Chapter 6, Verse 9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।।6.9।।
suhṛin-mitrāryudāsīna-madhyastha-dveṣhya-bandhuṣhu sādhuṣhvapi cha pāpeṣhu sama-buddhir viśhiṣhyate
Word meanings: su-hṛit—toward the well-wishers; mitra—friends; ari—enemies; udāsīna—neutral persons; madhya-stha—mediators; dveṣhya—the envious; bandhuṣhu—relatives; sādhuṣhu—pious; api—as well as; cha—and; pāpeṣhu—the sinners; sama-buddhiḥ—of impartial intellect; viśhiṣhyate—is distinguished
Shri Purohit Swami
He looks impartially on all—lovers, friends, or foes; indifferent, hostile, alien, or relative; virtuous or sinful.
Classical Commentaries (संस्कृत भाष्य)
Sri Anandgiri
।।6.9।।योगारूढस्य प्रशस्तत्वमभ्युपेत्य योगस्याङ्गान्तरं दर्शयति किञ्चेति। परच्छेदः पदार्थोक्तिरिति व्याख्यानाङ्गं संपादयति सुहृदितीति। अरिर्नाम परोक्षमपकारकः प्रत्यक्षमप्रियो द्वेष्य इति विभागः। समबुद्धिरिति व्याचष्टे कः किमिति। प्रथमो हि प्रश्नो जातिगोत्रादिविषयो द्वितीयो व्यापारविषयः। उक्तप्रकारेणाव्यापृतबुद्धित्वे सर्वोत्कर्षो वा सर्वपायविमोक्षो वा सिध्यतीत्याह विशिष्यत इति। पाठद्वयेऽपि सिद्धमर्थं संगृह्य कथयति योगारूढानामिति।
Sri Dhanpati
।।6.9।।न केवलं समलोष्टाश्मकाञ्चन एव अपितु सुहृदादिष्वपि समबुद्धिरित्याह सुहृदिति। सुहृत्प्रत्युपकारमनपेक्ष्योपकर्ता मित्रं स्नेहादिमपेक्ष्य तत्कर्ता अरिः शत्रुः खङ्गहस्तो मारणायोद्यतः उदासीनः पक्षपातशून्यः मध्यस्थो विरोधं कुर्वतोर्द्वयोरपि हितैषी द्वेष्योऽपकर्तृत्वाद्वेषविषयः बन्धुर्भ्रात्रादिः संबन्धीत्येतेषु साधुषु शास्त्रानुवर्तिष्वपिच पापेषु प्रतिषिद्धकारिषु सर्वेष्वेतेषु समबुद्धिः। कः सुहृदादिः किमुपकारादिकर्मकर्तेत्यव्यापृतबुद्धिरित्यर्थः। विशिष्यते सर्वतः श्रेष्ठो भवतीत्यर्थः।विमुच्यते इति वा पाठः।
Sri Madhavacharya
।।6.9।।स एव च सर्वस्माद्विशिष्यते। साधुपापादिषु समबुद्धिः जीवचितः। परमात्मनः सर्वस्य तन्निमित्तकत्वस्य च सर्वत्रैकरूप्येण चिद्रूपा एव हि जीवाः। विशेषस्त्वन्तःकरणकृतः। सर्वेषां साधुत्वादिकं सर्वमीश्वरकृतमेव। स्वतो न किञ्चिदपि।उक्तं चैतत्सर्वम् स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः। जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः। सर्वं चेश्वरतस्तेषां न किञ्चित्स्वत एव तु। समा एवं ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम्। एवं समानजीवास्तु विशेषो देवतादिषु। स्वाभाविकस्तु नियमादत एव सनातनाः। असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि। गुणदोषौ मानवानां नित्यौ स्वाभाविकौ मतौ। गुणैकमात्ररूपास्तु देवा एव सदा मताः। इति ब्राह्मे। न तु साधुपापादीनां पूजादिसाम्यम् तत्र दोषस्मृतेःसमानां विषमा पूजा विषमानां समा तथा। क्रियते येन देवोऽपि स्वपदाद्भ्रश्यते पुमान्। इति ब्राह्मे।