← Chapter 6

Chapter 6, Verse 10

योगी युञ्जीत सततमात्मानं रहसि स्थितः।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः।।6.10।।

yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ ekākī yata-chittātmā nirāśhīr aparigrahaḥ

Word meanings: yogī—a yogi; yuñjīta—should remain engaged in meditation; satatam—constantly; ātmānam—self; rahasi—in seclusion; sthitaḥ—remaining; ekākī—alone; yata-chitta-ātmā—with a controlled mind and body; nirāśhīḥ—free from desires; aparigrahaḥ—free from desires for possessions for enjoyment

Shri Purohit Swami

Let the student of spirituality try unceasingly to concentrate his mind; let him live in seclusion, absolutely alone, with his mind and personality controlled, free from desire and without possessions.

Classical Commentaries (संस्कृत भाष्य)

Sri Anandgiri
।।6.10।।यथोक्तविशेषणवतो योगारूढेषूत्तमत्वे योगानुष्ठाने प्रयतितव्यमित्यङ्गाभिधानानन्तरं प्रधानमभिदधाति  अत एवमिति। आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योगस्य सूचयति  सततमिति। तस्यैव पञ्चाङ्गान्युपन्यस्यति  रहसीत्यादिना। सर्वदेत्यादरदीर्घकालयोरुपलक्षणम्। प्रत्यगात्मानं व्यावर्तयति  अन्तःकरणमिति। गिरिगुहादावित्यादिशब्देन योगप्रतिबन्धकदुर्जनादिविधुरो देशो गृह्यते। विशेषणद्वयस्य तात्पर्यमाह  रहसीति। योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शशति  यतेति। सति संन्यासित्वे किमित्यपरिग्रहग्रहणमर्थपुनरुक्तेरित्याशङ्क्य कौपीनाच्छादनादिष्वपि शक्तिनिवृत्त्यर्थमित्याह  संन्यासित्वेऽपीति।
Sri Dhanpati
।।6.10।।एवं योगारुढस्य लक्षणं फलं च प्रदर्शितम्। अत उत्तमफलप्राप्तये योगारुढतां संपादयेदित्याह  योगीति। योगी ध्यानी रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी सहायवर्जितः। रहसि स्थित एकाकीति विशेषणात्संन्यासं कृत्वेत्यर्थः। एकाकीत्यस्य शिष्यादिसहायरहित इत्यपि बोध्यम्। यतौ वशीकृतौ चित्तात्मानौ चित्तदेहौ यस्य स चित्तस्य चिन्तनात्मनोऽन्तःकरणपरिणामस्य यतत्वमनुभूतार्थचिन्ताव्यावृत्तत्वं देहस्य च यतत्वं मक्षिकादंशपिपीलिकादिबाधयाप्यकम्पितत्वे सति चिरकालासनप्रयुक्तदुःखशून्यत्वम्। निराशीः फलतृष्णाशून्यः। अनेन वैराग्यादिसाधनसंपन्नो मुमुक्षुः कथितः। अपरिग्रहः संन्यासित्वेऽपि चोरभयजनकपुस्तकादिसर्वपरिग्रहशून्यः एतादृशः सन् सततं सर्वदा आत्मानमन्तःकरणं युञ्जीत समादध्यात् वृत्तिनिरोधेन निरुन्ध्यात्। वृत्तयश्च पञ्चविधाः प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति। तत्र प्रत्यक्षानुमानागमाख्यानि त्रीणि प्रमाणानीति सांख्यादयः। उपमानमप्यङ्गीकृत्य चत्वारीति गौतमाः। अर्थापत्तिमनुपलब्धिं चाश्रित्य षडिति वेदान्तिनो याज्ञिकाश्च। संभवमैतिह्यं चाश्रित्याष्टाविति पौराणिकाः। विपर्ययो मिथ्याज्ञानमतस्मिंस्तद्वुद्धिः शुक्तिर्वा रजतः वेत्येवमादिरुपः। प्रमा भ्रमविलक्षणो विकल्पः। निद्रास्मृती लोकप्रसिद्धे। अन्यासामपि वृत्तीनामेतास्वन्तर्भावो द्रष्टव्यः। तथाचैतदृत्तिनिरोधेनान्तःकरणं चित्तं समादध्यादिति।
Sri Madhavacharya
