Kaanda 7, Sukta 116
ज्वरनाशनम्। १-२ अथर्वाङ्गिराः। चन्द्रमाः। १ पुरोष्णिक्, २ एकावसाना द्विपदा आर्च्यनुष्टुप्। नमो॑ रू॒राय॒ च्यव॑नाय॒ नोद॑नाय धृ॒ष्णवे॑ । नमः॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ॥१॥ यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूकम॒भ्येऽत्वव्र॒तः ॥२॥