वित्तं बन्धुर्वयः कर्म विद्या चैव तु (भवति) पञ्चमी। एतानि मान्यस्थानानि गरीयो ह्युत्तरो (यद्यदु)त्तरम्। 2।136 इति मानवे।गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः। सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति। वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात्। पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम्। इति ब्रह्मवैवर्ते। सुहृदादिषु शास्त्रोक्तपूजादिकृतिः। अन्यूनानधिका या साऽपि समता। तदप्याहुः यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च। तथा करोति पूजादि समबुद्धिः स उच्यते। इति गारुडे। प्रत्युपकारनिरपेक्षयोपकारकृत्सुहृत्। क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रम्। अरिर्वधादिकर्ता। कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः। कर्तव्यमुभयमपि यः करोति स मध्यमः। अवासितकृद्वेष्यः। आह चतत् द्वेष्योऽवासितकृत्कार्यमात्रकारी तु मध्यमः। प्रियकृत्प्रियो निरूप्यापि क्लेशं यः परिरक्षति। स मित्रमुपकारं तु अनपेक्ष्योपकारकृत्। यस्ततः स सुहृत्प्रोक्तः शत्रुश्चापि वधादिकृत्। इति।
Sri Neelkanth
।।6.9।।समत्वमेव स्तौति सुहृदिति। सुहृत् प्रत्युपकारमनपेक्ष्योपकर्ता मित्रं स्नेहवान् अरिः शत्रुः उदासीन उभयत्र पक्षपातशून्यः मध्यस्थः उभयहितैषी द्वेष्य आत्मनोऽप्रियः बन्धुः संबन्धी तेषु साधुषु पुण्यकृत्सु पापेषु पापाचारेषु कस्य किं कर्मेत्यनालोचयन् तेषु सर्वेषु यः समबुद्धिः स विशिष्यते।
Sri Ramanujacharya
।।6.9।।वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः सवयसो हितैषिणो मित्राणि अरयो निमित्ततः अनर्थेच्छवः उभयहेत्वभावाद् उभयरहिता उदासीनाः जन्मत एव उभयरहिता मध्यस्थाः जन्मत एव अनिष्टेच्छवो द्वेष्याः जन्मत एव हितैषिणो बन्धवः साधवो धर्मशीलाः पापाः पापशीलाः आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावाद् विरोधाभावाच्च तेषु समबुद्धिः योगाभ्यासार्हत्वे विशिष्यते।
Sri Sridhara Swami
।।6.9।।सुहृन्मित्रादिषु समबुद्धियुक्तस्ततोऽपि श्रेष्ठ इत्याह सुहृदिति। सुहृत् स्वभावेनैव हिताशंसी मित्रं स्नेहवशेनोपकारकः अरिर्घातुकः उदासीनो विवदमानयोरुभयोरप्युपेक्षकः मध्यस्थो विवदमानयोरपि हिताशंसी द्वेष्यो द्वेषविषयः बन्धुः संबन्धी साधवः सदाचारः पापा दुराचाराः एतेषु समा रागद्वेषादिशून्या बुद्धिर्यस्य स तु विशिष्टः।
Sri Vedantadeshikacharya Venkatanatha