।।6.10  6.11।।समाधियोगप्रकारमाह  योगं युञ्जीतेत्यादिना इति। युञ्जीत समाधियोगयुक्तं कुर्यात्। आत्मानं मनः।
Sri Neelkanth
।।6.10।।योगीति। योगी योगाभ्यासपरः रहसि एकान्ते स्थितः सन् आत्मानं बुद्धिं युञ्जीत समादध्यात्। सततमिति नैरन्तर्यमुक्तम्। निराशीर्योगसिद्धेरन्यदप्रार्थयानः तेदकनिष्ठ इति यावत्। तेन सत्कार उक्तः। एकाकीअसहायः संन्यासीत्यर्थः। यतौ स्थिरीकृतौ चित्तं मनः आत्मा सेन्द्रियं शरीरं येन स यतचित्तात्मा। तथा अपरिग्रह एकाकित्वेऽपि कन्थापुस्तकादिबहुपरिग्रहशून्यः।
Sri Ramanujacharya
।।6.10।।योगी उक्तप्रकारकर्मयोगनिष्ठः सततम् अहरहः योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत स्वदर्शननिष्ठं कुर्वीत इत्यर्थः। रहसि जनवर्जिते निःशब्दे देशे स्थितः एकाकी तत्रापि न सद्वितीयः तत्रापि यतचित्तात्मा यतचित्तमनस्कः निराशीः आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्व्यतिरिक्ते कस्मिंश्चिद् अपि ममतारहितः।
Sri Sridhara Swami
।।6.10।।एवं योगारूढस्य लक्षणमुक्त्वेदानीं तस्य साङ्गं योगं विधत्ते  योगीत्यादिना। स योगी परमो मत इत्यन्तेन ग्रन्थेन। योगीति। योगी योगारूढः आत्मानं मनो युञ्जीत समाहितं कुर्यात्। सततं निरन्तरं रहस्येकान्ते स्थितः सन्नेकाकी सङ्गशून्यः यतं संयतं चित्तमात्मा देहश्च यस्य निराशीर्निराकाङ्क्षो निराहारो वा अपरिग्रहः परिग्रहशून्यश्च।
Sri Vedantadeshikacharya Venkatanatha
।।6.10।।अथाध्यायप्रधानाथेभूतयोगाभ्यासविधिरुच्यते  योगीं युञ्जीत इत्यादिना।युञ्जीत इति साक्षात्काररूपस्य योगस्य विधीयमानत्वात्योगी इत्यनेन कर्मयोगनिष्ठत्वानुवादः क्रियत इत्यभिप्रायेणाह उक्तप्रकारेति।सततं इत्येतन्न सर्वकालविषयम् तथा योगशास्त्रैः अनभिहितत्वात् अशक्यत्वाच्च। अतः प्रतिदिवसं योगयोग्यतया विहितसत्त्वोत्तरकालसामस्त्यपरमित्यभिप्रायेणाह  अहरहर्योगकाल इति।युञ्जीत इत्यत्र विवक्षितमर्थं वक्तुं प्रकृतिप्रत्ययार्थभेदं दर्शयति  युक्तं कुर्वीतेति। तत्रयुज समाधौ इति प्रकृत्यंशस्य विवक्षितं व्यनक्ति  स्वदर्शनेति। आत्माऽत्र मनः स्वात्मा वा। जनवर्जितेऽपि देशे बाह्यदेशस्थितानां शब्दस्यावने सति मनस्समाधानं न स्यादिति तन्निवृत्त्यर्थमुक्तंनिश्शब्द इति।रहसि इति विजनदेशाभिधानेऽपि पुनःएकाकी इति पदं रहस्यार्हात्यासन्नशिष्यसब्रह्मचार्यादिसन्निधिपरित्यागार्थमित्यभिप्रायेणाहतत्रापि न सद्वितीय इति। यद्वा रहश्शब्देन जनवर्जनद्वारा निश्शब्दत्वं लक्ष्यते। एकाकिशब्देन तु जनवर्जनमेवोच्यत इति भावः। व्युत्थानकालेऽपि एकाकित्वमनेनोच्यत इत्येके। ततोऽप्यस्यार्थस्यात्यन्तोपकारित्वादेवं योजना। एतेनरहसि स्थितः एकाकी च इति विशेषणात् सन्न्यासं कृत्वेत्यर्थः इतिशङ्करोक्तं प्रत्युक्तम्। आत्मशब्देन मनसोऽभिधानेऽपि तस्यैव चिन्तारूपवृत्त्यपेक्षया तद्विशिष्टापेक्षया वा चित्तशब्द इत्यभिप्रायेणाह  यतचित्तमनस्क इति। आशीश्शब्दस्यानेकार्थत्वादिह निषेध्यविशेषव्यक्त्यर्थमुक्तंनिरपेक्ष इति। अपरिग्रहशब्देन बुद्ध्या स्वीकारपर्यायः परिग्रहोऽत्र निषिध्यत इत्यभिप्रायेणाह  ममतारहित इति।
Sri Abhinavgupta
