← Chapter 18

Chapter 18, Verse 40

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्ित्रभिर्गुणैः।।18.40।।

na tad asti pṛithivyāṁ vā divi deveṣhu vā punaḥ sattvaṁ prakṛiti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ

Word meanings: na—no; tat—that; asti—exists; pṛithivyām—on earth; vā—or; divi—the higher celestial abodes; deveṣhu—amongst the celestial gods; vā—or; punaḥ—again; sattvam—existence; prakṛiti-jaiḥ—born of material nature; muktam—liberated; yat—that; ebhiḥ—from the influence of these; syāt—is; tribhiḥ—three; guṇaiḥ—modes of material nature

Shri Purohit Swami

There is nothing anywhere on earth or in the higher worlds that is free from the three Qualities, for they are born of Nature.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।18.40।।क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यमुक्त्वा संसारान्तर्भूतमेव किंचिद्गुणत्रयास्पृष्टमपि क्वचिद्भविष्यतीत्याशङ्क्याह -- अथेति। संसारस्य सर्वस्यैव गुणत्रयसंस्पृष्टत्वं प्रकरणम्? अन्यद्वाऽप्राणीत्यत्राप्राणिशब्देन प्रसिद्ध्या स्थावरादि गृह्यते। 
Sri Dhanpati
।।18.40।।क्रियाकारकफलानां प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यमुक्त्वा किंचिदेभिस्त्रिभिर्गुणैर्मुक्तमपि भविष्यतीत्याकाङ्क्षानुपपत्तयेऽनुक्तमपि संगृह्णन्प्रकरणार्थमुपसंहरति। न तदस्ति पृथिव्यां वा मनुष्यादिसत्त्वं प्राणिजातमन्यद्वाऽप्राणिजातं स्थावरादि दिवि देवेषु वा पुनः प्रकृतिजैः प्रकृतितो जातैः एभिस्त्रिभिर्गुणैः सत्त्वादिभिः मुक्तं,परित्यक्तं यत्स्यात्तन्नास्तीत्यर्थः। अदिवीति परलोकत्वसादृश्यादब्राह्मण इतिवत्। पातालादिपरमितीतरे। आचार्यैस्तु तृतीयवाशब्दाभावात्पृथिवीविवरात्मकस्य पातालस्यापि पृथिवीशब्देन संग्रहसंभवात्प्रत्योजनशून्यक्लिष्टकल्पनाया अयुक्तत्वाच्चैवं न व्याख्यातम्। तथाच क्रियाकारकफललक्षणः सर्वोऽपि संसारः सत्त्वरजस्तमोगुणात्मकोऽविद्यापरिकल्पितः समूलोऽनर्थः आत्मज्ञानेनाविद्यानिवृत्त्या इति भावः।
Sri Madhavacharya
।।18.40।।Sri Madhvacharya did not comment on this sloka.,
Sri Neelkanth
।।18.40।।प्रकरणार्थमुपसंहरत्यनुक्तमपि संगृह्णन् -- न तदस्तीति। सत्त्वं प्राणिजातम्। इदमुपलक्षणं जडस्यापि। सर्वस्य त्रिगुणविकारत्वात्। प्रकृतिजैर्जन्मान्तरीयधर्माधर्मसंस्कारजैः मायाप्रभवैर्वा। शेषं स्पष्टम्।
Sri Ramanujacharya
