← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 10
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुदीक्षानिदृ नाम नवमो ऽध्यायः श्रीगरुडमहापुराणम्- १० हरिरुवाच । र् श्यादिपूजां प्रवर्श्यामि स्थण्डिलादिषु सिद्धये । श्रीं ह्रीं महालक्ष्म्यै नमः । श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम् । कवचं नेत्रमस्त्रं च आसनं मूर्तिमर्चयेत्
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 10 hariruvāca / r śyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye / śrīṃ hrīṃ mahālakṣmyai namaḥ / śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām / kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet
1.10.1
मण्डले पद्मगर्भे च चतुर्द्वारि रजो ऽन्विते । चतुः षष्ट्यन्तमष्टादि खाक्षे खाक्ष्यादि मण्डलम्
maṇḍale padmagarbhe ca caturdvāri rajo 'nvite / catuḥ ṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam
1.10.2
खाक्षीन्दुसूर्यगं सर्वं खादिवेदेन्दुवर्तनात् । लक्ष्मीमङ्गानि चैकस्मिन्कोणे दुर्गां गणं गुरुम्
khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt / lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum
1.10.3
क्षेत्रपालमथाग्न्यादौ होमाञ्जुहाव कामभाक् । ॐ घं टं डं हं श्रीमहालक्ष्म्यै नमः
kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk / oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ
1.10.4
अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः । ॐ सैं सरस्वत्यै नमः । ॐ ह्रीं सैं सरस्वत्यै नमः
anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ / oṃ saiṃ sarasvatyai namaḥ / oṃ hrīṃ saiṃ sarasvatyai namaḥ
1.10.5
ॐ ह्रीं वदवदवाग्वादिनिस्वाहा ॐ ह्रीं सरस्वत्यै नमः
oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ
1.10.6