← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 123
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मासोपवासव्रतं नाम द्वाविंशत्युत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १२३ ब्रह्मोवाच । व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् । एकभक्तेन नक्तेन मासं वायाचितेन वा
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 123 brahmovāca / vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet / ekabhaktena naktena māsaṃ vāyācitena vā
1.123.1
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः । सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत्
dugdhaśākaphalādyairvā upavāsena vā punaḥ / sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet
1.123.2
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम्
sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane / cāturmāsye tatastasmātkārtike bhīṣmapañcakam
1.123.3
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् । स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम्
tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret / snātvā trikālaṃ pitrādīnyavādyairarcayeddharim
1.123.4
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः । स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत्
yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ / snāpayitvātha karpūramukhaiścaivānulepayet
1.123.5
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् । नैवद्यं परमान्नं तु जपेदष्टोत्तरं शतम्
ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet / naivadyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam
1.123.6
ॐ नमो वासुदेवाय घृतव्रीहितिलादिकम् । अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत्
oṃ namo vāsudevāya ghṛtavrīhitilādikam / aṣṭākṣareṇa mantreṇa svāhāntena tu homayet
1.123.7
प्रथमे ऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितयिक । बिल्वपत्रैर्जानुदेशं नाभि गन्धेन चापरे
prathame 'hni hareḥ pādau yajetpadmairdvitayika / bilvapatrairjānudeśaṃ nābhi gandhena cāpare
1.123.8
स्कन्धा बिल्वजवाभिश्च पञ्चमे ऽह्नि शिरोर्ऽचयत् । मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात्
skandhā bilvajavābhiśca pañcame 'hni śiror'cayat / mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt
1.123.9
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् । नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक्
gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam / naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk
1.123.10
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः । अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम्
ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ / aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam
1.123.11
एकादशी द्वादशी च निशान्ते च त्रयोदशी । नित्यमेकादशी यत्र तत्र सन्निहितो हरिः
ekādaśī dvādaśī ca niśānte ca trayodaśī / nityamekādaśī yatra tatra sannihito hariḥ
1.123.12
दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः । द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत्
daśamyekādaśī yatra tatrasthāścāsurādayaḥ / dvādaśyāṃ pāraṇa kuryātsūtake mṛtake caret
1.123.13
चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् । पौर्णमास्या ममावास्यां प्रतिपन्मिश्रितां मुने
caturdaśīṃ pratipadaṃ pūrvamiśrāmupāvaset / paurṇamāsyā mamāvāsyāṃ pratipanmiśritāṃ mune
1.123.14
द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् । चतुर्थ्या सङ्गतां नित्यं चतुर्थोञ्चनया युताम् । पञ्चमींषष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम्
dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāñcāpyupāvaset / caturthyā saṅgatāṃ nityaṃ caturthoñcanayā yutām / pañcamīṃṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāñca saptamīm
1.123.15