Canto 10, Chapter 56
श्रीशुक उवाच सत्राजित: स्वतनयां कृष्णाय कृतकिल्बिष: । स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १ ॥
śrī-śuka uvācasatrājitaḥ sva-tanayāṁkṛṣṇāya kṛta-kilbiṣaḥsyamantakena maṇināsvayam udyamya dattavān
श्रीराजोवाचसत्राजित: किमकरोद् ब्रह्मन् कृष्णस्य किल्बिष: । स्यमन्तक: कुतस्तस्य कस्माद् दत्ता सुता हरे: ॥ २ ॥
śrī-rājovācasatrājitaḥ kim akarodbrahman kṛṣṇasya kilbiṣaḥsyamantakaḥ kutas tasyakasmād dattā sutā hareḥ
श्रीशुक उवाच आसीत् सत्राजित: सूर्यो भक्तस्य परम: सखा । प्रीतस्तस्मै मणिं प्रादात् स च तुष्ट: स्यमन्तकम् ॥ ३ ॥
śrī-śuka uvācaāsīt satrājitaḥ sūryobhaktasya paramaḥ sakhāprītas tasmai maṇiṁ prādātsa ca tuṣṭaḥ syamantakam
स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रवि: । प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षित: ॥ ४ ॥
sa taṁ bibhran maṇiṁ kaṇṭhebhrājamāno yathā raviḥpraviṣṭo dvārakāṁ rājantejasā nopalakṣitaḥ
तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टय: । दीव्यतेऽक्षैर्भगवते शशंसु: सूर्यशङ्किता: ॥ ५ ॥
taṁ vilokya janā dūrāttejasā muṣṭa-dṛṣṭayaḥdīvyate ’kṣair bhagavateśaśaṁsuḥ sūrya-śaṅkitāḥ
नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर । दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ ६ ॥
nārāyaṇa namas te ’stuśaṅkha-cakra-gadā-dharadāmodarāravindākṣagovinda yadu-nandana
एष आयाति सविता त्वां दिदृक्षुर्जगत्पते । मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगु: ॥ ७ ॥
eṣa āyāti savitātvāṁ didṛkṣur jagat-patemuṣṇan gabhasti-cakreṇanṛṇāṁ cakṣūṁṣi tigma-guḥ
नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभा: । ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यज: प्रभो ॥ ८ ॥
nanv anvicchanti te mārgaṁtrī-lokyāṁ vibudharṣabhāḥjñātvādya gūḍhaṁ yaduṣudraṣṭuṁ tvāṁ yāty ajaḥ prabho
श्रीशुक उवाच निशम्य बालवचनं प्रहस्याम्बुजलोचन: । प्राह नासौ रविर्देव: सत्राजिन्मणिना ज्वलन् ॥ ९ ॥
śrī-śuka uvācaniśamya bāla-vacanaṁprahasyāmbuja-locanaḥprāha nāsau ravir devaḥsatrājin maṇinā jvalan
सत्राजित् स्वगृहं श्रीमत् कृतकौतुकमङ्गलम् । प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ १० ॥
satrājit sva-gṛhaṁ śrīmatkṛta-kautuka-maṅgalampraviśya deva-sadanemaṇiṁ viprair nyaveśayat
दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो । दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभा: । न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणि: ॥ ११ ॥
dine dine svarṇa-bhārānaṣṭau sa sṛjati prabhodurbhikṣa-māry-ariṣṭānisarpādhi-vyādhayo ’śubhāḥna santi māyinas tatrayatrāste ’bhyarcito maṇiḥ
स याचितो मणिं क्वापि यदुराजाय शौरिणा । नैवार्थकामुक: प्रादाद् याच्ञाभङ्गमतर्कयन् ॥ १२ ॥
sa yācito maṇiṁ kvāpiyadu-rājāya śauriṇānaivārtha-kāmukaḥ prādādyācñā-bhaṅgam atarkayan
तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् । प्रसेनो हयमारुह्य मृगायां व्यचरद् वने ॥ १३ ॥
tam ekadā maṇiṁ kaṇṭhepratimucya mahā-prabhampraseno hayam āruhyamṛgāyāṁ vyacarad vane
प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी । गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥ १४ ॥
prasenaṁ sa-hayaṁ hatvāmaṇim ācchidya keśarīgiriṁ viśan jāmbavatānihato maṇim icchatā
सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले । अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ १५ ॥
so ’pi cakre kumārasyamaṇiṁ krīḍanakaṁ bileapaśyan bhrātaraṁ bhrātāsatrājit paryatapyata
प्राय: कृष्णेन निहतो मणिग्रीवो वनं गत: । भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जना: ॥ १६ ॥
prāyaḥ kṛṣṇena nihatomaṇi-grīvo vanaṁ gataḥbhrātā mameti tac chrutvākarṇe karṇe ’japan janāḥ
भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि । मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरै: ॥ १७ ॥
bhagavāṁs tad upaśrutyaduryaśo liptam ātmanimārṣṭuṁ prasena-padavīmanvapadyata nāgaraiḥ
हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने । तं चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जना: ॥ १८ ॥
hataṁ prasenaṁ aśvaṁ cavīkṣya keśariṇā vanetaṁ cādri-pṛṣṭhe nihatamṛkṣeṇa dadṛśur janāḥ
ऋक्षराजबिलं भीममन्धेन तमसावृतम् । एको विवेश भगवानवस्थाप्य बहि: प्रजा: ॥ १९ ॥
ṛkṣa-rāja-bilaṁ bhīmamandhena tamasāvṛtameko viveśa bhagavānavasthāpya bahiḥ prajāḥ
तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् । हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ २० ॥
tatra dṛṣṭvā maṇi-preṣṭhaṁbāla-krīḍanakaṁ kṛtamhartuṁ kṛta-matis tasminnavatasthe ’rbhakāntike
तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् । तच्छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वर: ॥ २१ ॥
tam apūrvaṁ naraṁ dṛṣṭvādhātrī cukrośa bhīta-vattac chrutvābhyadravat kruddhojāmbavān balināṁ varaḥ
स वै भगवता तेन युयुधे स्वामिनात्मन: । पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् ॥ २२ ॥
sa vai bhagavatā tenayuyudhe svāmīnātmanaḥpuruṣam prākṛtaṁ matvākupito nānubhāva-vit
द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतो: । आयुधाश्मद्रुमैर्दोर्भि: क्रव्यार्थे श्येनयोरिव ॥ २३ ॥
dvandva-yuddhaṁ su-tumulamubhayor vijigīṣatoḥāyudhāśma-drumair dorbhiḥkravyārthe śyenayor iva
आसीत्तदष्टाविंशाहमितरेतरमुष्टिभि: । वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥ २४ ॥
āsīt tad aṣṭā-vimśāhamitaretara-muṣṭibhiḥvajra-niṣpeṣa-paruṣairaviśramam ahar-niśam
कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धन: । क्षीणसत्त्व: स्विन्नगात्रस्तमाहातीव विस्मित: ॥ २५ ॥
kṛṣṇa-muṣṭi-viniṣpātaniṣpiṣṭāṅgoru bandhanaḥkṣīṇa-sattvaḥ svinna-gātrastam āhātīva vismitaḥ
जाने त्वां सर्वभूतानां प्राण ओज: सहो बलम् । विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६ ॥
jāne tvāṁ saṛva-bhūtānāṁprāṇa ojaḥ saho balamviṣṇuṁ purāṇa-puruṣaṁprabhaviṣṇum adhīśvaram
त्वं हि विश्वसृजां स्रष्टा सृष्टानामपि यच्च सत् । काल: कलयतामीश: पर आत्मा तथात्मनाम् ॥ २७ ॥
tvaṁ hi viśva-sṛjām sraṣṭāsṛṣṭānām api yac ca satkālaḥ kalayatām īśaḥpara ātmā tathātmanām
यस्येषदुत्कलितरोषकटाक्षमोक्षै-र्वर्त्मादिशत् क्षुभितनक्रतिमिङ्गलोऽब्धि: । सेतु: कृत: स्वयश उज्ज्वलिता च लङ्कारक्ष:शिरांसि भुवि पेतुरिषुक्षतानि ॥ २८ ॥
yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣairvartmādiśat kṣubhita-nakra-timiṅgalo ’bdhiḥsetuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkārakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni
इति विज्ञातविज्ञानमृक्षराजानमच्युत: । व्याजहार महाराज भगवान् देवकीसुत: ॥ २९ ॥ अभिमृश्यारविन्दाक्ष: पाणिना शंकरेण तम् । कृपया परया भक्तं मेघगम्भीरया गिरा ॥ ३० ॥
iti vijñāta-viijñānamṛkṣa-rājānam acyutaḥvyājahāra mahā-rājabhagavān devakī-sutaḥ
मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् । मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥ ३१ ॥
maṇi-hetor iha prāptāvayam ṛkṣa-pate bilammithyābhiśāpaṁ pramṛjannātmano maṇināmunā
इत्युक्त: स्वां दुहितरं कन्यां जाम्बवतीं मुदा । अर्हणार्थं स मणिना कृष्णायोपजहार ह ॥ ३२ ॥
ity uktaḥ svāṁ duhitaraṁkanyāṁ jāmbavatīṁ mudāarhaṇārtham sa maṇinākṛṣṇāyopajahāra ha
अदृष्ट्वा निर्गमं शौरे: प्रविष्टस्य बिलं जना: । प्रतीक्ष्य द्वादशाहानि दु:खिता: स्वपुरं ययु: ॥ ३३ ॥
adṛṣṭvā nirgamaṁ śaureḥpraviṣṭasya bilaṁ janāḥpratīkṣya dvādaśāhāniduḥkhitāḥ sva-puraṁ yayuḥ
निशम्य देवकी देवी रक्मिण्यानकदुन्दुभि: । सुहृदो ज्ञातयोऽशोचन् बिलात् कृष्णमनिर्गतम् ॥ ३४ ॥
niśamya devakī devīrakmiṇy ānakadundubhiḥsuhṛdo jñātayo ’śocanbilāt kṛṣṇam anirgatam
सत्राजितं शपन्तस्ते दु:खिता द्वारकौकस: । उपतस्थुश्चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ ३५ ॥
satrājitaṁ śapantas teduḥkhitā dvārakaukasaḥupatasthuś candrabhāgāṁdurgāṁ kṛṣṇopalabdhaye
तेषां तु देव्युपस्थानात् प्रत्यादिष्टाशिषा स च । प्रादुर्बभूव सिद्धार्थ: सदारो हर्षयन् हरि: ॥ ३६ ॥
teṣāṁ tu devy-upasthānātpratyādiṣṭāśiṣā sa caprādurbabhūva siddhārthaḥsa-dāro harṣayan hariḥ
उपलभ्य हृषीकेशं मृतं पुनरिवागतम् । सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवा: ॥ ३७ ॥
upalabhya hṛṣīkeśaṁmṛtaṁ punar ivāgatamsaha patnyā maṇi-grīvaṁsarve jāta-mahotsavāḥ
सत्राजितं समाहूय सभायां राजसन्निधौ । प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८ ॥
satrājitaṁ samāhūyasabhāyāṁ rāja-sannidhauprāptiṁ cākhyāya bhagavānmaṇiṁ tasmai nyavedayat
स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्तत: । अनुतप्यमानो भवनमगमत् स्वेन पाप्मना ॥ ३९ ॥
sa cāti-vrīḍito ratnaṁgṛhītvāvāṅ-mukhas tataḥanutapyamāno bhavanamagamat svena pāpmanā
सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुल: । कथं मृजाम्यात्मरज: प्रसीदेद् वाच्युत: कथम् ॥ ४० ॥ किं कृत्वा साधु मह्यं स्यान्न शपेद् वा जनो यथा । अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥ ४१ ॥ दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च । उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा ॥ ४२ ॥
so ’nudhyāyaṁs tad evāghaṁbalavad-vigrahākulaḥkathaṁ mṛjāmy ātma-rajaḥprasīded vācyutaḥ katham
एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् । मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ॥ ४३ ॥
evaṁ vyavasito buddhyāsatrājit sva-sutāṁ śubhāmmaṇiṁ ca svayam udyamyakṛṣṇāyopajahāra ha
तां सत्यभामां भगवानुपयेमे यथाविधि । बहुभिर्याचितां शीलरूपौदार्यगुणान्विताम् ॥ ४४ ॥
tāṁ satyabhāmāṁ bhagavānupayeme yathā-vidhibahubhir yācitāṁ śīla-rūpaudārya-guṇānvitām
भगवानाह न मणिं प्रतीच्छामो वयं नृप । तवास्तां देवभक्तस्य वयं च फलभागिन: ॥ ४५ ॥
bhagavān āha na maṇiṁpratīcchāmo vayaṁ nṛpatavāstāṁ deva-bhaktasyavayaṁ ca phala-bhāginaḥ