Mandala 1, Sukta 172
३ अगस्त्यो मैत्रावरुणिः । मरुतः। गायत्री। चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः । मरु॑तो॒ अहि॑भानवः ॥१॥ आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑: । आ॒रे अश्मा॒ यमस्य॑थ ॥२॥ तृ॒ण॒स्क॒न्दस्य॒ नु विश॒: परि॑ वृङ्क्त सुदानवः । ऊ॒र्ध्वान् नः॑ कर्त जी॒वसे॑ ॥३॥