Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 11

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमो ऽध्यायः श्रीगरुडमहापुराणम्- ११ हरिरुवाचं । नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि । जीवमुत्क्षिप्य मूर्धन्यं नाभ्यां व्योम्निनिवेशयेत्

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 11 hariruvācaṃ / navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi / jīvamutkṣipya mūrdhanyaṃ nābhyāṃ vyomniniveśayet

1.11.1

ततोरमिति बीजेन दहेद्भूतात्मकं वपुः । यमित्यनेन बीजेन तच्च सर्व विनाशयेत्

tatoramiti bījena dahedbhūtātmakaṃ vapuḥ / yamityanena bījena tacca sarva vināśayet

1.11.2

लमित्यनेन बीजेन प्लावयेत्सचराचरम् । वमित्यनेन बीजेन चिन्तयेदमृतं ततः

lamityanena bījena plāvayetsacarācaram / vamityanena bījena cintayedamṛtaṃ tataḥ

1.11.3

ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः । अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत्

tato budvudamadhye tu pītavāsāścaturbhujaḥ / ahaṃ matastathātmānaṃ dhyānena paricintayet

1.11.4

मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः । द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम्

mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ / dvādaśākṣarabījena uktabījairanantaram

1.11.5

षडङ्गेन ततः कुर्यात्साक्षाद्येन हरिर्भवेत् । दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठन्दले न्यसेत्

ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet / dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhandale nyaset

1.11.6

मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः । हृच्छिरसि शिखावर्ंमवक्क्राक्ष्युदहपृष्ठतः

madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ / hṛcchirasi śikhāvarṃmavakkrākṣyudahapṛṣṭhataḥ

1.11.7

बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् । पद्माकारौ करौ कृत्वा मध्ये ऽङ्गुष्ठं निवेशयेत्

bāhvośca karayorjānvoḥ pādayoścāpi vinyaset / padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet

1.11.8

चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् । क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत्

cintayettatra sarveśaṃ paraṃ tattvamanāmayam / kramāccaitāni bījāni tarjanyādiṣu vinya set

1.11.9

ततो मूर्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा । नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात्

tato mūrdhākṣivakkreṣu kaṇṭhe ca hṛdaye tathā / nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt

1.11.10

पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् । अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम्

pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset / aṅguṣṭhādikaniṣṭhāntaṃ vinyasedvījapañcakam

1.11.11

करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः । हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत्

karamadhye netrabījamaṅganyāsa'pyayaṃ kramaḥ / hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset

1.11.12

शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ । नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः

śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau / netraṃ netre vidhātavyamastrañca karayordvayoḥ

1.11.13

तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् । हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः

tenaiva ca diśo baddhā pūjā vidhimathācaret / hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ

1.11.14

धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् । आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत्

dharma jñanaṃ ca vairāgyamaiśvaryaṃ ca yathākramam / āgneyādau ca pūrvādāvadharmādīṃśca vinyaset

1.11.15

एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् । अनन्तं विन्सेत्पश्चात्पूर्वकायोन्नतं स्थितम्

ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam / anantaṃ vinsetpaścātpūrvakāyonnataṃ sthitam

1.11.16

ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् । सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्धकर्णिकम्

tato vidyātsarojātaṃ dalāṣṭasamadigdalam / sitābjaṃ śatapatrāḍhyaṃ viprakīrṇordhakarṇikam

1.11.17

ध्यात्वा वेदादिना पश्चात्सूर्यसोमानलात्मनाम् । मण्डलानि क्रमादेवमुपर्युपरि चिन्तयेत्

dhyātvā vedādinā paścātsūryasomānalātmanām / maṇḍalāni kramādevamuparyupari cintayet

1.11.18

ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः । विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम्

tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ / vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām

1.11.19

एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् । मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः

evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram / manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ

1.11.20

हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः । मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः

hṛdayādīni pūrvādicaturdigdalayogataḥ / madhye netraṃ tu koṇeṣu astramantraṃ nyasettataḥ

1.11.21

सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः । द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत्

saṅkarṣaṇādibījāni pūrvādikramayogataḥ / dvāri pūrve pare caiva vainateyaṃ tu vinyaset

