← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 124
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भीष्मपञ्चकादिव्रतं नाम त्रयोविंशत्युत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १२४ ब्रह्मोवाच । शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम् । यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम्
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 124 brahmovāca / śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām / yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam
1.124.1
ईश्वरौवाच । माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी । तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः
īśvarauvāca / māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī / tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ
1.124.2
कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः । उपोषितैः पूजितः सन्नरकात्तरयत्तथा
kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ / upoṣitaiḥ pūjitaḥ sannarakāttarayattathā
1.124.3
निषादश्चर्बुदे राजा पापी सुन्दरसेनकः । स कुक्रुरैः समायुक्तो मृगान्हन्तुं वनं गतः
niṣādaścarbude rājā pāpī sundarasenakaḥ / sa kukruraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ
1.124.4
मृगादि कमसंप्राप्य क्षुत्पिपासार्दितो गिरौ । रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः
mṛgādi kamasaṃprāpya kṣutpipāsārdito girau / rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ
1.124.5
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः । पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः
tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ / parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ
1.124.6
तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके । शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात्
tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake / śaraḥ pramādenaikastu pracyutaḥ karapallavāt
1.124.7
जानुभ्यामवनीं गत्वा लिङ्गं स्प्टष्ट्वा गृहीतवान् । एवं स्नानं स्पर्शनं च पूजनं जागरो ऽभवत्
jānubhyāmavanīṃ gatvā liṅgaṃ spṭaṣṭvā gṛhītavān / evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat
1.124.8
प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च । काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते
prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca / kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate
1.124.9
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च । कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगो ऽमलः
tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca / kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ
1.124.10
एवमज्ञानतः पुण्यञ्ज्ञानात्पुण्यमथाक्षयम् । त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती
evamajñānataḥ puṇyañjñānātpuṇyamathākṣayam / trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī
1.124.11
प्रातर्देव ! चतुर्दश्यां जागरिष्याम्यहं निशि । पूजां दानं तपो होमं करिष्याम्यात्मशक्तितः
prātardeva ! caturdaśyāṃ jāgariṣyāmyahaṃ niśi / pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ
1.124.12
चतुर्दश्यां निराहारो भूत्वा शम्भो परे ऽहनि । भोक्ष्ये ऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर
caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani / bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara
1.124.13
पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुं श्रितः । ॐ नमो नमः शिवाय गन्धाद्यः पूजयेद्धरम्
pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ / oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam
1.124.14
तिलतण्डुलव्रीहींश्च जुहुयात्सघृतं चरुम् । हुत्वा पूर्णाहुतिं दत्त्वा शृणुयाद्गीतसत्कथाम्
tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum / hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām
1.124.15
अर्धरात्रे त्रियामे च चतुर्थे च पुनयर्जत् । मूलमन्त्रं तथा जप्त्वा प्रभाते तु क्षमापयेत्
ardharātre triyāme ca caturthe ca punayarjat / mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet
1.124.16
अविघ्नेन व्रतं देव ! त्वत्प्रसदान्मयार्चितम् । क्षमस्व जगतां नाथ ! त्रैलोक्याधिपते हर !
avighnena vrataṃ deva ! tvatprasadānmayārcitam / kṣamasva jagatāṃ nātha ! trailokyādhipate hara !
1.124.17
यन्मयाद्य कृतं पुण्यं यद्रुद्रस्य निवेदितम् । त्वत्प्रसादान्मया देव ! व्रतमद्य समापितम्
yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam / tvatprasādānmayā deva ! vratamadya samāpitam
1.124.18
प्रसन्नो भव मे श्रीमन् गृहं प्रति च गम्यताम् । त्वदालोकनमात्रेण पवित्रो ऽस्मि न संशयः
prasanno bhava me śrīman gṛhaṃ prati ca gamyatām / tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ
1.124.19
भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् । देवादिदेव भूतेश लोकानुग्रहकारक
bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet / devādideva bhūteśa lokānugrahakāraka
1.124.20
यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः । इति क्षमाप्य च व्रती कुर्याद्वादशवार्षिकम्
yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ / iti kṣamāpya ca vratī kuryādvādaśavārṣikam
1.124.21
कीर्तिश्रीपुत्रराज्यादि प्राप्य शैवं पुरं व्रजेत् । द्वादशेष्वपि मासेषु प्रकुर्यादिह जागरम्
kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet / dvādaśeṣvapi māseṣu prakuryādiha jāgaram
1.124.22
व्रती द्वादश संभोज्य दीपदः स्वर्गमाप्नुयात्
vratī dvādaśa saṃbhojya dīpadaḥ svargamāpnuyāt
1.124.23