← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 36
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ३६ हरिरुवाच । सन्ध्याविधिं प्रवक्ष्यामि शृणु रुद्राघनाशनम् । प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत्
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyattrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 36 hariruvāca / sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam / prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet
1.36.1
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह । त्रिः पठेदायतप्रणः प्राणायामः स उच्यते
sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha / triḥ paṭhedāyatapraṇaḥ prāṇāyāmaḥ sa ucyate
1.36.2
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः । तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत्
manovākrāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ / tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet
1.36.3
सायमग्निश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत् । आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि
sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet / āpaḥ punantu madhyāhne upaspṛśya yathāvidhi
1.36.4
आपोहिष्ठेत्यृचा कुर्यान्मार्जनं तु कुशोदकैः । प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे
āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ / praṇavena tu saṃyuktaṃ kṣipedvāri padepade
1.36.5
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् । वाङ्मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत्
rajastamaḥ svamohotthāñjāgratsvapnasuṣuptijān / vāṅmanaḥ karmajāndoṣānnavaitānnavabhirdahet
1.36.6
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् । त्रिपडष्टौ द्वादशधा वर्तयेदघमर्पणम्
samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet / tripaḍaṣṭau dvādaśadhā vartayedaghamarpaṇam
1.36.7
उदुत्यञ्चित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् । दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात्
udutyañcitramityābhyāmupatiṣṭheddivākaram / divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt
1.36.8
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च । महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम्
pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca / mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām
1.36.9
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् । त्रियुगं तु सहस्रेण गायत्त्री हन्ति दुष्कृतम्
daśabhirjanmajanitaṃ śatena tu purā kṛtam / triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam
1.36.10
रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका । कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम्
raktā bhavati gāyattrī sāvitrī śuklavarṇikā / kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam
1.36.11
ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् । ॐ स्वरिति शिखायां च गायत्त्र्याः प्रथमं पदम्
oṃ bhūrvinyasya hṛdaye oṃ bhuvaḥ śirasi nyaset / oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam
1.36.12
विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् । तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत्
vinyasetkavace vidvāndvitīyaṃ netrayornyaset / tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset
1.36.13
संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् । शिवस्तस्यास्तु सर्वाह्ने प्राणायामपरं न्यसेत्
saṃdhyākāle tu vinyasya japedvai vedamātaram / śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset
1.36.14
त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी । विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत्
tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī / viniyogamṛṣicchando jñātvā tu japamārabhet
1.36.15
सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् । परोरजसि सावद्ॐ तुरीयपदमीरितम्
sarvapāpavinirmukto brahmalokamavāpnuyāt / parorajasi sāvadoṃ turīyapadamīritam
1.36.16
तं हन्ति सूर्यः सन्ध्यायां नोपास्तिं कुरुते तु यः । तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च
taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ / turīyasya padasyāpi ṛṣirnirmala eva ca
1.36.17
छन्दस्तु देवी गायत्त्री परमात्मा च देवता
chandastu devī gāyattrī paramātmā ca devatā
1.36.18