← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 126
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम पञ्चविंशत्युत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १२६ ब्रह्मोवाच । येनार्चनेन वै लोको जगाम परमां गतिम् । तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम्
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 126 brahmovāca / yenārcanena vai loko jagāma paramāṃ gatim / tamarcanaṃ pravakṣyāmi bhuktimuktikaraṃ param
1.126.1
सामान्यमण्डलं न्यस्य धातारं द्वारदेशतः । विधातारं तथा गङ्गां यमुनां च महानदीम्
sāmānyamaṇḍalaṃ nyasya dhātāraṃ dvāradeśataḥ / vidhātāraṃ tathā gaṅgāṃ yamunāṃ ca mahānadīm
1.126.2
द्वारश्रियं च दण्डं च प्रचण्डं वास्तुपूरुषम् । मध्ये चाधारशक्तिं च कूर्मं चानन्तमर्चयेत्
dvāraśriyaṃ ca daṇḍaṃ ca pracaṇḍaṃ vāstupūruṣam / madhye cādhāraśaktiṃ ca kūrmaṃ cānantamarcayet
1.126.3
भूमिं धर्मं तथा ज्ञानं वैरग्यैश्वर्यमेव च । अधर्मादींश्च चतुरः कन्दं नालं च पङ्कजम्
bhūmiṃ dharmaṃ tathā jñānaṃ vairagyaiśvaryameva ca / adharmādīṃśca caturaḥ kandaṃ nālaṃ ca paṅkajam
1.126.4
कर्णिकां केसरं सत्त्वं राजसं तामसं गुणम् । सुर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः
karṇikāṃ kesaraṃ sattvaṃ rājasaṃ tāmasaṃ guṇam / suryādimaṇḍalānyeva vimalādyāśca śaktayaḥ
1.126.5
दुर्गां गणं सरस्वतीं क्षेत्रपालं च कोणके । आसनं मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन्
durgāṃ gaṇaṃ sarasvatīṃ kṣetrapālaṃ ca koṇake / āsanaṃ mūrtimabhyarcya vāsudevaṃ balaṃ smaran
1.126.6
अनिरुद्धं महात्मानं नारायणमथार्चयेत् । हृदयादीनि चाङ्गानि शङ्खादीन्यायुधानि च
aniruddhaṃ mahātmānaṃ nārāyaṇamathārcayet / hṛdayādīni cāṅgāni śaṅkhādīnyāyudhāni ca
1.126.7