Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 17

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशो ऽध्यायः श्रीगरुडमहापुराणम्- १७ हरिरुवाच । पुनः सूर्यार्चनं वक्ष्ये यदुक्तं धनदाय हि । अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम्

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 17 hariruvāca / punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi / aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam

1.17.1

आवाहनीं ततो बद्धा मुद्रामावाहयेद्रविम् । खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम्

āvāhanīṃ tato baddhā mudrāmāvāhayedravim / khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm

1.17.2

आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव ! । ऐशान्यां तु शिरः स्थाप्यं नैरृत्यां विन्यसेच्छिखाम्

āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva ! / aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām

1.17.3

पौरन्दर्यां न्यसेद्धर्ंममेकाग्रस्थितमानसः । वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च

paurandaryāṃ nyaseddharṃmamekāgrasthitamānasaḥ / vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca

1.17.4

ऐशान्यां स्थापयेत्सोमं पौरन्दर्यां तु लोहितम् । आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम्

aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam / āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim

1.17.5

नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् । वायव्यां च तथा केतुं कौबेर्यां राहुमेव च

nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram / vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca

1.17.6

द्वितीयायां तु कक्षायां सूर्यान्द्वादश पूजयेत् । भगः सूर्योर्ऽय्यमा चैव मित्रो वै वरुणस्तथा

dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet / bhagaḥ sūryor'yyamā caiva mitro vai varuṇastathā

1.17.7

सविता चैव धाता च विवस्वांश्च महाबलः । त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते

savitā caiva dhātā ca vivasvāṃśca mahābalaḥ / tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate

1.17.8

पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः । जया च विजया चैव जयन्ति चापराजिता । शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत्

pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ / jayā ca vijayā caiva jayanti cāparājitā / śeṣaśca vāsukiścaiva nāgānityādi pūjayet

1.17.9

1.161.18