1.11.22

सुदर्शनं सहस्रारं दक्षिणे द्वारि विन्यसेत् । श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा

sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset / śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā

1.11.23

द्वार्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् । देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत्

dvāryattare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset / devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset

1.11.24

तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् । ततो ऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत्

tadvatkhaṅgaṃ tathā cakraṃ nyasetpārśvadvayordvayam / tato 'ntarlokapālāṃśca svadigbhedena vinyaset

1.11.25

वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् । ऊर्घ्वं ब्रिह्म तथानन्तमधश्च परिचिन्तयेत्

vajrādīnyāyudhānyeva tathaiva viniveśayet / ūrghvaṃ brihma tathānantamadhaśca paricintayet

1.11.26

सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः । अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी

sarvaṃ dhyātveti saṃpūjya mudrāḥ sandarśayettataḥ / añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī

1.11.27

वन्दनी हृदयासक्तात्सार्धं दक्षिणतोन्नता । ऊर्धाङ्गुण्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनः

vandanī hṛdayāsaktātsārdhaṃ dakṣiṇatonnatā / ūrdhāṅguṇṭho vāmamuṣṭirdakṣiṇāṅguṣṭhabandhanaḥ

1.11.28

सव्यस्य तस्य चाङ्गुष्ठो यः स उद्धः प्रकीर्तितः । तिस्रः साधारणा ह्येता मूर्तिभेदेन कल्पिताः

savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ / tisraḥ sādhāraṇā hyetā mūrtibhedena kalpitāḥ

1.11.29

कनिष्ठादिप्रमोकेण अष्टौ मुद्रा यथाक्रमम् । अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत्

kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam / aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet

1.11.30

अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम् । मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम्

aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam / mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam

1.11.31

सव्यहस्तं तथोत्तानं कृत्वोर्धं भ्रामयेच्छनैः । नवमीयं स्मृता मुद्रा वराहाभिमता सदा

savyahastaṃ tathottānaṃ kṛtvordhaṃ bhrāmayecchanaiḥ / navamīyaṃ smṛtā mudrā varāhābhimatā sadā

1.11.32

मुष्टिद्वयमथोत्तानमृज्वैकैकेन मोचयेत् । उत्कुञ्चयेत्सर्वमुक्ता अङ्गमुद्रेयमुच्यते

muṣṭidvayamathottānamṛjvaikaikena mocayet / utkuñcayetsarvamuktā aṅgamudreyamucyate

1.11.33

मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः । दशानां लोकपालानां मुद्राश्च क्रमयोगतः

muṣṭidvayamatho baddhā evamevānupūrvaśaḥ / daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ

1.11.34

सुरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च । वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम्

suramādyaṃ dvitīyaṃ ca upāntyañcāntyameva ca / vāsudevo balaḥ kāmo hyaniruddho yathākramam

1.11.35

प्रणवस्तत्सदित्येतद् हुं क्षैं भूरिति मन्त्रकाः । नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट्

praṇavastatsadityetad huṃ kṣaiṃ bhūriti mantrakāḥ / nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ

1.11.36

सितारुणहरिद्राभा नीलश्यामल्लोहिताः । मेघाग्निमदुपिङ्गाभा वर्णतो नवनामकाः

sitāruṇaharidrābhā nīlaśyāmallohitāḥ / meghāgnimadupiṅgābhā varṇato navanāmakāḥ

1.11.37

कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् । षं चं फं षं गदादेवी वं लं मं क्षं च शङ्खकम्

kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam / ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam

1.11.38

घं ढं भं हं भवेच्छ्रीश्च गं जं वं शं च पुष्टिका । घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत्

ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā / ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet

1.11.39

छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च । इत्यङ्गानियथायोगं देवदेवस्य वै दशा

chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca / ityaṅgāniyathāyogaṃ devadevasya vai daśā

1.11.40

गरुडो ऽम्बुजसंकाशो गदा चैवासिताकृतिः । पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा

garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ / puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā

1.11.41

पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः । चक्रं सूर्यसहस्राभं श्रीवत्सः कुन्दसन्निभः

pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ / cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ

1.11.42

पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः । विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः

pañcavarṇanibhā mālā hyananto meghasannibhaḥ / vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ

1.11.43

अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया

arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā

1.11.44

1.101.12