।।6.9।।समलोष्टाश्मकाञ्चनः 6।8 इति अचेतनेषूक्त एवार्थश्चेतनविषयतया प्रपञ्च्यत इत्यभिप्रायेणाह तथा चेति। यद्वा सुहृदादिषु समबुद्धित्वस्य दुष्करतरत्वादत्रविशिष्यते इत्युक्तेश्च समदर्शित्वातिशयोऽत्र विवक्षितः तथाच अपिचेत्यर्थः सुहृन्मित्रबन्धुशब्दानां अरिद्वेष्यशब्दयोरुदासीनमध्यशब्दयोश्च पौनरुक्त्यमपाकर्तुं तत्तत्पदव्याख्या। बन्धुशब्दस्तावत्पित्रादिषु प्रसिद्धः मित्रशब्दश्च सवयस्सु अतः पारिशेष्यात्सुहृच्छब्दस्तदुभयव्यतिरिक्तविषय इत्यभिप्रायेणाह वयोविशेषानङ्गीकारेणेति।सवयस इत्यनेन मित्राणां क्रीडादिरूपप्रियैषित्वमप्यस्तीति सूचितम्। बन्धुशब्दासक्तेर्द्वेष्यशब्दस्तावत्सहजशत्रुविषयः प्राप्तः ततोऽत्रापि पारिशेष्यादरिशब्दं कृत्रिमशत्रुविषयमाह अरयो निमित्ततोऽनर्थेच्छव इति। मध्यस्थशब्दोऽपि द्वेष्यबन्धुशब्दासक्तेर्हेतुतो हिताहितप्रवृत्तियोग्येषु प्रयोगाभावाच्च जन्मत एवोभयरहितविषय उचितः। ततः परिशेषादौदासीन्यस्य प्रवृत्तिप्रतिसम्बन्धिकत्वेन तत्स्मारकत्वात्कारणागमे हिताहितप्रवृत्तियोग्यास्तदभावमात्रेण तद्रहिता उदासीना इत्यभिप्रायेणाह उभयेति। उभयं हितैषित्वमहितैषित्वं च जन्मतः सम्बन्धिनो बन्धव इत्येतावन्मात्रस्य दुर्योधनादिष्वतिव्याप्तेःजन्मत एव हितैषिणो बन्धव इत्युक्तम्। एवं स्वप्रतिसम्बन्धिनः पुरुषा उक्ताः अथ साधारण्येन श्लाघ्यत्वनिन्द्यत्वाद्याश्रयाः पुरुषाः साधुपापशब्दाभ्यामभिधीयन्त इत्यभिप्रायेणाह साधव इति। वाक्यार्थमाह आत्मैकेति। सुहृदादिभिः प्रयोजनाभावादितरैर्विरोधाभावाच्चेत्यर्थः। ननु युक्तं नाम सुहृदादिषु समबुद्धित्वम् न तु साधुषु पापेषु च योगिनां समं प्रायोजनम् सत्सङ्गमादेरसत्परित्यागादेश्च ज्ञानवृद्धिहेतुत्वेन तेषामवस्यापेक्षितत्वात्। उच्यते नेदानीमुपजीवकदशापन्नो योगी निर्दिश्यते किन्तु श्रुतसकलश्रोतव्यः कृतसकलकर्तव्यः साक्षात्कारात्यन्तयोग्यदशापन्नः तथाविधस्य च तस्य साधुभिः पापैश्च प्रयोजनाभावः समः केवलं योगोपयुक्तरहस्यस्थानादेरेवोपादेयत्वादिति भावः। योगाभ्यासार्हदशा हि प्रागप्युक्ता इयं तु तत्र काष्ठाप्राप्तावस्थेतिविशिष्यते इत्यस्य भावः। तदाह योगाभ्यासार्हत्वे विशिष्यते इति. अत्रविमुच्यते इति परैः (शं.) पठितात्पाठविकल्पादयमेव पाठ उचित इति भावः।
Sri Abhinavgupta
।।6.9।।सुहृदिति। सुहृत् यस्य हृदयम् अकारणमेव शोभनम्। मित्रत्वम् अन्योन्यम्। अरित्वं परस्परम्। उदासीन एतदुभयरहितः (S N K (n) एतद्रूपरहितः) मध्यस्थः केनचिदंशेन मित्रं केनचिच्छत्रुः। द्वेषार्हो द्वेष्टुमशक्यो (N द्वेष्टुं शक्यः) द्वेष्यः। बन्धुः योन्यादिसंबन्धेन। एतेषु सर्वेषु समधीः एवं साधुषु पापेषु च स च विशिष्यते क्रमात् क्रम संसारात् तरति।
Sri Jayatritha