।।18.40।।पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिस्थावरान्तेषु प्रकृतिजैः एभिः त्रिभिः गुणैः मुक्तं यत् सत्त्वं प्राणिजातं न तद् अस्ति।त्यागेनैके अमृतत्वमानशुः (महाना0 8।14) इत्यादिषु मोक्षसाधनतया निर्दिष्टः त्यागः संन्यासशब्दार्थाद् अनन्यः? स च क्रियमाणेषु एव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोः त्यागः कर्तृत्वत्यागः च परमपुरुषे कर्तृत्वानुसन्धानेन इति उक्तम्। एतत् सर्वं सत्त्वगुणवृद्धिकार्यम् इति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः इदानीम् एवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषताम्? तथा अनुष्ठितस्य च कर्मणः तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपम् आह -- 
Sri Sridhara Swami
।।18.40।।अनुक्तमपि संगृह्णन्प्रकरणार्थमुपसंहरति  -- न तदस्तीति। एभिः प्रकृतिसंभवैः सत्त्वादिभिस्त्रिभिर्गुणैर्मुक्तं हीनं सत्त्वं प्राणिजातमन्यद्वा यत्स्यात्तत्पृथिव्यां मनुष्यलोकादिषु दिवि देवेषु च क्वापि नास्तीत्यर्थः।
Sri Vedantadeshikacharya Venkatanatha
।।18.40।।प्राकृतगुणातीतशुद्धसत्त्वमयभगवत्प्राप्तिलक्षणमोक्षात् प्राङ्नियतदेशकालफलभोगैरुच्चावचैः सर्वैरपि क्षेत्रज्ञैरुक्तस्य त्रिगुणस्य निश्शेषदुस्त्यजत्वमुखेन गुणकार्यप्रकरणं निगम्यते -- न तदस्ति इति श्लोकेन। गुणत्रयप्रकरणं तु नात्रोपसंहृतम्? अनन्तरमपिस्वभावप्रभवैर्गुणैः [18।41] इत्युक्तेः।दिवि देवेषु इति सत्त्वोत्तरदेशाधिकारिणामुपलक्षणम्। तत्तुल्यतयापृथिव्याम् [7।9] इत्यत्रापिमनुष्यादिष्विति राजसतामसाधिकारिविवक्षाख्यापनम्।हिरण्यगर्भो भगवान् [वि.पु.6।7।56]आब्रह्मस्तम्बपर्यन्ताः [वि.ध.104।23] इत्याद्यनुसारेण बहुवचनाभिप्रेतमाह -- ब्रह्मादिष्विति। गुणप्रकरणात् सत्त्वशब्दस्य गुणविशेषार्थताभ्रमव्युदासाय प्राणिशब्दः। समुदायरूपेणापि निर्धार्यमाणेषु तत्रापि गुणनिर्मुक्तं न किञ्चित्सत्त्वमित्यभिप्रायेण जातशब्दः। जातमिति वा व्यस्तम् -- आसंसारं जन्मप्रभृति गुणबद्धताद्योतनार्थम्।
Sri Abhinavgupta
।।18.40।।न तदस्तीति।  एवं कर्तृकर्मकरणानां ( N -- कारणानाम् ) बुद्धिधृत्योः सुखस्य च सत्त्वादिभेदभिन्नानां परस्पराङ्गाङ्गिभावबाध्यबाधकत्वसमुच्चयात् वृत्तिक्रमयौगपद्यादियोगात् ( S  -- पद्यादिभेदात् ) अपरिसंख्येयभेदत्त्वात् विविधफलप्रसवसमर्थत्वम् इति।  अनेन कर्मणां प्राक् सूत्रितं गहनत्वं वितत्य सहेतुकं निर्णीतम्।  सर्वे चैते देवादिस्थावरान्ताः गुणत्रयसंबन्धं नातिक्रामन्ति।  उक्तं हि -- आ ब्रह्मणश्च कीटान्तं ( S?N कीटाच्च )   न कश्चित्तत्त्वतः सुखी।करोति विकृतीस्तास्ताः   सर्व एव जिजीविषुः ( S??N omit this second half of the verse ) ।।इतितत्त्वतो हि सुखं गुणातिक्रान्तमनसः? नेतरस्येत्याशयः।
Sri Jayatritha
।।18.40।।Sri Jayatirtha did not comment on this sloka.
Sri Madhusudan Saraswati
।।18.40।।इदानीमनुक्तमपि संगृह्णन्प्रकरणार्थमुपसंहरति भगवान् -- न तदस्तीति। सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्ततो जातैर्वैषम्यावस्थां प्राप्तैः प्रकृतिजैर्नतु साक्षाद्गुणानां प्रकृतिजत्वमस्ति तद्रूपत्वात्तस्माद्वैषम्यावस्थैव तदुत्पत्तिरुपचारात्। अथवा प्रकृतिर्माया तत्प्रभवैस्तत्कल्पितैः प्रकृतिजैरेभिस्त्रिभिर्गुणैर्बन्धनहेतुभिः सत्त्वादिभिर्मुक्तं हीनं सत्त्वं प्राणिजातमप्राणि वा यत्स्यात् तत्पुनः पृथिव्यां मनुष्यादिषु दिवि देवेषु वा नास्ति। क्वापि गुणत्रयरहितमनात्मवस्तु नास्तीत्यर्थः।
