Rigveda

Mandala 2, Sukta 43

३ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। शकुन्तः(-कपिञ्जलरूपीन्द्रः)। जगती, २ अतिशक्वरी अष्टिर्वा। प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः । उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥१॥ उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि । वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥२॥ आ॒वदं॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः । यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑: ॥३॥ ॥इति द्वितीयं मण्डलं समाप्तम्॥

← PrevNext →