।।6.10  6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय  इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते  योगीत्यादि अधिगच्छतीत्यन्तम्।  आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्।  सततमिति  न परिमितं कालम्।  एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा।  आसनस्थैर्यात् कालस्थैर्ये (S  कालस्थैर्यम्) चित्तस्थैर्यम्।  चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः।  धारयन् यत्नेन।  नासिकाग्रस्यावलोकने  सति  दिशामनवलोकनम्।  मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)।  एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः (K  प्राप्तिर्योगोऽस्तीति)।
Sri Jayatritha
।।6.10  6.11।।ननुउद्धरेत् 6।5 इत्यनेनैव योगो विहितः तत्किं पुनर्विधीयते इत्यत आह  समाधीति। प्रकारकथनाय विध्यनुवाद इत्यर्थः।युञ्जीत इति योगमात्रमुच्यते तत्कथं समाधीत्युक्तं इत्यत आह  युञ्जीतेति। सामान्यशब्दोऽपि प्रकरणाद्विशेषेऽवतिष्ठते इत्यर्थः। आत्मशब्दस्यात्र विवक्षितमर्थमाह  आत्मानमिति।
Sri Madhusudan Saraswati
।।6.10।।एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्यादिभिः  स योगी परमो मत इत्यन्तैस्त्रयोविंशत्या श्लोकैः। तत्रैवमुत्तमफलप्राप्तये  योगी योगारूढ आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तमूढविक्षिप्तभूमिपरित्यागेनैकाग्रनिरोधभूम्यां समाहितं कुर्यात्। रहसि गिरिगुहादौ योगप्रतिबन्धकदुर्जनादिवर्जिते देशे स्थितः एकाकी त्यक्तसर्वपरिग्रहजनः संन्यासी चित्तमन्तःकरणमात्मा देहश्च संयतौ योगप्रतिबन्धकव्यापारशून्यौ यस्य स यतचित्तात्मा। यतो निराशीर्वैराग्यदार्ढ्येन विगततृष्णः। अतएव वापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योगप्रतिबन्धकेन परिग्रहेण शून्यः।
Sri Purushottamji
।।6.10।।एवं योगारूढस्वरूपमुक्त्वा तस्य भावस्वरूपसिद्ध्यर्थं योगसाधनप्रकारमाहयोगी इत्यारभ्यस योगी परमो मतः 6।32 इत्यन्तम्। योगी योगारूढः आत्मानं भावात्मकं रूपं रहसि एकान्ते भगवच्चिन्तनस्थाने स्थितः सन् समाहितः सन् सततं युञ्जीत भगवति युक्तं कुर्यात्। एकाकी सङ्गदोषरहितः। यतचित्तात्मा यर्त वशीकृतं स्वभोगादिरहितं चित्तं भावरूपमात्मा देहेऽधिकरणात्मको येन। निराशीर्निर्गता मोक्षाद्याऽऽकाङ्क्षा यस्य। अपरिग्रहः संसर्गदुःखज्ञानेन त्यक्तपरिग्रहः सर्वापेक्षारहितः। एव युक्तचित्तः सन् मद्ध्यानं कुर्यादित्यर्थः।
Sri Shankaracharya
।।6.10।। योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी असहायः। रहसि स्थितः एकाकी च इति विशेषणात् संन्यासं कृत्वा इत्यर्थः। यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा निराशीः वीततृष्णः अपरिग्रहः परिग्रहरहितश्चेत्यर्थः। संन्यासित्वेऽपि त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः।।अथेदानीं योगं युञ्जतः आसनाहारविहारादीनां योगसाधनत्वेन नियमो वक्तव्यः प्राप्तयोगस्य लक्षणं तत्फलादि च इत्यत आरभ्यते। तत्र आसनमेव तावत् प्रथममुच्यते 
Sri Vallabhacharya
।।6.10  6.13।।एवं योगारूढस्य स्वरूपमुक्त्वाऽऽरुरुक्षोः साङ्गं योगं विदधतः सिद्धिमाह  योगी इत्यादिनामत्संस्थामधिगच्छति 15 इत्यन्तेन। योगी युञ्जानो रहसि स्थितः आत्मानं सततं युञ्जीत।
← PrevNext →