Kaanda 2, Sukta 26
पशुसंवर्धनम्। १-५ सविता। पशवः। त्रिष्टुप्, ३ उपरिष्टाद्विराड् बृहती, ४ भुरिगनुष्टुप्, ५ अनुष्टुप्। एह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑ । त्वष्टा॒ येषां॑ रूप॒धेया॑नि वेदा॒स्मिन् तान् गो॒ष्ठे स॑वि॒ता नि य॑छतु ॥१॥ इ॒मं गो॒ष्ठं प॒शवः॒ सं स्र॑वन्तु॒ बृह॒स्पति॒रा न॑यतु प्रजा॒नन्। सि॒नी॒वा॒ली न॑य॒त्वाग्र॑मेषामाज॒ग्मुषो॑ अनुमते॒ नि य॑छ ॥२॥ सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः । सं धा॒न्यऽस्य॒ या स्फा॒तिः सं॑स्रा॒व्येऽण ह॒विषा॑ जुहोमि ॥३॥ सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रसम्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥४॥ आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं॑१ रस॑म्। आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम्॥५॥