।।6.9।।मध्ये लक्ष्यस्योक्तत्वात्सुहृत् इत्यादिकं न योगारूढलक्षणमिति प्रतीतिनिरासायाह स एवेति। साधुपापादिषु समबुद्धिश्च स योगारूढ एवेति न किन्तु सर्वस्मादयोगिवर्गाद्विशिष्यत इत्येतद्वक्तुं पृथगन्वय इति भावः। साधुत्वं धर्मित्वम् पापत्वं पापवत्त्वं च नियतं न तु सुहृत्त्वादिवदव्यवस्थितमित्यतः सुहृदादिष्वित्यनुक्त्वासाधुपापादिषु इत्युक्तम्। समबुद्धित्वं नाम पूजादिसाम्यमित्यन्यथाप्रतीतिनिरासायाह जीवचित इति।एष चेतनया युक्तो जीव इत्यभिधीयते इति चेतनाचेतनपिण्डे जीवशब्दप्रयोगात् चित इत्युक्तम्। सुहृदादिचैतन्यस्य तथा सर्वत्र सुहृदादिषु स्थितस्य परमात्मनः एवं सर्वत्र सुहृदादिषु स्थितस्य सुदृत्त्वादेः परमात्मनिमित्तकत्वस्य चैकरूप्येण कारणेन तद्दर्शी समबुद्धिरित्यर्थः। तत्राद्यं प्रकारं विवृणोति चिद्रूपा एवेति। मनुष्येषु यदेक एकं प्रति सुहृदित्यादि तत् न जीवस्वभावान्तर्गतं किन्तु चिद्रूपत्वादिकमेवेत्यर्थः। तर्हि सुहृत्त्वादिधर्मः किमात्मकः इत्यत आह विशेषस्त्विति। अन्तःकरणोपादानको बाह्यधर्मः। एतदुक्तं भवति मुक्ताववशिष्यमाणं यज्जीवरूपं तत्त्रिविधा जीवसङ्घाः इत्यादिप्रमाणाद्विषममेव किन्तु देहेन्द्रियान्तःकरणधर्मैर्यद्वैषम्यं तत्तत्स्वरूप एवारोप्य विषमबुद्धित्वं योगारूढस्य नास्तीति द्वितीयः प्रकारः स्फुटः। तृतीयं विवृणोति सर्वेषामिति। स्वतः स्वातन्त्र्येण।अत्र प्रमाणमाह उक्तं चेति। स्वतः स्वरूपेण। दोषैररित्वादिभिः। एवं सुहृत्त्वादिगुणैरित्यपि ग्राह्यम्। आगन्तुकधर्मा न स्वरूपान्तर्गता इत्यर्थः। किं तर्हि इत्यत आह तेषां त्विति। दोषा गुणाश्च। उपाधिरन्तःकरणादिः। सर्वं सुहृत्वादिकम्। अतएव प्रकारद्वयेन यदनात्मधर्मानात्मस्वन्तर्भाव्य वैषम्यम् यच्च क्वचित् परमेश्वरानधीनरूपत्वं तद्भ्रान्तिप्रतीतम्। योगे प्रवर्तमानं प्रति यत्सुहृत्त्वादिकं तत् मनुष्येष्वेव स्वरूपवैषम्यकारणं न भवति। न तु देवादिष्वित्युक्तस्यापवादमाह एवमिति। तुशब्दोऽवधारणे। अवधारणार्थं विवृणोति विशेष इति। विशेषो योगिनं प्रति सुहृत्त्वादिः। तदेव प्रपञ्चयति असुरादेरिति। तथाशब्दो वक्ष्यमाणसमुच्चये। दोषा योगिनं प्रति अरित्वाद्याः। तथा चोक्तम्विद्ध्येनमिह वैरिणम् 3।37 इति। गुणदोषौ सुहृत्त्वारित्वादी अनागन्तुकौ। गुणैः सुहृत्त्वादिभिरेकमात्रं गुणैकमात्रम्। तथा च श्रुतिः यथा ह वै बहवः पशवः बृ.उ.1।4।10 इत्यादिका।सुहृत् इत्यादिश्लोकस्य प्रतीत एवार्थः किं न स्यात्। इत्यत आह न त्विति। सर्वशब्दपर्यायस्य समशब्दस्यैव सर्वनामसंज्ञा न साधारणार्थस्य समे देशे यजति इति।तथा न केवलं समपूजायां दोषः किन्तु विषमपूजाविधानं चास्तीत्याह वित्तमिति। बन्धुरिति बन्धुत्वम्। मान्यानि च तानि स्थानानि च। वित्तादिशब्दैः तद्वन्त उपलक्ष्यन्ते। दृष्टिरेवोक्तप्रकारत्रयेण समा कार्या पूजा तु विषमैवेत्यत्र प्रमाणान्तरमाह गुणेति। या विषमा पूजा सा वैषम्यम्। तस्यैव व्याख्यानमुत्तमत्वम्। साम्यं ददाति विदुःखत्वनिमित्तम्। समबुद्धित्वं प्रकारान्तरेण व्याचष्टे सुहृदादिष्विति। एतन्न योगारूढविषयमिति तत्रैव नोक्तम्। न हि योगारूढो लौकिकेष्वरिष्वपकारं करोति यः। सुहृन्मित्रशब्दयोररिद्वेष्यशब्दयोरुदासीनमध्यस्थशब्दयोश्चार्थभेदो न प्रतीयते अत आह प्रत्युपकारेति। निरपेक्षयाऽनपेक्षया अवासितमप्रियं तत उपक्रियमाणात्।
