← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 133
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बुधाष्टमीव्रतनिरूपणं नाम द्वात्रिंशदुत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १३३ ब्रह्मोवाच । अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 133 brahmovāca / aśokakalikā hyaṣṭau ye pibanti punarvasau / caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ
1.133.1
त्वामशोक ! हराभीष्ट ! मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु
tvāmaśoka ! harābhīṣṭa ! madhumāsasamudbhava / pibāmi śokasantapto māmaśokaṃ sadā kuru
1.133.2
(इत्यशोकाष्टमीव्रतम्) । ब्रह्मोवाच । शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता । सा महानवमीत्युक्ता स्नानदानादि चाक्षयम्
(ityaśokāṣṭamīvratam) / brahmovāca / śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā / sā mahānavamītyuktā snānadānādi cākṣayam
1.133.3
नवमी केवला चापि दुर्गां चैव तु पूजयेत् । महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम्
navamī kevalā cāpi durgāṃ caiva tu pūjayet / mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam
1.133.4
अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च । जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा
ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca / japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā
1.133.5
दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रो ऽयं पूजनादिषु । दीर्घाकारादिमात्राभिर्नव देव्यो नमो ऽन्तिकाः
durgedurge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu / dīrghākārādimātrābhirnava devyo namo 'ntikāḥ
1.133.6
षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम् । अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम्
ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam / aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pṛjayecchivām
1.133.7
अष्टम्यां नव गेहानि दारुजान्येकमेव वा । तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा
aṣṭamyāṃ nava gehāni dārujānyekameva vā / tasmindevī prakartavyā haimī vārājatāpi vā
1.133.8
शूले खङ्गे पुस्तके वा पटे वा मण्डले (पे) यजेत् । कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः
śūle khaṅge pustake vā paṭe vā maṇḍale (pe) yajet / kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ
1.133.9
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती । शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम्
dhvajaṃ ḍamarukaṃ pāśaṃ vāmahasteṣu bibhratī / śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaṅgaṃ tathāṅkuśam
1.133.10
शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् । शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना
śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām / śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā
1.133.11
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका
rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā / caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā
1.133.12
नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः । रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका
navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ / rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā
1.133.13
पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा । म (मा) हिषो ऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः
pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā / ma (mā) hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ
1.133.14
जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते । पञ्च (ञ्चा) दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् । लिङ्गस्यां पूजयेद्वापि पादुके ऽथ जले ऽपि वा
japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate / pañca (ñcā) daśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet / liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā
1.133.15
विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत् । पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत्
vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet / pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet
1.133.16
विधिवत्कालिकालीति तदुत्थरुधिरादिकम् । नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम्
vidhivatkālikālīti taduttharudhirādikam / nerṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm
1.133.17
दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम्
dadyāccarakyai caiśānyāmāgneyyāṃ ca vidārikām
1.133.18