ hauṃ netratrayāya namaḥ / oṃ haḥ astrāya namaḥ / oṃ sadyojātāya namaḥ

1.40.6

ॐ हां सिद्ध्यै नमः । ॐ हां ऋद्ध्यै नमः । ॐ हां विद्युतायै नमः । ॐ हां लक्ष्म्यै नमः । ॐ हां बोधायै नमः । ॐ हां काल्यै नमः । ॐ हां स्वधायै नमः । ॐ हां प्रभायै नमः

oṃ hāṃ siddhyai namaḥ / oṃ hāṃ ṛddhyai namaḥ / oṃ hāṃ vidyutāyai namaḥ / oṃ hāṃ lakṣmyai namaḥ / oṃ hāṃ bodhāyai namaḥ / oṃ hāṃ kālyai namaḥ / oṃ hāṃ svadhāyai namaḥ / oṃ hāṃ prabhāyai namaḥ

1.40.7

सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः

satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ

1.40.8

ॐ हां वामदेवाय नमः । ॐ हां रजसे नमः । ॐ हां रक्षायै नमः । ॐ हां रत्यै नमः । ॐ हां कन्यायै नमः । ॐ हां कामायै नमः । ॐ हां जनन्यै नमः । ॐ हां क्रियायै नमः । ॐ हां वृद्ध्यै नमः । ॐ हां कार्यायै नमः । ॐ रा(धा) त्र्यै नमः । ॐ हां भ्रामण्यै नमः । ॐ हां मोहिन्यै नमः । ॐ हां क्ष(त्व)रायै नमः । वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज

oṃ hāṃ vāmadevāya namaḥ / oṃ hāṃ rajase namaḥ / oṃ hāṃ rakṣāyai namaḥ / oṃ hāṃ ratyai namaḥ / oṃ hāṃ kanyāyai namaḥ / oṃ hāṃ kāmāyai namaḥ / oṃ hāṃ jananyai namaḥ / oṃ hāṃ kriyāyai namaḥ / oṃ hāṃ vṛddhyai namaḥ / oṃ hāṃ kāryāyai namaḥ / oṃ rā(dhā) tryai namaḥ / oṃ hāṃ bhrāmaṇyai namaḥ / oṃ hāṃ mohinyai namaḥ / oṃ hāṃ kṣa(tva)rāyai namaḥ / vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja

1.40.9

ॐ हां तत्पुरुषाय नमः । ॐ हां निवृत्त्यै नमः । ॐ हां प्रतिष्ठायै नमः । ॐ हां विद्यायै नमः । ॐ हां शान्त्यै नमः । ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज

oṃ hāṃ tatpuruṣāya namaḥ / oṃ hāṃ nivṛttyai namaḥ / oṃ hāṃ pratiṣṭhāyai namaḥ / oṃ hāṃ vidyāyai namaḥ / oṃ hāṃ śāntyai namaḥ / jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja

1.40.10

ॐ हां तृष्णायै नमः । कलाषट्कं ह्यखोरस्य विज्ञेयं भैरवं हर

oṃ hāṃ tṛṣṇāyai namaḥ / kalāṣaṭkaṃ hyakhorasya vijñeyaṃ bhairavaṃ hara

1.40.11

ॐ हां ईशानाय नमः । ॐ हां समित्यै नमः । ॐ हां अङ्गदायै नमः । ॐ हां कृष्णायै नमः । ॐ हां मरीच्यै नमः । ॐ हां ज्वालायै नमः । ईशानस्य कलाः पञ्च जानीहि वृषभध्वज

oṃ hāṃ īśānāya namaḥ / oṃ hāṃ samityai namaḥ / oṃ hāṃ aṅgadāyai namaḥ / oṃ hāṃ kṛṣṇāyai namaḥ / oṃ hāṃ marīcyai namaḥ / oṃ hāṃ jvālāyai namaḥ / īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja

1.40.12

ॐ हां शिवपरिवारेभ्यो नमः । ॐ हां इन्द्राय सुराधिपतये नमः । ॐ हां अग्नये तेजो ऽधिपतये नमः । ॐ हां यमाय प्रेताधिपतये नमः । ॐ हां निरृतये रक्षो ऽधिपतये नमः । ॐ हां वरुणाय जलाधिपतये नमः । ॐ हां वायवे प्राणाधिपतये नमः । ॐ हां सोमाय नेत्राधिपतये नमः । ॐ हां ईशानाय सर्वविद्याधिपतये नमः । ॐ हां अनन्ताय नागाधिपतये नमः । ॐ हां ब्रह्मणे सर्वलोकाधिपतये नमः । ॐ हां धूलिचण्डेश्वराय नमः

oṃ hāṃ śivaparivārebhyo namaḥ / oṃ hāṃ indrāya surādhipataye namaḥ / oṃ hāṃ agnaye tejo 'dhipataye namaḥ / oṃ hāṃ yamāya pretādhipataye namaḥ / oṃ hāṃ nirṛtaye rakṣo 'dhipataye namaḥ / oṃ hāṃ varuṇāya jalādhipataye namaḥ / oṃ hāṃ vāyave prāṇādhipataye namaḥ / oṃ hāṃ somāya netrādhipataye namaḥ / oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ / oṃ hāṃ anantāya nāgādhipataye namaḥ / oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ / oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ

1.40.13

आवाहनं स्थापनं सन्निधानं च शङ्कर । सन्निरोधं तथा कुर्यात्सकलीकरणं तथा

āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara / sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā

1.40.14

तत्त्वन्यासं च मुद्राया दर्शनं द्यानमेव च । पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यङ्गदानकम्

tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca / pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam

1.40.15

तत उद्वर्तनं स्नानं सुगन्धं चानुलेपनम् । वस्त्रालं कारभोगांश्च ह्यङ्गन्यासं च धूपकम्

tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam / vastrālaṃ kārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam

1.40.16

दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च । पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम्

dīpaṃ naivedyadānaṃ ca hastodvartanameva ca / pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam

1.40.17

नृत्यं छत्रा दिकरणं मुद्राणां दर्शनं तता । रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च

nṛtyaṃ chatrā dikaraṇaṃ mudrāṇāṃ darśanaṃ tatā / rūpaṃ dhyānaṃ japañcātha ekavadbhāva eva ca

1.40.18

मूलमन्त्रेण वै कुर्याज्जपपूजासमर्पणम् । माहेशी कथिता पूजा रुद्र पापविनासिनी

mūlamantreṇa vai kuryājjapapūjāsamarpaṇam / māheśī kathitā pūjā rudra pāpavināsinī

1.40.19

1.391.41