Mandala 6, Sukta 57
६ बार्हस्पत्यो भरद्वाज: ।इंद्रापूषणौ । गायत्री । इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ । हु॒वेम॒ वाज॑सातये ॥१॥ सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑: सु॒तम् । क॒र॒म्भम॒न्य इ॑च्छति ॥२॥ अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता । ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥३॥ यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः । तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥४॥ तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व । इन्द्र॑स्य॒ चा र॑भामहे ॥५॥ उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः । म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥६॥