← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 35
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ३५ हरिरुवाच । न्यासादिकं प्रवक्ष्यामि गायत्त्र्याः शृणु शङ्कर । विश्वामित्रऋषिश्चैव सविता चाथ देवता
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhirnāma catustriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 35 hariruvāca / nyāsādikaṃ pravakṣyāmi gāyattryāḥ śṛṇu śaṅkara / viśvāmitraṛṣiścaiva savitā cātha devatā
1.35.1
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता । विनियोगैकनयना कात्यायनसगोत्रजा
brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā / viniyogaikanayanā kātyāyanasagotrajā
1.35.2
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता । एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम्
trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā / evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam
1.35.3
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा । जेप च त्रिपदा ग्रोक्ता अर्चने च चतुष्पदा
tripadāṣṭākṣarā jñeyā catuṣpādā ṣaḍakṣarā / jepa ca tripadā groktā arcane ca catuṣpadā
1.35.4
न्यासे जपे तथा ध्याने अग्निकार्ये तथार्चने । गायत्त्रीं विन्यसेन्नित्यं सर्वपापग्रणाशिनीम्
nyāse jape tathā dhyāne agnikārye tathārcane / gāyattrīṃ vinyasennityaṃ sarvapāpagraṇāśinīm
1.35.5
पादांसुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः । ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे
pādāṃsuṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ / ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare
1.35.6
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः । नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे
stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ / netre bhuvārlalāṭe ca pūrvasyāṃ dakṣiṇottare
1.35.7
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् । इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम्
paścame mūrdhni cākāraṃ nyasedvarṇānvadāmyaham / indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam
1.35.8
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् । श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत्
śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat / śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat
1.35.9
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् । अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च
śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham / arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca
1.35.10
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा । पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः
yadyatspṛśati hastena yacca paśyati cakṣuṣā / pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ
1.35.11