Atharvaveda

Kaanda 2, Sukta 28

दीर्घायुःप्राप्तिः। १-५ शम्भुः। १, ३ जरिमा, आयुः, २ मित्रावरुणौ, ३-५ द्यावापृथिव्यादयो देवाः। त्रिष्टुप्, १जगती, ५ भुरिक्। तुभ्य॑मे॒व ज॑रिमन् वर्धताम॒यं मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये॑। मा॒तेव॒ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त् पा॒त्वंह॑सः ॥१॥ मि॒त्र एनं॒ वरु॑णो वा रि॒शादा॑ ज॒रामृ॑त्युं कृणुतां संविदा॒नौ। तद॒ग्निर्होता॑ व॒युना॑नि विद्वान् विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति ॥२॥ त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑ । मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥३॥ द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥४॥ इ॒मम॑ग्ने॒ आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्रराजन्। मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्य॑थास॑त्॥५॥

← PrevNext →