Sri Purushottamji
।।18.40।।एवं यज्ञादीनां सर्वेषां त्रिविधरूपमुक्त्वाऽप्यथ स्वसम्बन्धातिरिक्तस्य त्रिगुणात्मकतां सर्वस्याऽऽह -- न तदस्तीति। एभिः प्रकृतिजैः प्रकृत्युद्भवैस्त्रिभिः सात्त्विकादिभिर्गुणैर्मुक्तं रहितं सत्त्वं प्राणिजातं यत्स्थावरादिकमन्यद्वा पृथिव्यां मनुष्येषु? वाशब्देन नागादिलोकेषु च दिवि देवलोके वा पुनः देवेषु स्यात् तत्,नास्तीत्यर्थः। सात्त्विकादिष्वपि त्रैविध्यमस्तीतिवा पुनः इत्यनेन केवलसात्त्विकत्वाद्देवेष्वसम्भावितत्वादस्त्येवेति निर्धारितम्।
Sri Shankaracharya
।।18.40।। --,न तत् अस्ति तत् नास्ति पृथिव्यां वा मनुष्यादिषु सत्त्वं प्राणिजातम् अन्यद्वा अप्राणि? दिवि देवेषु वा पुनः सत्त्वम्? प्रकृतिजैः प्रकृतितः जातैः एभिः त्रिभिः गुणैः सत्त्वादिभिः मुक्तं परित्यक्तं यत् स्यात्? न तत् अस्ति इति पूर्वेण संबन्धः।।सर्वः संसारः क्रियाकारकफललक्षणः सत्त्वरजस्तमोगुणात्मकः अविद्यापरिकल्पितः समूलः अनर्थः उक्तः? वृक्षरूपकल्पनया च ऊर्ध्वमूलम् (गीता 15।1) इत्यादिना? तं च असङ्गशस्त्रेण दृढेन च्छित्त्वा (गीता 15।3) ततः पदं तत्परिमार्गितव्यम् (गीता 15।4) इति च उक्तम्। तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारणनिवृत्त्यनुपपत्तौ प्राप्तायाम्? यथा तन्निवृत्तिः स्यात् तथा वक्तव्यम्? सर्वश्च गीताशास्त्रार्थः उपसंहर्तव्यः? एतावानेव च सर्ववेदस्मृत्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवमर्थम् ब्राह्मणक्षत्रियविशाम् इत्यादिः आरभ्यते --,
Sri Vallabhacharya
।।18.40।।किमन्यद्वाच्यं प्राणिषु सर्वं प्राकृतत्रिगुणमयमेवेत्याह -- न तदस्तीति। दिवि ब्रह्मलोकपर्यन्तं दिव्येषु प्राकृतैर्गुणैर्मुक्तं सत्त्वं किमपि नास्ति? पृथिव्यां च तथा न देवेष्वधस्तादादिषु पृथिव्यामवतीर्य द्योतमानमहिमस्वपि च तथा न किन्तु क्रियया सगुणत्वमस्त्येवेति पृथग्वा बोध्यम्। (यतोऽप्राकृतमपि भागवतं गुणत्रयमस्ति प्राकृतगुणकार्यनाशकं मन्तव्यं अन्यथा प्रकृतिजैर्गुणैर्मुक्तं सत्वं पृथिव्यादिषु नास्तीति न वदेत्? तस्यैवाप्रसिद्धत्वात् गुणावताराश्च भगवतोऽप्राकृता न भवेयुः स तस्य सत्त्वसम्बन्धः कथं भवेद्भेदाभावे अतस्त्रयो गुणा ब्रह्मविष्णुशिवेष्वेव प्रतिष्ठिताः? अत्र सच्चिदानन्दधर्मत्वात् क्वचिद्विष्णोः सत्त्वमाधारत्वेनादत्ते यदि न केवलोऽवतरतीति) अतएव भगवतो लीला लोकवत्सगुणापि निरूपिताभूगोगोप्यादीनां चापि इति सुबोधिन्यां स्थितम्। वस्तुतस्तुलोकवत्तु लीलाकैवल्यं [ब्र.सू.2।1।33] इति व्यासेन सूत्रितमेवं चानुकरणे तथा स्वरूपतो गुणातीतत्वमित्यवसेयम्।
← PrevNext →