← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 22
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डं पञ्चवक्क्रपूजनं नामैकविंशो ऽध्यायः श्रीगरुडमहापुराणम्- २२ सूत उवाच । शिवार्चनं प्रवक्ष्यामि बुक्तिमुक्तिकरं परम् । शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम्
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavakkrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 22 sūta uvāca / śivārcanaṃ pravakṣyāmi buktimuktikaraṃ param / śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam
1.22.1
पञ्च वक्क्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना । सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः
pañca vakkrāṇi hrasvāni dīrghāṇyaṅgāni bindunā / savisargaṃ vadedastraṃ śiva ūrghvaṃ tathā punaḥ
1.22.2
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः । हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्मस्तकम्
ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ / hastābhyāṃ saṃspṛśetpādāvūrdhvaṃ pādānmastakam
1.22.3
महामुद्रा हि सर्वेषां कराङ्गन्यासमाचरेत् । तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत्
mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret / tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet
1.22.4
कनिष्ठामादितः कृत्वा तर्जन्यङ्गानि विन्यसेत् । पूजनं संप्रवक्ष्यामि कर्णिकायां त्दृदम्बुजे
kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset / pūjanaṃ saṃpravakṣyāmi karṇikāyāṃ tdṛdambuje
1.22.5
धर्मं ज्ञानं च वैराग्यमैश्वर्यादि त्दृदार्चयेत् । आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत्
dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi tdṛdārcayet / āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet
1.22.6
आचामं स्नपनं पूजामेकाधारणतुल्यकम्? । अग्निकार्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत्
ācāmaṃ snapanaṃ pūjāmekādhāraṇatulyakam? / agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret
1.22.7
वर्ंमणाभ्युक्षणं कार्यं शक्तिन्यासं हृदा चरेत् । त्दृदि वा शक्तिगर्ते च प्रक्षिपेज्जातवेदसम्
varṃmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret / tdṛdi vā śaktigarte ca prakṣipejjātavedasam
1.22.8
गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम् । हृदा कृत्वा सर्वकर्ंम शिवं सांगं तु होमयेत्
garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām / hṛdā kṛtvā sarvakarṃma śivaṃ sāṃgaṃ tu homayet
1.22.9
पूजयेन्मण्डले शम्भुं पद्मगर्भे गराङ्कितम् । चतुः षष्ट्यन्तमष्टादि खाक्षि खाद्यादिमण्डलम्
pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam / catuḥ ṣaṣṭyantamaṣṭādi khākṣi khādyādimaṇḍalam
1.22.10
खाक्षीन्द्रसूर्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्तनम् । आग्नेय्यां कारयेत्कुण्डमर्धचन्द्रनिभं शुभम्
khākṣīndrasūryagaṃ sarvakhādivedendu (devendu) vartanam / āgneyyāṃ kārayetkuṇḍamardhacandranibhaṃ śubham
1.22.11
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते । अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः
agniśāstra parāyustho tdṛdayādigaṇocyate / astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ
1.22.12
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे । निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः
dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare / nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ
1.22.13
शान्त्यतीतं भवेव्द्योम तत्परं शान्तमव्ययम् । एकैकस्य शतं होमा हत्येवं पञ्च होमयेत्
śāntyatītaṃ bhavevdyoma tatparaṃ śāntamavyayam / ekaikasya śataṃ homā hatyevaṃ pañca homayet
1.22.14
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सोदन शिवं स्मरेत् । प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात्
paścātpūrṇāhutiṃ dattvā prā(pra)sodana śivaṃ smaret / prāyaścittaviśuddhyarthamekaikāṣṭāhutiṃ kramāt
1.22.15
होमयेदस्त्रबीजेन एवं दीक्षां समापयेत् । यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम्
homayedastrabījena evaṃ dīkṣāṃ samāpayet / yajanavyatirekeṇa gopyaṃ saṃskāramuttamam
1.22.16
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम्
evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam
1.22.17