Sri Madhusudan Saraswati
।।6.9।।सुहृन्मित्रादिषु समबुद्धिस्तु सर्वयोगिश्रेष्ठ इत्याह सुहृत्प्रत्युपकारमनपेक्ष्य पूर्वस्नेहं संबन्धं च विनैवोपकर्ता। मित्रं स्नेहेनोपकारकः। अरिः स्वकृतापकारमनपेक्ष्य स्वभावक्रौर्येणापकर्ता। उदासीनो विवदमानयोरुभयोरप्युपेक्षकः। मध्यस्थो विवदमानयोरुभयोरपि हितैषी। द्वेष्यः स्वकृतापकारमपेक्ष्यापकर्ता। बन्धुः संबन्धेनोपकर्ता। एतेषु साधुषु शास्त्रविहितकारिषु पापेषु शास्त्रप्रतिषिद्धकारिष्वपि। चकारादन्येषु च सर्वेषु समबुद्धिः कः कीदृक्कर्मेत्यव्यापृतबुद्धिः सर्वत्र रागद्वेषशून्यो विशिष्यते सर्वत उत्कृष्टो भवति।विमुच्यते इति वा पाठः।
Sri Purushottamji
।।6.9।।किञ्च एतत्ित्रतय एव न समः किन्तु सर्वत्रैव समबुद्धिरुत्तम इत्याह सुहृदिति। सुहृत् सर्वहितोपदेशकृत्। मित्रं स्नेहपरवशः अरिः स्वस्मिन् शत्रुबुद्धिमान् उदासीनो निरपेक्षः मध्यस्थो विवदमानयोः सदसद्वाक्यविचारकः द्वेष्यः सद्भावहीनः बन्धुः सम्बन्धी एतेषु साधुषु सदाचारेषु। अपि च किं पुनः पापेषु धर्मविरोधिषु समबुद्धिः भगवद्विप्रयोगेन भगवदात्मबुद्धिस्तेषु वा तद्विप्रयोगेन तथाभावदर्शी विशिष्यते योगयुक्तेपूत्तम इत्यर्थः। अत्रायं भावः भगवद्विप्रयोगे तत्सौहार्दस्मरणेनायं सर्वेषु सौहार्दधर्मवान् तथैव च मित्रधर्मवान् तद्रहितेषु अरिबुद्धिमान् तत्तद्दुःखेन सर्वत्रौदासीन्यधर्मवान् विप्रयोगावस्थायां तदनुकरणेन मध्यस्थधर्मवान् तथैव तत्क्लेशेन द्वेषधर्मवान् तत्सम्बन्धस्मरणेन बन्धुधर्मवान् तदर्थं सदाचारवान् तत्तापातिशयेन पापरूपवान् जडत्वधर्मेण एवं यः समबुद्धिः स विशिष्ट इत्यर्थः।
Sri Shankaracharya
।।6.9।। सुहृत् इत्यादिश्लोकार्धम् एकं पदम्। सुहृत् इति प्रत्युपकारमनपेक्ष्य उपकर्ता मित्रं स्नेहवान् अरिः शत्रुः उदासीनः न कस्यचित् पक्षं भजते मध्यस्थः यो विरुद्धयोः उभयोः हितैषी द्वेष्यः आत्मनः अप्रियः बन्धुः संबन्धी इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धकारिषु सर्वेषु एतेषु समबुद्धिः कः किंकर्मा इत्यव्यापृतबुद्धिरित्यर्थः। विशिष्यतेविमुच्यते इति वा पाठान्तरम्। योगारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः।।अत एवमुत्तमफलप्राप्तये
Sri Vallabhacharya
।।6.8 6.9।।योगारूढस्य स्वरूपं श्रैष्ठ्यं चोपपादयति द्वाभ्यां ज्ञानविज्ञानेति। ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवः ताभ्यां तृप्त आत्मा यस्य कूटे स्थितोऽपि युक्त इत्युच्यते स योगी सुहृदादिषु तद्विपरीतेषु च समबुद्धिरधिकतरो भवतीति विशिष्यते।